________________ हेउ 1244 - अभिधानराजेन्द्रः - भाग 7 म०१ अ01 आ० चू०। आ० क० / फलसाधनयोग्ये कारणे, संघा०१ अधि०१ प्रस्ता० / कारणे, विशे०। निमित्ते, सूत्र 1, श्रु०७ अ०। नि० चू०। कल्प० / उपपत्ती, चं० प्र०१पाहु० / हेतुर्द्विधा-कारको, ज्ञापकश्च / तत्र कारको यथा-घटस्य कर्ता कुम्भकार:, ज्ञापको यथा-तमसि घटादीनामभिव्यञ्जक: प्रदीपः / ग०१अधि०। प्रश्न० / आ०म०। ति०। यत्रोपन्यासोपनये पर्यनुयोगस्य हेतुरुत्तरतयाऽभिधीयते स हेतुरिति। उपन्यासोपनयभेदे, स्था०। तथा 'हेउ' त्ति, यत्रोपन्यासोपनये पर्यनुयोगस्य हेतुरुत्तरतयाऽभिधीयते स हेतुरिति / यथा केनापि कश्चित्पर्यनुयुक्त:-अहो ! किंयवा: क्रीयन्ते त्वया? सत्वाह-येन मुधैव न लभयन्ते इति, तथा कस्मात् ब्रह्मचर्यादिकष्टमनुष्ठीयते ? यस्मादकृततपसां नरकादौ गुरुतरा वेदना भवतीति, इदमपि उपपत्तिमात्रमेव ज्ञातत्वेनोक्तमर्थज्ञापकत्वादिति / अथवाऽयमपि यथारूढं ज्ञातमेव तथा ह्यस्यैवं प्रयोग:-कस्मात् त्वया प्रव्रज्या क्रियत इति पृष्टः सन् केनापि साधुराह-यतस्तां विना मोक्षो न भवति, एतत्समर्थनायैव साधुस्तमाहभो यवग्राहिन! किमिति त्वया यवा: क्रीयन्ते ? सत्वाह-येन मुधान लभ्यन्ते, साधोश्चायमभिप्रायो यथामुधा लाभाभावात् तान् क्रीणासि त्वमेहमहं, तां विना तदभावात्तां करोमीति। इह च मुधा यवालाभस्य क्रयणे हेतोः सतो दृष्टान्तत-योपन्यस्तत्वाद्धेतूपन्यासोपनयज्ञाततेति / इह च किञ्चिद्विशेषेणैवंविधा ज्ञातभेदा: संभवन्त्यन्येऽपि किन्तु तेन विवक्षिताः, अन्तर्भावो वा कथश्चित् गुरुभिविवक्षित:, नच तं वयं सम्यगजा भइति। स्था० 4 ठा० 3 उ०।दश। साम्प्रतं हेतुरुच्यतेअहवा वि इमो हेऊ, विन्नेओ तत्थिमो चउविअप्पो। जावग थावग वंसग, लूसग हेऊ चउत्थो उ॥८६॥ अथवा-तिष्ठतु एष उपन्यासः, उदाहरणचरमभेदलकणो हेतुः / अपि:सम्भावने। किं सम्भावयति? 'इमो' अयम् अन्यद्वारे एवोपन्यस्तत्वात्तदुपन्यासनान्तरीयकत्येन गुणभूतत्वादहेतुरपि, किंतु 'हेऊ' विण्णेओ तथिमो' त्ति व्यवहितोपन्यासात् तत्रायं-वक्ष्यमाणो हेतुर्विज्ञेयः 'चतुर्विकल्प' इति चतुर्भेदः, विकल्पानुपदर्शयति-याषक:,स्थापक:, व्यंसकः,लूषक: हेतुश्चतुर्थस्तु अन्ये त्वेवं पठन्ति- 'हेउ त्ति दारमहणा, चउविहो सो उहोइनायव्यो' त्ति, अत्राप्युक्तमुदाहरणम्, हेतु-रित्येतद् द्वारमधुनातुशब्दस्य पुन:शब्दार्थत्वात् स पुनर्हेतुश्चतुर्विधो भवति ज्ञातव्य इत्येवं गमनिका क्रियते, पश्चार्द्ध तु पूर्ववदेवेति गाथाक्षरार्थः / दश०१ अ०। प्रमेयस्य प्रक्षमित्तौ कारणे प्रमाणे, स्था०। सच चतुर्विध: प्रत्यक्षादिभेदात्अथवा हेऊ चउविहे पण्णत्ते, तं जहा-पच्चक्खे, अणुमाणे ओवमे, आगमे / अथवा हेऊ चउविहे पन्नत्ते, तंजहा-अत्थित्तं अस्थि सो हेऊ, अत्थित्तं णत्थि सो हेऊ, णत्थित्तं अत्थि सो हेऊ, णत्थित्तं णत्थि सो हेऊ / (338) अथवेति हेतोः प्रकारान्तरताद्योतको विकल्पार्थः, हिनोति-गयमति- | प्रमेयमर्थं स वा हियते-अधिगम्यते अनेनेति हेतु:-प्रमेयस्य प्रमितौ कारणं; प्रमाणमित्यर्थः, स चतुर्विध: स्वरूपादिभेदात्। (तत्र प्रत्यक्षहेतुवक्तव्यता 'पचक्ख' शब्दे पञ्चमभागे 73 पृष्टे प्रष्टव्या।) अन्वितिलिङ्गदर्शनसम्बन्धानुस्मरणयो: पश्चान्मानं-ज्ञानमनुमानम्, एतलक्षणमिदम्- “साध्ययाविनाभुवो लिङ्गात्, साध्यनिश्चायकं स्मृतम्। अनुमान तदभ्रान्तं, प्रमाणत्वात् समक्षवद्॥१॥" इति। एतच साध्याविनाभूतहेतुजन्यत्वेनाष्युपचाराद्धेतुरि, तु, तथा उपमानमुपमा, सैवौपम्यम्, अनेन गवयेन सदृशोऽसौ गौरितिसादृश्यप्रतिपत्तिरूपम्। उक्तञ्च- "गां दृष्ट्वाऽयभरण्येऽन्यं, गवयं वीक्षते यदा। भूयोऽवयवसामान्य-भाज वर्तुलकण्ठकम्॥१॥तस्यामेव त्ववस्थायां, यद्विज्ञानं प्रवर्तते। पशुनैतेन तुल्योऽसौ, गोपिण्ड इति सोपमा॥२॥"इति, अथवा-'श्रुतातिदेशवाक्यस्य, समानार्थोपलम्भने। संज्ञासंज्ञिसम्बन्धज्ञानमुपमानमुच्यते' इति। आगम्यन्ते-परिच्छिद्यन्ते अर्था, अनेनेत्यागम:- आप्तवचनसम्पाद्यो विप्रकृष्टार्थप्रत्यय:, उक्तञ्च- "दृष्टेष्टाव्याहताद् वाक्यात्परमार्थाभिधायिनः / तत्त्वग्राहितयोत्पन्नं, मानं शाब्दंप्रकीर्तितम्॥१॥ आप्तोपज्ञमनुल्लमय-मदृष्टेष्टविरोधकम्। तत्त्वोपदेशकृत् सार्व शास्त्र कापथघट्टनम् / / 2 // " इति / इहान्यथानुप-पन्नत्वलक्षणहेतुजन्यत्वादनुमानमेव, कार्ये कारणोपचाराद्धेतु: सचचतुर्विधः, चतुर्भङ्गीरूपत्वान्, तत्र अस्ति विद्यते तदिति-लिङ्गभूतं धूमादिवस्तु इति कृत्वा अस्ति सअग्न्यादिक: साध्योऽर्थ इत्येव हेतुरिति अनुमानम्। तथा अस्ति तदग्न्यादिकं वस्त्वतो नास्त्यसौ तद्विरुद्धः शीतादिरर्थ इत्येवमपि हेतुरनुमानमिति, तथा नास्ति तद्न्न्यादिकमत: शीतकालेऽस्ति स शीतादिरर्थः इत्येवमपि हेतुरनुमानमिति। तथा नास्ति तद्वृक्षत्वादिकमिति नास्ति शिंशपत्वादिकोऽर्थ इत्यपि हेतुरनुमानमिति / इह च शब्दे कृतकत्वस्यास्तित्वादस्यनित्यत्वं घटवत्, तथा धूमस्यास्तित्वादिहास्त्यनिर्महानस इवेत्यादिकं स्वभावानुमान कार्यानुमानञ्च प्रथमभङ्गकेन सूचितम् 1 / तथा अग्नरस्तित्वाद्भूमास्तित्वाद्वा नास्ति शीतस्पर्श इत्यादिविरुद्धोपलम्भानुमानं विरुद्धकार्योपलम्भानुमानश्च तथा अग्नेधूमस्य वाऽस्तित्वान्नास्ति शीतस्पर्शजनितदन्तवीणारोमहर्षादि: पुरुषविकारो महानसवदित्यादिकारणविरुद्धोपलम्भानुमानम्, कारणविरुद्धकार्योपलम्भानुमानंच द्वितीयभङ्गकेनाभिहितम् शतथाछत्रादेरने, नास्तित्वादस्ति कचित्कालादिविशेषे आतपः शीतस्पर्शो वा पूर्वोपलब्धप्रदेश इवेत्यादिकं विरुद्धकारणानुपलम्भानुमानं विरुद्धानुपलम्भानुमानञ्चतृतीयभङ्गकेनोपात्तम् 3 / तथा दर्शनसामग्यांसत्यां घटोपलम्भस्य नास्तित्वान्नास्तीह घटो विवक्षितप्रदेशवदित्यादि-स्वभावानुपलब्ध्यनुमानं, तथा धूमस्य नास्तित्वान्नास्त्यविकलो धूमकारणकलाप: प्रदेशान्तरवदित्यादिकार्यानुपलब्ध्यनुमानम्, तथावृक्षनास्तित्वातशिंशपा नास्तीत्यादिव्यापकानुपलम्भानुमानम्, तथाऽरने स्तित्वाचूमोनास्तीत्यादि कारणानुपलम्भानुमानञ्च चतुर्थभङ्गवेनावरुद्धमिति। नच वाच्यं न जैनप्रक्रियेयम् सर्वत्र जैनाभिमतान्यथानुपपन्नत्वरूपस्य हेतुलक्षणस्य वि