________________ 1251 - अभिधानराजेन्द्रः - भाग 7 अस्मत्पट्टप्रभावी धनविजयमुनिर्वादिवृन्दप्रजेता, श्रीलोपाध्यायवर्यः प्रतिसमयमदाद् भूरिसाहाय्यमेषः। कोशाब्धेरस्य सृष्टौ सकलजनपदश्लाघनीयत्वलिप्सोः, सद्विद्वन्मानसाब्जे दिनकरसमतां यास्यमानस्य लोके // 9 // धन्वन्यभूत्तकर्मयुगक पृथ्वी-वर्षे सियाणानगरेऽस्य सृष्टिः। पूर्णोऽभवत् सूर्यपुरे ह्यविघ्नं, शून्याङ्गनिध्येक मिते सुवर्षे / / 10 / / तावन्महान् प्राकृतकोश एष, यावत् क्षितौ मेरुरवीन्दव: स्युः। सज्जैनजैनतरविज्ञवर्ग-मानन्दयेत् कोकमिवोष्णरश्मिः // 11 // इति श्रीसौधर्मबृहत्तपोगच्छीय-कलिकालसर्वज्ञकल्पप्रभु... श्रीमद्भट्टारक-जैनश्वेताम्बराऽऽचार्यश्री 1008 श्रीमद्विजयराजेन्द्रसूरीश्वरविरचिते “अभिधानराजेन्द्रेप्राकृतमहाकोशे” हकारादिशब्दसङ्कलनं समाप्तम् / तत्समाप्तौ च समाप्तश्चायं ग्रन्थः। >CO WW