________________ सरीर 541 - अभिधानराजेन्द्रः - भाग 7 सरीर प्रमाणीनीति भावः / क्षेत्रतोऽसंख्येयाः श्रेणयोऽसंख्यातासु श्रेणिषु यावन्तः आकाशत्रदेशास्तावत्प्रमाणानीत्यर्थः, तासा श्रेणीनां परिमाणविशेषनिरिणार्थमाह - प्रतरासंख्येयभागः-प्रतरस्यासख्ये यभागप्रमिता असंख्येयाः श्रेणयः परिगृह्यन्त इति भावः / प्रतरासंख्ये सभागो नै रयिक भवनपतीनामपि प्रतिपादितस्तला विशेषतरपरिमाणनिरूपणार्थ सूचीमानमाह- 'तासि णं सेढी गित्यादि, तासां श्रेणीनां परिमाणावधारणाय या विष्कम्भसूची सा असंख्येयायोजनकोटीको (ष्ट्यः) टी असंख्येयायोजनकोटीकोटिप्रमाणा इत्यर्थः / अथवेदमन्यद्विशेषतः परिमाणम्-'असंखेज्जाइ सेढिवग्गमूलाई' इति-एकस्याः परिपूर्णायाः श्रेणेर्यः प्रदेशराशिस्तस्य प्रथम वर्गमूल द्वितीयं तृतीयं च वर्गमूलं यावद-संख्येयतम वर्गमूलम् / एतानि सर्वाण्यप्र्यकत्र सङ्कल्प्यन्ते, तेषु च सङ्कल्पितेषु यावान् प्रदेशराशिर्भवति तावत्प्रदेशात्मिका विष्कम्भसूचिरवसेया / अत्र निदर्शनम्- श्रेणौ किल प्रदेशा असंख्याता अप्यसत्कल्पनया पञ्चषष्टिः सहस्राणि पञ्चशतानि षट्त्रिंशदधिकानि ६५५३६.तेषां प्रथम वर्गमूल द्वे शते षट्पञ्चाशदधिके 256 द्वितीयं षोडश 16 तृतीयं चत्वारः 4 चतुर्थ द्वी 2, एतेषां च सङ्कलने जाते द्वे शते अष्टसप्तत्याधके 278, एतावता किलासत्कल्पनया प्रदेशानां सूचिरिति / अथैते द्वीन्द्रियाः किं प्रमाणभिरवगाहनाभिरास्तीर्यमाणाः कियता कालेन सकलं प्रतरमापूरयन्ति? उच्यते- अड् गुलासंख्येयभागप्रमाणाभिरवगाहनाभिः प्रत्यावलिकाऽसंख्येयभागमेकैकावगाहनारचनेनासंख्येयाभिरुत्सपिण्यवसर्पिणीभिरापर्यन्ते / इयमत्र भावना-एकैकस्मिन्नावलिकायाः असंख्ययतमे भागे एकैका अड़ गुलासंख्येयप्रमाणा अवगाहना रच्यते, ततोऽसंख्येयाभिरुत्सप्पिण्यवसाप्पिणीभिः सकलमपि प्रतरं द्वीन्द्रियशरीरैरापूर्यत / एतदेवापहारद्वारेण सूत्रकृदाह-'वेइंदियाण' मित्यादि द्वीन्द्रियाणां सम्बन्धिभिरौदारिकशरीरैर्बद्धैः प्रतरमसंख्येयाभिरुत्सप्पिण्यवसप्पिणीभिरपहियते. अत्र प्रतरमिति क्षेत्रतः परिमाणम्, उत्सप्पिण्यवसप्पिणीभिरिति कालतः। किंप्रमाणेन पुनः क्षेत्रेण कालेन वा अपहरणमत आह-'अंगुलपयरस्स आवलियाएय असंखज्जइभागपलिभागेणं' ति अड्गुलमात्रस्य प्रतरस्य एकप्रादेशिक श्रेणिरूपर असंख्येयभाग-प्रतिभागप्रमाणेन खण्डन इदं क्षेत्रविषयं परिमाणम् / कालपरिमाणमावलिकाया असंख्येयभाग-प्रतिभागेनासंख्येयतमेन प्रतिभागेन। किमुक्तं भवति? एकेन द्वीन्द्रियेणाङ्गुलासंख्येयभागप्रमाणं खण्डमावलिकाया असंख्येयतमेन भागेनापह्रियते, द्वितीयेनापि तावत्प्रमाणं खण्डं तावता कालेन, एवमपहियमाणं प्रतरं द्वीन्द्रियैः सर्वरसंख्ययाभिरुत्सप्पिण्यवसप्पिणीभिः सकलमपहियते इति, मुक्तान्यौधिकमुक्तवत, तेजसकार्मणानि बद्धानि बद्धौदारिकवत्, वैक्रियाणि पुनर्बद्धानि तेषां न सन्ति, मुक्तान्यौधिकमुक्तवत्, एवं त्रिचतुरिन्द्रियाणामपि तिर्यक् पञ्चेन्द्रियाणां बद्धानि मुक्तानि चौदारिकाणि द्वीन्द्रियवत वैक्रियाणि बद्धानि असंख्येयानि। तत्र कालतः परिमाणचिन्तायामस ख्ययाभिरुत्साळण्यवसप्पिणीभिरपहियन्ते, क्षेत्रतोऽसंख्येयासु श्रणिषु यावन्तः आकाशप्रदेशास्तावत्प्रमाणानि, तासां च श्रेर्णानां परिमाण प्रत-रस्यासंख्येयो भागः / तथा चाह-'जहा असुरकुमाराण' मिति, यथा असुरकुमाराणां तथा वक्तव्यं, नवरं विष्कम्भसूचिपरिमाणचिन्ताया वाडगुलप्रमाणवर्गभूलस्य संख्ययो भाग उक्तः, इह त्यसंख्येयो भागो वक्तव्यः। किमुक्तं भवति-अडगुलमात्रक्षेत्रप्रदेशराशेः यत्प्रथमं वर्गमूल तस्यासंख्येयतम भागे यावन्त आकाशप्रदेशास्तावत्प्रदेशात्मिका सूचिः परिगृह्यते, तावत्या च सूच्या याः श्रेणयः स्पृष्टास्तासु श्रेणिषु यावन्तः आकाशप्रदेशास्तावत्प्रमाणानि तिर्यकपञ्चेन्द्रियाणा बद्धानि वैक्रियशरीराणि। उक्तं च-अडगुलमूलासंख्येभागप्पमिया उहों ति सेढीओ। उत्तरविउव्वियाण तिरियाणं सन्निपजाणं / / 1 / / " मुक्तान्यौ-धिकमक्तवत्, तैजसकार्मणानि बद्धानि बद्धौदारिकवत, मुक्ता न्यौधिकमुक्तवत् / मनुष्याणां बद्धान्यौदारिकशरीराणि स्यात्-कदाचित् संख्येयानि कदाचिदसंख्येयानि / कोऽत्राभिप्रायः इति चेत्? उच्यतेइह द्वये मनुष्याः-गर्भव्युत्क्रान्तिकाः, सम्मूछिमाश्च। तत्र गर्भव्युत्क्रान्तिकाः सदावस्थायिनो,न स कश्चित्कालोऽस्ति यो गर्भव्युत्क्रान्तिकमनुष्यरहितो भवति, सम्मूच्छिमाश्च कदाचिद्विद्यन्ते कदाचित्सर्वथा तेषामभावो भवति, तेषामुत्कर्षतोऽन्तर्मुहूर्त्तायुष्कत्वात्, उत्पत्त्यन्तरस्य चोत्कर्षतश्चतुर्विशतिनुहूर्तप्रमाणत्वात्, ततो यदा सर्वथा सम्मूछिममनुष्या न विद्यन्ते किन्तु केवला गर्भव्युत्क्रान्तिका एव तिष्ठन्ति तदा स्यात् संख्येयाः, संख्येयानामेव गर्भव्युत्क्रान्तिकाना भावात, महाशरीरत्वे प्रत्येक शरीरत्वे च सति परिमितक्षेत्रवर्तित्वात् / यदा तु सम्मूछिमास्तदा असंख्येयाः, सामूच्छिमानामुत्कर्षतः श्रेण्यसंख्येयभागवर्तिनभः प्रदेशराशिप्रमाणत्वात्, तथा चाह- 'जहन्नपदे संखेजा' इत्यादि, जघन्यपदनामयत्र सर्वस्तोकाः मनुष्याः प्राप्यन्ते, आह-किमत्र सम्भूछिमाना ग्रहणमुत गर्भव्युत्क्रान्तिकानाम् ? उच्यते गर्भव्युत्क्रान्तिकानाम्, तेषामेव सदाऽवस्थायितया सम्मूर्चिछमविरहे सर्वस्तोकतया प्राप्यमाणत्वात्, उत्कृष्टपदे तूमयेषामपि ग्रहणं, यदाह मूलटीकाकारः- "सतराणां ग्रहणमुत्कृष्टपदे,जघन्यपदे गर्भव्युत्क्रान्तिकानामेव केवलानां ग्रहण" मिति, अस्मिन् जघन्यपदे संख्येया मनुष्याः तत्र संख्येयक संख्ये यभेदभिन्नमिति न ज्ञायते कियन्तस्ते इति विशेषसंख्यां निर्धायति-संख्येयाः कोटीकोट्यः, अथवा-इदमन्यत् विशेषतरं परिमाणम् 'तिजमल-पयस्सउवरिं चउजमलपयरस हेट्ठा' इति, इह मनुष्यसंख्याप्रतिपादकान्येकोनत्रिंशदङ्कस्थानानि, वक्ष्य-माणानि, तत्र समयपरिभाषया अष्टानामष्टानामङ्कस्थानानां यमलपद-मिति संज्ञा। चतुर्विशत्या चाङ्कस्थानः त्रीणि यमलपदानि लब्धानि, उपरि पञ्चाङ्कस्थानानि तिष्ठन्ति / अथ च यमलपदमष्टभिरङ्कस्थानस्ततश्चतुर्थ यमलपदं न प्राप्यते तत उक्त त्रयाणां यमलपदानामुपरिपश्चभिरङ्कस्थानवर्द्धमानत्वात् चतुर्थस्य च यमलपदस्याधस्तात्त्रिभिरङ्कस्थानहीनत्वात्। अथवा-द्वौ द्वौ वर्गो समुदितौ एकं यमलं, चत्वारो वर्गाः समुदिता द्वे यमले षड् वर्गाः समुदितास्त्रीणि यमलपदानि, अष्टौ वर्गाः समुदिताश्चत्वारि