________________ हेउ 1242 - अभिधानराजेन्द्रः - भाग 7 हेउ देश एवं पयाणनिवहो, हेऊदाहरणकारणत्थाणं / अहवा पयनिवहो चिय, कारणमाहरणहेऊणं / / 1078 // यत्र साधनंतत्र साध्यं भवत्येवेत्येवंलक्षण: साध्यस्य साधनेनसहान्वयोऽनुगमः, साध्याभावे साधनाभावरूपोव्यतिरेक; अनुगमश्च व्यतिरेकश्व तौ लक्षणस्वरूपं यस्य स एवंभूतो हेतु:, यथा अनित्यत्वादि-विशिष्टे शब्दादौ साध्ये कृतकत्वादिः, कथंभूतोऽयम् ? इत्याह-साध्यस्य नित्यत्वादिविशिष्टस्य शब्दादिवस्तुन: पर्याय:, अन्यस्य वैयधिकरण्या दिदोषदुष्टत्वेन साध्यसाधकत्वायोगादिति / विशे०। हेतुरूपं निरूपयन्तिनिश्चितान्यथानुपपत्त्येकलक्षणो हेतुः // 11 // अन्यथा साध्यं विनाऽनुपपत्तिरेव न मनागप्युपपत्ति:, प्रयत्नानन्तरीयकत्वे साध्ये विपक्षकदेशवृत्तेरनित्यत्वस्यापि गमकत्वापत्तेः / ततो निश्चिता निर्णीताऽन्यथानुपपत्तिरेवैका लक्षणं यस्य स तादृशो हेतु यः, अनन्थाऽनुपपत्तिश्चात्र हेतुप्रक्रमात्साध्यधर्मेणैव सार्द्धः ग्राह्या। तेन तदिरान्यिथानुपपन्नैः- प्रत्यक्षादिज्ञानै तिव्याप्तिः। एतद्व्यवच्छेद्यं दर्शयन्तिन तु त्रिलक्षणकादिः // 12 // त्रीणि-पक्षधर्मत्व-सपक्षसत्त्व-विपक्षसत्त्वानि लक्षणानि यस्यासौ / गतसम्मतस्य हेतोः. आदिशब्दाधौगसंगीतपञ्चलक्षणकहैत्ववरोधः। तेनाबाधितविषयत्वासत्प्रतिपक्षत्वयोरपि तल्लक्षणत्वकथनात्, तथा हिवह्निमत्वे साध्ये धूमवत्त्वं पक्षस्य पर्वतस्य धर्म:,नशब्दे चाक्षुषत्वदतद्धर्म: सपक्षे पाकस्थाने सन्, न तुप्राभाकरेण शब्दनित्यत्वे साध्ये श्रावणत्ववत्ततोव्यावृत्तं विपक्षेपयस्वति प्रदेशे सन्न तु तत्रैव साध्ये प्रमेयत्ववत् तत्र वर्तमानम् अबाधितविषयं, प्रत्यक्षागमाभ्यामवाध्यमानसाध्यत्वात्, नतु अनुष्णस्तेजोऽवयवी द्रव्यत्वाज्जलवद्विप्रेण सुरा पेया द्रवत्वात्तद्वदेवेतिवत् ताभ्यां बाधितविषयम् / असत्प्रतिपक्ष, साध्यविपरीतार्थोपस्थापकानुमानरहितं न पुनर्नित्य: शब्दोऽनित्यधर्मानुपलब्धेरित्यनुमानसमन्वितम्, अनित्यः, शब्दो नित्यधर्मानुपलब्धेरित्यनुमानमिव सत्प्रतिपक्षमिति लक्षणत्रयपञ्चकसद्भावात् गमकम् / तत एतादृक्षलक्षणलक्षितमेवासूणं लिङ्गम्, इति सौगतयोग-योरभिप्रायः। न चायं निरपाय:। एतदुपपदियन्तितस्य हेत्वाभासस्यापि संभवात्॥१३॥ अनेनातिव्याप्तिप्रागुक्तलक्षणस्याचख्यु:-स श्यामस्तत्पुत्रत्वात्, प्रेक्ष्यमाणेतरतत्पुत्रवदित्यत्र समग्रतल्लक्षणवीक्षणेऽपि हेतुत्वाभावात्। अत्र विपक्षेऽसत्त्वं निश्चितं नास्ति न हि श्यामत्वासत्वे तत्पुत्रत्वेनावश्यं निवर्तनीयमित्यत्र प्रमाणमस्तीति सौगतः / स एवं निश्चितान्यथानुपपत्तिमेवशब्दान्तरोपदेशेन शठः शरणीकरोतीति सैव भगवती लक्षणत्वेनास्तु, यौगस्तुगर्जति-अनौपाधिक: संबन्धो व्याप्ति: / नचायं तत्पुत्रत्वेऽस्ति, शाकाद्याहारपरिणामाधुपाधिनिबन्धत्वात्। साधनाव्यापक: साध्येनसमव्याप्तिक: किलोपाधिराश्रयते,तथा चात्र शाकाद्या हारपरिणाम इत्युपाधिसद्भावान्न तत्पुत्रे विपक्षासत्त्वसंभव इति। सोऽपि न निश्चिताऽन्यथानुपपत्तरेतिरिक्तमुक्तवानिति सैवैकाऽस्तु। नानौपाधिकसम्बन्धे सति किंचिदवशिष्यते यदपोहाय शेषलक्षणप्रणयनमसूर्ण स्यात्, पक्षधर्मत्वाभावे रसवतीधूमोऽपि पर्वते सप्तार्थिषं गमयेत्, इत्यभिदधानो बौद्धो न बुद्धिमान्, यत: पक्षधर्मत्वभावेऽपि किं नैष तत्र तं गमयेत् ? ननु कौतुकमेतत्कथं हि नाम पक्षधर्मातोपगमे रसवतीधर्म: सन् धूमो महीध्रकन्दराधिकरणं धनंजयं ज्ञापयत्विति चेत्: एवं तर्हि जलचन्द्रोऽपि नभश्चन्द्रमा जिज्ञपत, जलचन्द्रस्य जलधर्मत्वात्। अथ जलनश्चन्द्रान्तरालवर्त्तिनस्तावतो देशस्यैकस्य धर्मित्वेन जलचन्द्रस्य तद्धर्मत्वनिश्चयात् कुतो न तत् ज्ञापकत्वमिति चेतः एवं तर्हि रसवतीपर्वतान्तरालवर्तिवसुंधराप्रदेशस्यधर्मकत्वमस्तु, तथा च महानसधूमस्यापि पर्वतधर्मातानिर्णयात् जलचन्द्रवत् कथं नतत्रतद्भकत्वंस्यात् ? पक्षधर्माता खलूभयत्रापि निमित्तं, ततो यथाऽसौ स्वसमीपदेशे धूमस्य धूमध्वजं गमयतोऽभ्लानतनुरास्ते तथा व्यवहितदेशेऽपि पर्वतादौ तदवस्थैव, अन्यथा जलचन्द्रेऽपि नासौ स्याद्देशव्यवधानात् / अथ नेयमेवात्र गमकत्वानं किंतु कार्यकारणभावोऽपि। कार्य च किमपि कीदृशं, तदिह कृपीटजन्मा स्वसमीपप्रदेशमेव धूमकार्यमर्जयितुमधीशान:, नभश्चन्द्रस्तुव्यवहितदेशमपीतिनमहानसधूमो महीधरकन्दराकोणचारिमाशुशुक्षणिं गमयतीति चेत्, नन्वेवं धूमस्तद्देशेनैव पावकेनान्यथानुपपन्न:, नीरचन्द्रमा:, पुनरतद्दशेनापि नभश्चन्द्रेण, इम्त्यन्यथानुपपत्तिनिर्णयमात्रसद्भावादेव साध्यसिद्धेः संभवात्किं नाम जलाकाशमृगाड्कमण्डलान्तरालादेर्धर्मित्वकल्पनाकदर्थनमात्रनिमित्तेन पक्षधर्मतावर्णनेन, योगस्याष्येवमेव च पक्षधर्मत्वानुपयोगो दर्शनीयः / सपक्षसत्त्वमप्यनौपयिकं सत्त्वादेरगमकत्वापत्तेः / यस्तुपक्षावहिष्कृत्य किमपि कुटादिकं दृष्टान्तयति तस्यापूर्व: पाण्डित्यप्रकार:, कुटस्यापि पटादिवद्विवादास्पदत्वेन पक्षावहिष्कारणानुपपत्तेः / तथा च कथमयं निदर्शनतयोपदयंत, प्रमाणान्तरात्तत्रैव क्षणिकत्वं प्राक् प्रसाध्य निदर्शनतयोपादानमिति चेत् ? ननुतत्रापिक: सपक्षीकरिष्यते यदिक्षणिकत्वप्रसाधनपूर्व पदार्थान्तरमेव तदा दुर्वारमनवस्थाकदर्थनम्, अन्यथा तु न स पक्ष: कश्चित्, यतएवच प्रमाणात् क्षणिकत्वनिष्टड्कन कुटे प्रकट्यते, ततएव पटादिपदार्थान्तरेष्वपि प्रकट्यतां किमपरप्रमाणोपन्यासालीकप्रागल्मीप्रकाशनेन, यस्तुसाध्यधर्मवान्स सपक्ष इति सपक्षलक्षयित्वां पक्षमेव सपक्षमाचक्षीत, साध्यधर्मवत्तया हि सपक्षत्वं साध्यत्वेनेष्टतया तुपक्षत्वं, न च विरोध:, वास्तव्यस्य सपक्षत्वस्येच्छाव्यवस्थितेन पक्षत्वेन निराकर्तुमशक्यत्वादिति / स महात्मा निश्चितं निर्विण्ण: सत्यादेः क्षणिकत्वाद्यनुमाने सपक्षसत्वावसायवेलायामेव साध्यधर्मस्यावबोधेनानुमानानर्थक्यात, पक्षो हि साध्यधर्मवत्तया सपक्षश्चेन्निश्चिक्ये, हेतोश्च तत्र सत्त्वं, तदा किंनाम पश्चाद्धेतुनासाधनीयम् ? किं चैवमनेनपक्षलक्षयता "साध्यधर्म-सामान्येन समानोऽर्थः सपक्ष" इति दिग्नागस्य, "अनुमेयेऽथ तत्तुल्ये, सद्भावोनास्तिताऽसति" इति। धर्मकीर्तेश्च वचो निश्चितंवञ्चितमेव स्यात्यौगश्व केवलान्वयव्यतिरेकमनुमानमनुमन्यमान: कथं पश्चलक्षण