________________ सूरियाम 1115 - अभिधानराजेन्द्रः - भाग 7 सूरियाम ममूलटीकायामपि 'उप्पित्थं श्वासयुक्तमिति, तथा उत्प्राबल्येन अतितालमस्थानतालं वा उत्तालं, श्लक्ष्णस्वरेण काकखरं, सानुनासिकम् अनुनासिकाविनिर्गतस्वरानुगतमिति भावः, तथा 'अट्ठगुणोववेय' मिति अष्टाभिर्गुणैरुपेतमष्टगुणोपेतं, ते चाष्टावमी गुणाः-पूर्ण रक्तमलङ्क तं व्यक्तमविघुष्टं मधुरं समं सललितं च, तथा चोक्तम्-"पुण्णं रत्तं च अलं-कियं च वत्तं तहेव अविघुटुं / महुरं समं सललियं, अट्ठ गुणा होति गेयस्स॥१॥" तत्र सत् स्वरकलाभिः परिपूर्ण गीयते तत्पूर्ण, गेयरागानुरक्तेन यत् गीयते तत्क्त म्, अन्योऽन्यस्वरविशेषकरणेन यदलङ्कृतमिव गीयते तदल कृतम्, अक्षरस्वरस्फुटकरणतो व्यक्तं, विस्वरं क्रोशतीव विघुष्ट न तथा अवघुिष्ट, मधुरस्वरेणगीयमानं मधुरं कोकिलारुतवत्, तालवंशस्वरादिसमनुगतं समं, तथा यत् स्वरघोलनाप्रकारेण ललतीव तत् सह ललितेन ललनेनवर्त्तत इति सललितं, यदिवा-यत् श्रोत्रेन्द्रियस्य शब्दस्य स्पर्शनमतीव सूक्ष्ममुत्पादयति सुकुमारमिव च | प्रतिभासते तत्सललितम्। इदानीमेतेषामेवाष्टानां मध्ये कियतो गुणान् अन्यच प्रतिपिपादयिषुरिदमाह-रत्तं तिहाणकरणं सुद्धं तत्'कुहरगुंजंतवंसतंतीतलताललयगहसुसंपउत्तं महुरं समं सललियमणोहरं मउयरिभियपयसंचारं सुरई सुनतिं वरचारुरूवं दिव्वं नट्ट सज्जं गेयं पगीयाण' मिति यथा प्राक् नाट्यविधौ व्याख्यातं तथा भावनीयं 'जारिसए सद्दे हवई' प्रगीतानांगातुमारब्धवतां याद्दशः शब्दोऽतिमनोहरो भवतिस्यात्-कथंचिद्भवेदेतद्रूपस्तेषां तूणानां मणीनां च शब्दः? एवमुक्ते भगवानाह-गौतम! स्यादेवंभूतः शब्दः। (सू०३१) 'तेसिणवणसंडाण' मित्यादि, तेषां 'ण' मिति वाक्यालङ्कारे वनखण्डानां मध्ये तत्र तत्र देशे 'तत्र तत्रे' तितस्यैव देशस्यतत्रतत्र एकदेशे 'बहूई' इति वयः, 'खुड्डाखुडियाओ' इति क्षुल्लिक्षुल्लिकाः; लघवोलघव इत्यर्थः, वाप्यश्चतुरस्राः पुष्करिण्यो वृत्ताकाराः, अथवा पुष्कराणि विद्यन्ते यासु ताः पुष्करिण्यो दीर्घिकाऋजवो नद्यः वक्रा नद्यो गुजालिकाः, बहूनि केवलकेवलानि पुष्पावकीर्णकानि सरांसि एकपङ्क्त्या व्यवस्थितानि सरःपङ्क्तिः सललितास्ता बढ्यः सरः पङ्क्तयः तथा येषु सरःसु एड्क्त्या व्यवस्थितेषु कूपोदकं प्रणालिकया संचरति सा सरः पङ्क्तिः ता बढ्यः सरःसरः-पड्क्तयः, तथा बिलानीव बिलानि-कूपास्तेषां पक्तयो विलपङ्क्तयः, एताश्च सर्वा अपि कथंभूता इत्याह-अच्छाः स्फटिकवदाहिर्निर्मलप्रदेशाः श्लक्ष्णाः-श्लक्ष्णपुद्गलनिष्पादितबहिःप्रदेशाश्लक्ष्णदलनिष्पन्नपटवत, तथा रजतमयं रूप्यमयं कूलं यासा ता रजतमयकूलाः, तथा समं न गर्ताभावात् विषमंतीरं-तीरवर्त्तिजलापूरितं स्थानं यासां ताः समतीराः, तथा वज़मयाः पाषाणा यासां ता वज्रमय-पाषाणाः, तथा तपनीयं-हेमविशेषः तपनीयमयं तलं यासां तास्तप-नीयतलाः, तथा "सुवण्णसुडभरययवालुयाओ" इति सुवर्ण पीतकान्ति हेम शुभ्रंरूप्यविशेषः रजतं प्रतीतं तन्मया वालुका यासुताः सुवर्णशुभ्ररजतवालुकाः, 'वेरुलियमणिफलिहपडलपचोयडाओ' इति वैडूर्यणिमयानि स्फटिकपटलमयानि च प्रत्यवतटानितटसमीपवर्तिनः अत्युन्नतप्रदेशाः यासां ता वैडूर्यमणिस्फटिकपटलप्रत्यवतटाः, 'सुओयारसुउत्ताराउ' इति सुखेनावतारो-जलमध्ये प्रवेशनं यासु ताः सुखावताराः तथा सुखेन उत्तारो-जलमध्यादहिर्निर्गमनं यासु ताः सुखोत्तारास्ततः पूर्वपदेन विशेषणमासः, 'नानामणितित्थसुवद्धाउ' इति नानामणिभिः नानाप्रकारैर्मणिभिस्तीर्थानि सुबद्धानि यासां ता नानामणितीर्थसुबद्धाः, अत्र बहुव्रीहावपि क्तान्तस्य परनिपातः सुखादिदर्शनाद् प्राकृतशैलीवशादा 'चउक्कोणाउ' इति चत्वारः कोणा यासां ताश्चतुः कोणाः, एतच विशेषणं वापीः कूपांश्च प्रति द्रष्टव्यं, तेषामेव चतुष्कोणत्वसंभवात् न शेषाणां, तथा आनुपूर्येण-क्रमेण नीचैस्तराभावरूपेण सुष्टु -अतिशयेन यो जातवप्रः-केदारो जलस्थानं तत्र गम्भीरम्-अलब्धस्ताघं शीतलं जलं यासु ता आनुपूर्यसुजातवप्रगम्भीरशीतलजलाः, 'संछन्नपत्तभिसमुणालाउ' इति संछन्नानि.जलेनान्तरितानि पत्रबिसमृणालानि यासु ताः संछन्नपत्रबिसमृणालाः, इह बिसमृणालसाहचर्यात् पत्राणि पद्मिनीपत्राणि द्रष्टव्यानि, विसानिकन्दाः मृणालानिपदानालाः, तथा बहुभिरुत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकशत-पत्रसहस्रपत्रैः केसरैः-केसरप्रधानैः फुल्लैः-- विकसितैरुपचिता बहूत्पलकुमुदनलिन-सुभगसौगन्धिक-पुण्डरीकशतपत्रसहस्र-पत्रकेसरफुल्लोपचिताः, तथा षटपदैः भ्रमरैः परिभुज्यमानकमलाः, तथा अच्छेनस्वरूपतः स्फटिकवत् शुद्धेन विमलेनआगन्तुकमलरहितेन सलिलेन पूर्णा अच्छविमल-सलिलपूर्णाः, तथा 'पडिहत्था' अतिरेकिता; अतिप्रभूता इत्यर्थः "पडिहत्थमुद्धमायं अतिरिययं जाणमाउण्ण' मिति वचनात्, उदाहरणं चात्र-'घणपडिहत्थं गयणं, सराइ नवसलिलउ मायाई। अयरेइयं मह उण, चिंताए मणतुहं विरहे।।१।। इति, भ्रमन्तो मत्स्यकच्छपा यत्रताः परिहत्थभ्रमन्मत्स्यकच्छपाः, तथा अनेकैः शकुनिमिथुनकैः प्रविचरता-इतस्ततो गमनेन सर्वतो व्याप्ताः अनेकशकुनिमिथुनक-प्रविचरितास्ततः पूर्वपदेन विशेषणसमासः, एता वाप्यादयः सरस्सरः पङ्क्तिपर्यन्ताः 'प्रत्येक प्रत्येक' प्रति प्रत्येकमवाभिमुख्य प्रतिशब्दस्ततो वीप्साविवक्षायां पश्चात्प्रत्येकशब्दस्य द्विवचनमिति, पद्मवरवेदिकया परिक्षिप्ताः, प्रत्येक प्रत्येकं वनखण्डपरिक्षिप्ताः, अप्पेगइयाउ' इत्यादि अपिढिार्थे वाढमेककाः-काश्चनवाप्यादय आसवमिव चन्द्रहासादिपरमासवमिव उदकं यासां ता आसवादकाः, अप्येकका वारुणस्य-वारुणसमुद्रस्येव उदकं यासांता वारुणोदकाः, अप्येककाः क्षीरमिव उदकंयासांताः क्षीरोदकाः, अप्येकका घृतमिव उदकं यासांता धृतोदकाः, अप्येककाः क्षोद इवइक्षुरस इव उदकं यासां ताः क्षोदोदकाः, अप्येककाः स्वाभाविकेन उदकरसेन प्रज्ञप्ताः, 'पासाइया' इत्यादि विशेषणचतुष्टयं प्राग्वत्। 'तेसि ण' मित्यादि, तासां क्षुल्लिकानां वापीनां यावद्विलपङ्क्तीनामिति यावत् शब्दात् पुष्करिण्यादिपरिग्रहः, प्रत्येकं चतुर्दिशि चत्वारि एकैकस्यां दिशि एकैकस्य भावात् त्रिसोपानप्रतिरूपकाणिप्रतिविशिष्टरूपाणि त्रिसोपानानि, त्रयाणांसोपानानां समाहारस्त्रिसोपानं, तानिप्रज्ञ--