SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ सरीर 544 - अभिधानराजेन्द्रः - भाग 7 सरीर भाग प्रणीनां विष्कम्भसूचिरडगुलद्वितीयवर्गमूल तृतीयवर्गमूलअन्युपान्। एतदुक्तं भवति-अड्गुलमात्रक्षत्रप्रदेशराशेरसत- कल्पनया / षट्पञ्चाशदधिकशतद्वयप्रमाणस्य यद् द्वितीयं वर्गमूलम्, असत्कल्पनया चतुष्कलक्षणं, तत्ततीयेन वर्गमूलन, असत्कल्पनया द्विकरूपेण गुण्यते गुणिते च सति यावान् प्रदेशराशिर्भवति, असत्कल्पनया अष्टी तावत्प्रदेशात्मिकया विष्कम्भसूच्या परिमिताः श्रेणयः परिग्रायाः / तत्रापि ता एव अष्टौ श्रेणय इति प्रकारद्वयेऽप्यभेिदः / आहारकाणि नैरयिकवत्, तैजसकार्मणानि बद्धानि बद्धवेक्रियवत्, मुक्तान्याधिकमुक्तवत्। प्रज्ञा०१२ पदा भ०। (6) संग्रहःविहिसंठाणपमाणे, पोग्गलचिणणा सरीरसंजोगो। दव्वपएसऽप्पबहुं, सरीरओगाहणऽप्पबहुं / / 1 / / 'विहिसंठाणपमाणे' इत्यादि प्रथम विधया-भेदाः शरीराणां वक्तव्याः, तदनन्तरं संस्थानानि ततः प्रमाणानि, तदनन्तरं, कतिभ्यो दिग्भ्यः शरीराणां पुद्गलोपचयो भवतीत्येवं पुद्गलचयनं वक्तव्यं, ततः कस्मिन् शरीरे सति किं शरीरमवश्यंभावीत्येवंरूपः परस्परसंयोगो वक्तव्यः, ततो द्रव्याणि च प्रदेशाश्च द्रव्यप्रदेशाः ते च द्रव्याणि च प्रदेशाश्व द्रव्यप्रदेशाः। 'समानानामेकशेषः' इत्येक-शेषस्तैरल्पबहुत्वं वक्तव्यम् / किमुक्तं भवति?- द्रव्यार्थतया प्रदेशार्थतया द्रव्यार्थप्रदेशार्थतया च पश्चानामपि शरीराणामल्पबहुत्वमभिधातव्यमिति,ततः पञ्चानामपि शरीराणामवगाहनाविषयमल्पबहुत्वं वाच्यमिति गाथासंक्षेपार्थः। (10) तत्र यथोद्देशं निर्देश इति प्रथमतो विधिद्वारम भिधित्सुरादौ शरीरमूलभेदान् प्रतिपादयतिकतिणं मंते! सरीरया पण्णत्ता? गोयमा! पंच सरी-रया पण्णत्ता,तं जहा- ओरालिए 1 वेउव्विर 2 आहा-रए 3 तेयए / कम्मए 5 | (2674) 'कइण भंते!' इत्यादि, कति-किंपरिभाणानि णमिति वाक्या-लङ्कारे, / भदन्त:शीर्यन्ते-प्रतिक्षणं विशरारुभावं बिभ्रतीति शरी-राणिशरीराण्येव शरीरकाणि, तथा स्वार्थ कप्रत्ययः, भगवानाह - गौतम! पञ्च शरीराणि प्रज्ञप्तानि मया अन्यैश्च शेषैः तीर्थकृद्भिः, तान्येव नामत आह-'ओरालिए' इत्यादि उदार प्रधान, प्राधान्यं चास्य तीर्थकरगणधरशरीराण्यधिकृत्य, ततोऽन्यस्यानुत्तरशरीर-स्याप्यनन्तगुणहीनत्वात, यद्वा-उदारं सातिरेकयोजनसहस्रमान-त्वात् शेषशरीरापेक्षया बृहत्प्रमाणं, बृहत्ता चास्य वैक्रिय प्रति भवधारणीयसहजशरीरापेक्षया द्रष्टव्या, अन्यथा उत्तरवैक्रिय योजनलक्षमानमपि लभ्यते / उदारमेव औदारिक विनयादिपाठा-दिकण, तथा विविधा विशिष्टा वा क्रिया विक्रिया तस्या भवं वैक्रियम् / तथाहि-तदेकं भूत्वा अनेकं भवति, अनेक भूत्वा एकं, तथा अणु भूत्वा महद्भवति महन्च भूत्वा अणु तथा खचरं भूत्वा भूमिचरं भवति भूमिचरं भूत्वा खचरं, तथा दृश्य भूत्वा अदृश्यं भवति अदृश्य भूत्वा दृश्यमित्यादि, लय द्विविधम्-औपपातिकं, लब्धिप्रत्ययं च / तापपातिकमुपपातजन्मनिर्मितं तच्च देवनार-काणां, लब्धिप्रत्ययं तिरमनुष्याणां, तथा 'आहारए' इति-आहारक चतुर्दशपूर्वविदा तीर्थकरस्फ तिदर्शनादिकं तथाविधप्र-योजनोत्पत्तौ सत्या विशिष्टलब्धिवशादाहियते-निवर्त्यते इत्या-हारकम्, कृहुशल मिति वचनात् कर्मणि वुञ , यथा पादहारक इत्यत्र / उक्तं च- "कजम्मि समुप्पण्णे, सुयकेवलिणा विसिह-लद्धीए। जं एत्थ आहरिजइ, भणितं आहारगं तं तु // 1 // " कार्यं चेदम्- "पाणिदयरिद्धिदसण-सुहुभपयत्थावगहणहेउवा। संस-यवोच्छयत्थं, गमणं जिणषायमूलम्मि॥२॥" तर वैक्रियशरीरापेक्षयां अत्यन्तशुभं स्वच्छस्फटिकशिलेव शुभ्रपुद्गलसमूहघटनात्मकं, तेज इति-तैजस तेजसः-तेजःपुद्गलानां विकारस्तैजसं 'विकार' इत्यण, तत ऊष्मलिङ्ग भुक्ताहारपरिणमनकारणं, तद्वशाच्च विशिष्टतप, समुत्थलब्धिविशेषस्य पुंसस्तेजोलेश्यविनिर्गमः उक्तं च-" सस्वरस उम्हसिद्ध, रसाइआहारपाकजणगं च / तेयगलद्धिनिमित्तं च तेयग होइ नायव्वं / / 1 // " 'कम्मए' इति-कर्मणो जातं कम्मजम्। प्रज्ञा०२१ पद। (11) जीवस्पृष्टानि वैक्रियादीनि शरीराणिचत्तारि सरीरगा जीवफुडापण्णत्ता,तं जहा-वेउदिवए आहारए तेयए कम्मए। 'चत्तारी' त्यादि व्यक्तं, किन्तु जीवेन स्पृष्टानि-व्याप्तानि जीवस्पृष्टानि, जीवेन हि स्पृष्टान्येव वैक्रियादीनि भवन्ति, नतुयथा औदारिक जीवमुक्तमपि भवति मृतावस्थायां तथैतानीति / स्था०४ ठा०३ उ०। (12) कति महालयानि पृथ्वीशरीराणिके महालए णं मंते ! पुढविसरीरे पन्नत्ते? गोयमा ! अणंताणं सुहुमवणस्सइकाइयाणं जावइया सरीरा से एगे सुहुमवाउसरीरे, असंखे जाणं सुहुमवाउसरीराणं जावतिया सरीरा से एगे सुहुमतेउसरीरे, असंखेजाणं सुहुमतेउकाइयसरीराणं जावति-या सरीरा से एगे सुहुमे आउसरीरे, असंखेजाणं सुहुमआउक्काइयसरीराणं जावइया सरीरा से एगे सुहमे पुढविसरीरे, असंखेजाणं सुहुमपुढविकाइयसरीराणं जावइया सरीरा से एगे बादरवाउसरीरे, असंखेज्जाणं बादवाउक्काइयाणं जावइया सरीरा से एगे बादरतेउसरीरे, असंखेजाणं बादरतेउकाइयाणं जावतिया सरीरा से एगे बादरआउसरीरे, असंखेज्जाणं बादरआउसरीरे जावतिया सरीरा से एगे बादरपुढविसरीरे, एमहालए णं गोयमा ! पुढविसरीरे पन्नत्ते / (सू०६५२४) 'केमहालएण' मित्यादि, अणताणंसुहुमवणस्सइकाइयाणं जावइया सरीरा से एगे सुहमवाउसरीरे त्ति-इह यावद्ग्रहणेनासंख्यातानि शरीराणि ग्राह्याणि अनन्तानामपि वनस्पतीनामेकाद्यसंख्येयान्तशरीरत्वाद अनन्ताना च तच्छरीराणामभावात् प्राक् च सूक्ष्मवनस्पत्यवगाहनाऽपेक्षया सूक्ष्मवाय्वथगाहनाया असंख्यातगुणत्वेनोक्तत्वादिति, 'असंखेजाण, मि
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy