________________ सेहभूमि 1153- अभिधानराजेन्द्रः - भाग 7 सेहभूमि सूत्रे स्थविरा उक्तास्ते च स्वयं स्थित्वा अन्यान् स्थापयन्ति ते चाप्येवं स्थाप्यमाना इमे वक्ष्ययाणा भवन्तीति तत्प्रतिपादनार्थमिदं सूत्रम् / अथवा-प्रतिपक्षत इदं सूत्रमापतितम्। तद्यथा-पूर्वसूत्रे स्थविराः, तेषां च प्रतिपक्षाः शैक्षाः, यदि वास्थविराणां दीर्घः पर्यायः, शैक्षकाणां शैक्षकत्वेन ह्रस्व इति स्थविरसूत्रानन्तरं शैक्षकसूत्रम्। अस्याक्षरगमनिका प्रास्वत्। सम्प्रति शैक्षकाणां यद्वक्तव्यं तत्संसूच नाय द्वारगाथामाहसेहस्स तिन्नि भूमिउ, दुविहा परिणामगा दुवे जड्डा। पत्तजहंते संभु-जणा य भूमित्तियविवेगो॥५१॥ शैक्षकस्य तिस्रो भूमयो वक्तव्याः, सूत्रोपात्तत्वात्तथा शैक्षका द्विविधाःपरिणामका, अपरिणामकाः वक्तव्याः / द्वौ च जड्डौ / तथा पात्राणि पात्रभूतान् त्यजति दोषा वक्तव्याः, संभोजना च तथा भूमित्रिकस्य जलमूकैलमूककरणज) लक्षणस्य विवेकः परित्यागोवक्तव्यः, एष द्वारगाथासंक्षेपार्थः / व्यासार्थवस्तुप्रतिद्वारमभिधातव्यः। तत्र प्रथमतो भूमिद्वारमाहसेहस्स तिण्णि भूमि, जहण्णा तह मज्झिमा य उक्कोसा। राइंदिसत्त चउमा-सिया य छम्मासिया चेव / / 52 / / शैक्षकस्य तिस्रो भूमयस्तद्यथा-जघन्या मध्यमा उत्कृष्टा च / तत्र जघन्या सप्तरात्रिन्दिवा, मध्यमा चातुर्मासिकी, उत्कृष्टा पाण्मासिकी। पुष्वोवट्ठपुराणे, करणजयट्ठा जहणिया भूमी। उक्कोसा दुम्मेहं, पडुच अस्सद्दहाणं च / / 53 // पूर्वमुपस्थः-उपस्थितः पूर्वोपस्थः स चासौ पुराणश्च पूर्वोपस्थपुराणस्तस्मिन् करणजयाय जघन्या भूमिर्भवति / इयमत्र भावना यः पूर्व प्रवज्योत्प्रव्रजितः पश्चात्पुनरपि प्रव्रज्यां प्रतिपन्नवान् स सप्तमे दिवसे उपस्थापयितव्यः, तस्य हि यावद्भिर्दिवसः, पूर्वविस्मृतसामाचारीकरणमत्यन्तंदुःप्रभवति एषा जघन्या भूमिः, दुर्मेधसमश्रद्दधानंच प्रतीत्य | उत्कृष्टा पाण्मासिकी भूमिः। एमेव य मज्झिमिया, अणहिजंते असद्दहते य। भावियमेहाविस्स वि, करणजयट्ठाय मज्झिमिया / / 54 // एवमुक्ते उत्कृष्ट अनधीयाने अश्रद्दधाने च माध्यमिकी भूमिः प्रतिपत्तव्या / अथवा-भावितस्यापि श्रद्दधानस्यापि मेधाविनश्चापिच करणजयार्थ माध्यमिकी भूमिः / गतं भूमिद्वारम्। अधुना द्विविधपरिणामकद्वारमाहआणादिलुतेण य, दुविहो परिणामगो समासेणं / आणापरिणामो खलु, तत्थ इमो होइ नायव्वो // 55 // स द्विविधः परिणामको भवति, तद्यथा-आज्ञया, दृष्टान्तेन च / तत्र समासेन-संक्षेपेण--आज्ञापरिणामः खल्वयंवक्ष्यमाणो भवति। तमेवाहतमेव सर्च नीसंकं,जं जिणेहिं पवेदियं / आणाएँ एस अक्खाओ, जिणेहिं परिणामगो।। 56 // तदेव सत्यं यज्जिनैः प्रवेदितमित्येवं यो निःशङ्क श्रद्दधाति न च कारणं / जनयते एष आज्ञया परिणामको जिनराख्यातः। दृष्टान्तपरिणामकमाहपरोक्खं हेउगं अत्थं, पचक्खेण व साहियं / जिणेहिं एस अक्खातो, दिहतपरिणामगो।। 57 / / परोक्षं हेतुकं हेतुना लिङ्गेन गम्यं हेतुकमर्थं प्रत्यक्षेण प्रत्यक्षप्रसिद्धेन दृष्टान्तेन साधयन् आत्मबुद्धावारोपयन् यो वर्तते दृष्टान्तपरिणामको जिनैराख्यातः। दृष्टान्तेन विवक्षितमर्थ परिणमयत्यात्मबुद्धा-वारोपयतीति दृष्टान्तपरिणामक इति व्युत्पत्तेः / तत्राज्ञापरिणामकः, आज्ञयैव कायान् श्रद्दधाति, दृष्टान्तपरिणामकस्तु दृष्टान्तेन श्रद्दधापयितव्य इति। तस्य कायश्रद्धानोत्पादनार्थमिदमाहतस्सिदियाणि पुय्वं,सीसंते जइ उताणि सद्दहइ। तो से नाणावरणं, सीसइ ताहे दसविहं तु / / 58 // तस्य दृष्टान्तपरिणामस्य पूर्वमिन्द्रियाणि श्रोत्रादीनि शिष्यन्ति तत्र यदि तानीन्द्रियाणि श्रद्दधाति ततः तमेतस्य ज्ञानावरणं दशविधं शिक्ष्यते। कथमित्याहइन्दियावरणं चेव, नाणावरणे इय। नो नाणावरणं चेव, माहियं तु दुपंचहा / / 56 // इन्द्रियावरणं, ज्ञानावरणं च। तत्रेन्द्रियावरणं नाम इन्द्रियविषयशब्दादिसामान्योपयोगावरणं, ज्ञानावरण-मिन्द्रियविषयेष्वेव शब्दादिषु विशेषोपयोगावरणम्। इन्द्रियावरणं ज्ञानावरणं च श्रोत्रेन्द्रियादिभेदतः प्रत्येक पञ्चप्रकारमेव ज्ञानावरणम् / द्विपञ्चधा-एवं दशप्रकारमाख्यातम्। तानेव दश भेदान् विवेक्तुमाह-- सोयावरणं चेव, णाणावरण होइ तस्सेव। एवं दुयभेएणं, णायव्वं जाव फासो त्ति / / 60 // श्रोत्रावरणं तथा तस्यैव श्रोत्रस्य ज्ञानावरणमेवं द्विकभेदेन तावत् ज्ञातव्यं यावत्स्पर्शः, तद्यथा-चक्षुरिन्द्रियावरणम्, चक्षुरिन्द्रियज्ञानावरणम् / घ्राणेन्द्रियावरणम्, घ्राणेन्द्रियज्ञानावरण। रसनेन्द्रियावरणम्, रसनेन्द्रियज्ञानावणम्। स्पर्शेन्द्रियावरणम्, स्पर्शेन्द्रियज्ञानावरणमिति / साम्प्रतमिन्द्रियावरणस्य विज्ञानावरणस्य च विषयविभागार्थमिदमाहबहिरस्स उ विन्नाणं, आवरियं न उण सोयमावरियं / अपडुप्पण्णो वालो, अतिवुड्डो तह असन्नी वा।। 61 // विनाणावरियं तेसिं, कम्हा जम्हा उते सुणंता वि। म वि जाणते किमयं, सहो संखस्स पडहस्स / / 62 / / वधिरस्य विज्ञानं श्रोतेन्द्रियविज्ञानमावृतम्, सामान्यतः शब्दमात्रश्रवणेऽपितद्गतविशेषापरिज्ञानात्, नतु श्रोत्रमावृतं सामान्यतः शब्दमात्रश्रवणात्, तथा योऽपटुप्रज्ञो-बालो यश्चातिवृद्धो यो वा असंज्ञी अमनस्कः पञ्चेन्द्रियः, एतेषां विज्ञानमावृतम् / कस्मात् ? यस्मात्ते शृण्वन्तोऽपि न विजानते किमयं शब्दः शलस्य, उतपटहस्येति। किं ते जीवमजीवं,जीवा एवेति तेण उदियम्मि। भण्णइ एवं विजाणसु, जीवा चउरिंदिया विंति।। 63 / /