________________ सूरियाम 1107- अभिधानराजेन्द्रः - भाग 7 सूरियाम नागदन्तकेषु बहवःकुष्णसूत्रबद्धा ‘वग्घारिय' इति अव लम्बिता माल्यदामकलापाः-पुष्पमालासमूहा बहवो नीलसूत्रावलम्बितमाल्यदामकलापा एवं लोहितहारिद्रशुक्लसूत्रबद्धा अपि वाच्याः। तेणं दामा' इत्यादि, तानिदामानि, 'तवणिजलंबूसगा' इति तपनीयः-तपनीयमयो लम्बूसगोदाम्नामग्रिमभागे मण्डनविशेषो येषां तानि यथा, तपनीयलम्बूसकानि, 'सुवन्नपयरगमंडिया' इति पार्श्वतः सामस्त्येन सुवर्णप्रतरेणसुवर्णपत्रकेण मण्डितानि सुवर्णप्रतरमण्डितानि 'नाणाविहमणिरयणविविहहारउवसोहियसमुदया' इति नानारूपाणं मणीनां रत्नानां च विविधा विचित्रवर्णा हारा अष्टादशसरिका अर्द्धहारा नवसरिकास्तैरुपशोभितः समुदायो येषां तानि तथा 'जाव सिरीए अईव 2 उवसोभेमाणा चिट्ठति' इति अत्र यावत्करणादेवं परिपूर्णः पाठो द्रष्टव्यः' इसिमण्णोण्णमसंपत्ता पुव्वावरदाहिणुत्तरागएहिं वाएहिं मंदाय मंदायं एइज्जमाणा पइज्ज० पलंब० झंझमाणा ओरालेणं मणुण्णेणं मणहरेणं कण्णमणनिव्वुइकरेणं सद्देणं ते पएसे सव्वओसमंता आपरेमाणां२ सिरीए अईव 3 उवसोभेमाणा चिट्ठति' एतच्च प्रागेव यानविमानवर्णने व्याख्यातमिति न भूयो व्याख्यायते। 'तेसि णं णागदंताण' मित्यादि, तेषां नागदन्तानामुपरि प्रत्येकमन्याः षोडश षोडश नागदन्तपरिपाठ्यः प्रज्ञप्ताः ते च नागदन्ता यावत्करणात्-'मुत्ताजालंतरुसियहेमजालगवक्खजालखिंखिणिघंटाजालपरिक्खित्ता इत्यादि प्रागुक्तं सर्वं द्रष्टव्यं यावत् गजदन्तासमानाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! 'तेसु णं णागदंतएसु' इत्यादि, तेषु नागदन्तकेषु बहूनि रजतमयानि सिक्ककानि प्रज्ञप्तानि, तेषु सिक्ककेपु बहवो बह्यो वैडूर्यमय्यो वैडूर्यरत्नात्मिका धूपघटिकाः 'कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघभघते' त्यादि प्राग्वत् नवरं 'घाणमणनिव्वुइकरेण' मिति घ्राणेन्द्रियमनोनिवृतिकरणे / 'तेसि ण' मित्यादि, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनषेधिकीभावेन द्विधातो द्विप्रकारायां नषेधिक्यां षोडश षोडश शालभञ्जिकापरिपाट्यः प्रज्ञप्ताः, ताश्च शालभञ्जिका लीलया ललिताङ्गनिवेशरूपया स्थिता लीलास्थिताः, 'सुपइडियाओ' इति सुमनोज्ञतया प्रतिष्ठिताः सुप्रतिष्ठिताः 'सुअलंकियाओ' सुष्टु-अतिशयेन रमणीयतया अलकृताः न्वलंकृताः 'णाणाविहरागवसणाओ' इति नानाविधोनानाप्रकारो रागो येषां तानि नानाविधरागाणि तानि वसनानि-वस्वाणि यासां तास्तथा 'नानामल्लपिनद्धाओ' इति नानारूपाणि माल्यानिपुष्पाणि पिनद्धानि आविद्धानि यासांता नानामाल्यपिनद्धाः क्तान्तस्यपरनिपातः सुखादिदर्शनात् 'मुट्ठिगिज्झसुमज्झाओ' इति मुष्टिग्राह्य सुष्टुशोभनं मध्यंमध्यभागो यासां तास्तथा, 'आमेलगजमलजुगलवट्टिय-अब्भुन्नपीणरइसठियपीवरपओहराओ' पीनंपीवरं रचितं संस्थितं-संस्थान यकाभ्यां तौ पीनरचितसंस्थानौ आमेलकः-आपीडः; शेखरक इत्यर्थः, तस्य यमलयुगलं समश्रेणिकं ययुगलं तद्वत् वर्तितौ बद्धस्वभावावुपचितकठिनभावाविति भावः अभ्युन्नतौ पीनरचितसंस्था नौ च पयोधरौ यासां तास्तथा, 'रत्तावंगाओ' इति रक्तोऽपाङ्गोनयनोपान्तरूपो यासां तास्तथा, 'असियकेसिओ' इति असिताः-कृष्णाः केशा यासां ता असितकेश्यः, एतदेव सविशेषमाचष्टे-'मिउविसयपसत्थलक्खणसंवेल्लियग्गसिरयाओ' मृदवः-कोमला विशदा निर्मलाः प्रशस्तानि शोभनानि अस्फुटिताग्रत्वप्रभृतीनि लक्षणानि येषां ते प्रशस्तलक्षणाः 'संवेल्लित संवृतमग्रं येषां ते संवेल्लिताग्राः शिरोजाः केशा यासांता मृदुविशदप्रशस्तलक्षण-संवेल्लिलाग्रशिरोजाः, 'ईसिं असोगवरपायवसमुट्ठियाओ' ईषत्-मनाक् अशोकवरपादपे समुपस्थिताः-आश्रिता ईषदशोकवरपादप-समुपस्थितास्तथा 'वाहमत्थग्गहियग्गसालाओ' वामहस्तेन गृहीतमग्रं शालायाः-शाखायाः अर्थादशोकपादस्य यकाभिस्ता वामहस्त-गृहीताप्रशालाः 'ईसि अद्धच्छिकडक्खचिट्ठिएणं लूसमाणीओ विवे' ति ईषत्-मनाक् अर्द्ध-तिर्यक् वलितमक्षि येषु कटाक्षरूपेषु चेष्टितेसुतैर्मुष्णन्त्य इव सुरजनानां मनांसि 'चक्खुल्लोयणलेसेहि य अन्नमन्नं खिज्जमाणीओ विव' अन्योऽन्यपरस्परं चक्षुषां लोकनेन-आलोकनेन ये लेशा:-संश्लेषास्तैः खिद्यमाना इव, किमुक्त भवति?-एवंमानस्तिर्यम्वलिताक्षिकटाक्षः परस्स्परमवलोकमाना अवतिष्ठन्ति, यथा नूनं परस्परसौभाग्यसहनतस्तिर्यग्वलिताक्षिकटाक्षः परस्परं खिद्यन्त इवेति, 'पुढविपरिणामाओ' इति पृथिवीपरिणामरूपाः शाश्वतभावमुपगता विमानवत् चंदाणणाओ इति चन्द्र इवाननं मुखं यासां तास्तथा 'चंदविलासिणीओ' इति चन्द्रवत् मनोहरं विलसन्तीत्येवंशीलाश्चन्द्रविलासिन्यः 'चंदद्धसमनिडालाओ' इति चन्द्रार्द्धसमम्अष्टमीचन्द्रसमान ललाट यासांतास्तथा 'चंदाहियसो मदंसणाओ' इति चन्द्रादपि अधिकं सोम-सुभगकान्तिमत् दर्शनम्-आकारो यासां तास्तथा उल्का इव उद्योतमानाः "विजुधणमरीचिसूरदिप्पंततेयअहिययरसन्निकासातो' इति विद्युतो ये घनाबहलतरा मरीचस्तेभ्यो यच सूर्यस्य दीप्मानं दीप्तंतेजस्तस्मादपि अधिकतरः सन्निकाशः-प्रकाशो यासांतास्तथा, "सिंगारागारचारुवेसाओ पासाइयाओ दरिसणिज्जाओ पडिरूवाओ अभिरुवाओ चिट्ठति इति प्राग्वत्। तेसिणंदाराणं उभयो पासे दुहओ णिसीहियाए सोलस सोलस जालकडगपरिवाडीओ पन्नताओ, ते णं जालकडगा सव्वरयणामया अच्छा जाव पडिरूवा। तेसिणं दाराणं उभयो पासे दुहओ निसीहियाए सोलस सोलस घंटापरिवाडीओ पन्नत्ताओ, तासि णं घंटाणं इमेयारूवे वन्नावासे पन्नत्ते, तं जहाजंबूणयामईओ घंटाओ वयरामयाओ लालाओ णाणाामणिमया घंटापासा तवणिजामझ्याओ संखलाओ रययामयाओ रज्जूतो, ताओ णं घंटाओ ओहस्सराओ मेहस्सराओ सीहस्सराओ दुंदुहिस्सराओ कुंचस्सराओ णंदिस्सराओ णंदिघोसाओ मंजुस्सराओ मंजुघोसाओ सुस्सराओ सुस्सरणिग्घोसाओ उरालेणं मणुनेणं मणहरेणं कन्नमणनिवुइकरेणं सहेणंते पदेसे सव्वओ समंता आपूरेमाणीओ 20 जाव चिट्ठति /