________________ संकुल 38 - अभिधानराजेन्द्रः - भाग 7 संख ग्रामवर्णकश्चेत्थम्-तत्र च ग्रामे कोद्रवा रालकाश्च प्राचुर्येणोत्पद्यते इति तेषामेव कूरं गृहे गृहे भिक्षार्थमटन्तः साधवो लभन्ते / वसतिरपि स्त्रीपशुपण्डकविवर्जिता समभूतलादिगुणैरतिरमणीया कल्पनीया च प्राप्यते। स्वाध्यायोऽपि तत्र वसतामविघ्रमभिवर्द्धते, केवलं शाल्योदनो नप्राप्यते इति न केचनापि सूरयो भरेण तत्रावतिष्ठन्ते / पिं०। (विशेष - श्चात्रत्यः 'आधाकम्म' शब्दे द्वितीयभागे 40 पृष्ठे गतः।) संकेय त्रि० (संकेत) केत-चिह्न केतेन सह वर्तत इति संकेतम्। सचिहे, आव०६ अ०। स्था०। संके यपचक्खाण पुं० (संकेतप्रत्याख्यान) प्रत्याख्याने, ध०। अङ्गुष्ठमुष्टिग्रन्थ्यादिचिह्नोपलक्षितं सङ्केतं, तच्च श्रावकः पौरूष्यादिप्रत्याख्यानं कृत्वा क्षेत्रादौ गतो गृहे वा तिष्ठन भोजनप्राप्तेः प्राक प्रत्याख्यानरहितो मा भूवमित्यडगुष्ठादिकं सङ्केतं करोति यावदड्गुष्ट मुष्टिं ग्रन्थिं (वा) न मुञ्चामि, गृह वा न प्रविशामि, खेदबिन्दवो यावन्न शुष्यन्ति, एतावन्तो वा उच्छासा यावन्न भवन्ति, जलादिमञ्चिकायां यावदेते बिन्दवो न शुष्यन्ति, दीपो वा यावन्न निर्वाति तावन्न भुजे इति। ध०२ अधिन इदानीं सङ्केतद्वारविस्तरार्थप्रतिपादनायाऽऽहअंगुढद्विगंठी-घरसेउस्सासथिवुगजोइक्खे। भणियं संकेयमेयं, धीरेहि अणंतनाणीहिं / / 1578|| अड्गुष्ठश्च मुष्टिश्चेत्यादिद्वन्द्वः, अङ्गुष्ठमुष्टिग्रन्थिगृहस्वेदोच्छासस्तिवुकज्योतिष्कान् तान् चिहं कृत्वा यत् क्रियते प्रत्याख्यानं तत् भणितम्-उक्तं संङ्केतमेतत्, कैः ? धीरैः अनन्तज्ञानिभिरिति गाथासमासार्थः / अवयवत्थो पुण-केतं नाम चिंधं, सह केतेन सङ्केत सचिह्नमित्यर्थः / 'साधू सावगो वा पुण्णे वि पचक्खाणे किंचि चिण्ह अभिगिण्हति, जाव एवं ताबाधं ण जिमेमि' ति ताणिमाणि चिंधाणि अंगुट्ठमुढिगंठिघरसेऊसासथिबुगदीवगाणि / तत्थ ताव सावगो पोरूसीपच्चक्खाइतो ताथे छेत्तं गतो, घरे वा ठितो ण ताव जेमेति, ताथे ण किर वट्टति अपच्चक्खाणस्स अच्छितुं तदा अंगुट्टचिंध करेति, जाव ण मुयामि ताव न जेमेमि त्ति, जाव वा गठि ण मुयामि, जाव घरं ण पविसामि, जाव सेओ ण णस्सति, जाव वा एवतिया उस्साया, पाणियमंचिताए वा, जाव एत्तिया थिबुगा उस्सासबिंदू थियुगा वा, जाव एस दीवगो जलति ताव-अहं ण भुंजामि ति। न केवलं भत्ते अण्णेसु वि अनिग्गहविसेसेसु संकेतं भवति। एवं ताव सावयस्स, साधुस्स वि पुण्णे पचक्खाणे किं अपचवखाणी अचछउ? तम्हा तेण वि कातव्वं सङ्केतमिति / व्याख्यातं सङ्केतद्वारम्। आव 6 अ०। संकोडना स्त्री० (संकोटना) गात्रसंकोचने, प्रश्न० 3 आश्र० द्वार।। विपा०। संकोडिय त्रि० (संकोटित) संकोचिते, प्रश्न०३ आश्र० द्वार। आ०चू० ! संकोय पुं० (संकोच) नस्कारे, आ०क० / द्रव्यभावसंकोचनम्।। द्रव्यसंकोचनम् -करशिरःपादादिसंकोचः, भावसंकोचनम्मनस एकाग्रता। द्रव्यसंकोचःपालकस्य / भावसंकोचोऽनुत्तरदेवानाम्। उभयसंकोचः शम्बस्य। उभयाभावः शून्यः। आ०क० 1 अ०1 संख पुं० (शख) “शषोः सः" ||4|306 / / इति शस्य सः / प्रा.। समुद्रोद्भवे (प्रज्ञा० १पद / ) वृत्ते दीर्घाकृती, (नि०चू० 17 उ०।) जलचरप्राणिविशेष, नि०५० 130 / कम्बुनि, स्था०६ ठा०३ उ०। औला उत्त० / प्रश्न० / वासुदेवस्य पाञ्चजन्यःशंखः / उत्त० 10 अ० / शंखः पाञ्चजन्यो द्वादशयोजनविस्तारध्वनिः / प्रव० 212 द्वार / आ०म० / उत्त० / रा०ा जं० / प्रश्न०।नं० / “परिट्ठिया संखसुत्तिव्य !" प्रा० 2 पाद। आचा० / आ०म० / अनु० / अक्षिप्रत्यासन्नावयवविशेषे ज्ञा०१ श्रु०८ अ० / एकोनविंशतितमे महाग्रह, स्था०२ अ०३ उ०। कल्प०। चं० प्र० / सू० प्र०। दो संखा / (सूत्र) स्था०२ ठा०३ उ०। वैशालीनगरीवास्तव्ये सिद्धार्थराजमित्र, आ०म० 1 अ० / आ०चू०। लवणसमुद्रस्य वेलारक्षके स्वनामख्याते वेलन्धरनागराजे, जम्बूद्वीपस्य बाह्यवेदिकान्तात् द्वाचत्वारिंशद्योजनान्यवगाह्य लवणसमुद्रे संखस्य वेलन्धरनागराजस्यावासपर्वते, स्था० 4 ठा०२ उ०। (संखस्य वेलन्धरनागराजस्य तदावासभूतस्य पर्वतस्य चवक्तव्यता'लवणसमुद्र' शब्दे 6 भागे 645 पृष्ठ गता।) स्वनामख्याते श्रावस्तीवास्तव्ये श्रावके, स्था० शंखशतको श्रावस्तीश्वावको, ययोरीदृशी वक्तव्यताकिल श्रावस्त्यां कोष्ठके चैत्ये भगवानेकदा विहरति स्म, शमादिश्रमणोपासकाश्वागतं भगवन्तं विज्ञाय वन्दितुमागताः। ततो निवर्तमानांस्तान् शंखः खल्वाख्याति स्मयथा भोदेवानांप्रिया ! विपुलमशनाद्युपस्कारयत ततस्तत्परिभुजानाः पाक्षिकं पर्व कुर्वाणा विहरिष्यामः / ततस्ते तत्प्रतिपेदिरे, पुनः शवोऽचिन्तयत्-न श्रेयो मेऽशनदिभुजानस्य पाक्षिकपौषधं प्रतिजाग्रतो विहर्तु, श्रेयस्तु मे पौषधशालायां पौषधिकस्य मुक्ताभरणशस्त्रादेः शान्तवेषस्य विहर्तुम्। अथ स्वगृहे गत्वा उत्पलाभिधानस्वभार्याया वार्ता निवेद्य पौषधशालायां पौषधमकार्षीत् / इतश्च तेऽशनाद्युपस्कारयांचाः,एकत्र च समवेयुः शङ्ख प्रतीक्षमाणास्तस्थुः। ततोऽनागच्छति शङ्ख पुष्कलीनामा श्रमणोपासकः शतक इत्यपरनाम: शंखस्याकारणार्थ तद्गृहं जगाम / आगतस्य चोत्पला श्रावकोचितप्रतिपत्तिंचकारा ततः पौषधशालायां स विवेश, ईर्यापथिकी प्रतिचक्राम। शङ्कमभ्युवाच-यदुतोपस्कृतं तदशनादि तद् गच्छामः श्रावकसमवाये, भुज्महे तदशनादि, प्रतिजागृमः पाक्षिकपौषधम्। तत उवाच शङ्क: अहं हि पौषधिको नागमिष्यामीति। ततः पुष्कली गत्वा श्रावकाणां तन्निविवेद / ते तु तदनुबुभुजिरे, शङ्खस्तुप्राप्तः पौषधमपारयित्वैव पारगतपादपद्मप्रणिपतनाथ प्रतस्थौ। प्रणिपत्य च समुचितदेशे उपविवेश / इतरेऽपि भगवन्तं वन्दित्वाधर्मच श्रुत्वाशंखान्तिकंगत्वा एवमुचुः-सुष्ठवंदेवानांप्रिय! अस्मान् हीलयसि. ततस्तान भगवान् जगाद-मा भो यूयं शङ्ख हीलयसि, शङ्को ह्यहीलनीयः, यतोऽयं प्रियधर्मा दृढधर्माचा तथा सुदृष्टि-जागरिका जाग