________________ सूरियाम 1105 - अमिधानराजेन्द्रः - भाग 7 सूरियाम यणलेसा सुहफासा सस्सिरीयरूवा' इति विशेषणजातं यानविमानवद्भावनीय' 'वन्नो दाराणं तेसिं होइ' इति तेषां द्वाराणां वर्णः-स्वरूपं व्यावर्णनमयं भवति, तमेव कथयति, 'तंजहे त्यादि, तद्यथा-'वइरामया णिम्मा' इति नेमा नाम द्वाराणां भूमिभागादूर्ध्वं निष्क्रामन्तः प्रदेशास्ते सर्वे वज्रमया-वजरत्नमयाः, वज्रशब्दस्य दीर्घत्वं प्राकृतत्वात्, एवमन्यत्रापि प्रतिष्ठानानि मूलपादाः वेरुलियमया खंभा' इति वैडूर्यरत्नमयाः स्तम्भाः 'जायरूवोवचियपवरपंचवन्न [वर] मणिरयण-कुठिमतला' जातरूपेण-सुवर्णेन उपचितैः युक्तैः प्रवरैः-प्रधानैः पञ्चवर्णमणिभिःचन्द्रकान्तादिभिः रत्नैः-कर्केतनादिभिः कुट्टिमतलं-बद्धभूमितलं येषां ते तथा 'हंसगब्भमया एलुया' हसंगर्भम्या-हंसगर्भाख्यरत्नमया एलुकादेहल्यः ‘गोमेजमया इंदकीला' इति गोमेजकररत्नमया इन्द्रकीलाः, 'लोहियक्खमईओ' लोहिताक्ष-रत्नमय्यः 'चेडाओ' इति द्वारशाखा 'जोइरसमया उत्तरंगा' इति द्वारस्योपरि तिर्यग्व्यवस्थितमुत्तरङ्गं तानि ज्योतिरसमयानि-ज्योतीरसाख्यरत्नात्मकानि 'लोहियक्ख मईओ' लोहिताक्षमय्यो लोहिताक्षरत्नाधिकाः सूचयः-फलकद्वयसमबन्धविघटनाभावहेतुः पादुकास्थानीया वइरामया संधी' वज्रमयाःसन्धयः सन्धिमेलाः फलकानां, किमुक्तं भवति ?-वज्ररत्नपूरिताः फलकानां सन्धयः 'नाणामणिमया समुग्गया' इति समुद्गका इव समुद्रकाःशूचिकागृहाणि तानि नानामणिमयानि 'वयरामया अग्गला अग्गलपासाया' अर्गलाः-प्रतीताः अर्गलाप्रासादा यत्रार्गला नियम्यन्ते, आह च | जीवाभिगम-मूलटीकाकाराः-'अर्गलाप्रासादो यत्रार्गला नियम्यन्ते इति' एते द्वये अपि वज्ररत्नमय्यौ 'रययामयाओ आवत्तणपेढियाओ' इति आवर्त्तनपीठिका नाम यत्रेन्द्रकीलको भवति, उत्कञ्चविजयद्वारचिन्तायां जीवभिगममूलटीकाकारेण 'आवर्तनपीठिका यत्रेन्द्रकीलको भवतीति' 'अंकुत्तरपासगा' इति अङ्का-अङ्करत्नमया उत्तरपार्यो येषां द्वाराणां तानि अङ्कोत्तरपार्श्वकानि 'निरंतरियघणकवाडा' इति निर्गता अन्तरिकालघ्यन्तररूपा येषां ते निरन्तरिका अत एव घनानिरन्तरिका घनाः कपाटा येषां द्वाराणां तानि निरन्तरिकघनकपाटानि भित्तिसुचेव भित्तिगुलिया छप्पन्ना तिन्नि होंति' इति तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोः भित्तिषुभित्तिगताः भित्तिगुलिकाः-पीठकस्थानीयाः तिस्रः षट्पञ्चाशत्प्रमाणा भवन्ति 'गोमाणसिया (सज्जा) तइया' इति गोमानस्यः शय्या 'तइया' इति तावन्मात्राः; षट्पञ्चाशत्तिकसङ्ख्याका इत्यर्थः 'णाणामणिरयणवालरूवगलीलट्ठियसालभंजियागा' इति इदं द्वारविशेषणमेव, नानामणिरत्नानि-नानामणिरत्नमयानि व्याल-रूपकाणि लीलास्थितशालभञ्जिकाश्चलीलास्थितपुत्तलिका येषु तानि तथा 'बयरामया कूडा रययामया उस्सेहा' इति कूडोमाडभाग उच्छयः-- शिखरम्, आह च जीवाभिगममूलटीकाकृत्-'कूडो माडभाग उच्छयः शिखर' मिति, नवरमत्र शिखराणि तेषामेव माडभागानां सम्बन्धीनि वेदितव्यानि, द्वारशिखराणामुक्तत्वात् वक्ष्यमाणत्वाच, सव्वतवणिज्जमया उल्लोया, उल्लोकाउपरिभागाः सर्वतपनीयमयाः-सर्वात्मना / तपनीयरूपसुवर्णविशेषमयाः 'नाणामणिरयणजाल-पंजरमणिवंसगलोहियक्खपडिवंसगग्ययभोमां' इति मणयो-मणिमया वंशा येषु तानि मणिमयवंशकानि लोहिताख्यानि-लोहिताख्यमयाः प्रतिवंशा येषु तानि लोहिताख्यप्रतिवंशकानि रजतारजतमयी भूमिर्येषां तानि रजतभूमानि प्राकृतत्वात्समासान्तः मणिवंशकानि लोहितख्य-प्रतिवशकानि रजतभूमानि नानामणिरत्नानि नानामणिरत्नमयानि जालपञ्जराणिगवाक्षापरपर्यायाणि येषु तानि तथा, पदानामनन्ययोपनिपातः प्राकृतत्यात्, 'अंकामया पक्खा पक्खबाहाओ' इति अङ्को रत्नविशेषस्तन्मयाः पक्षास्तदेकदेशभूताः पक्षबाहवोऽपि तदेकदेशभूता एवाङ्कमय्यः आहे च जीवाभिगममूलटीकाकृत्-"अङ्कमयाः पक्षास्त-देकदेशभूता एवं पक्षबाहवोऽपि द्रष्टव्या''इति, जोइरसामया वंसा वंसकवेल्लुका य' इति ज्योतीरसं नाम रत्नंतन्मया वंशाः-महान्तः पृष्ठवंशा'वंसकवेल्लुया य इति महतां पृष्ठवंशानामुमयतस्तिर्यक् स्थाप्यमाना वंशाः कवेल्लुकानि प्रतीतानि 'रययामइओ पट्टिआओ' इति रजतमय्यः पट्टिकावंशानामुपरि कम्बास्थानीयाः 'जायरूव-मईओ ओहाडणीओ' जातरूपंसुवर्णविशेषस्तन्मय्यः 'ओहाडणीओ' अवघाटिन्यः आच्छादनहेतुकन्वोपरिस्थाप्यमानमहाप्रमाणीकलिञ्चस्थानीयाः, 'वयरामईओ उवरि पञ्छणाओ' इति वज्रमय्यो-वज्ररत्नात्मिका अवघाटनीनामुपरि पुञ्छन्यो-निविडतराच्छादनहेतुश्लक्ष्णतरतृणविशेषस्थानीयाः, उक्तं च जीवाभिगममूलटीकाकारेण "ओहाडणाग्रहणं महत् क्षुल्लकं च पुञ्छना' इति 'सव्वसेयरयया-मयाच्छायणे' इति सर्वश्वेतं रजतमयं पुञ्छनीनामुपरि कवेल्लुकानामध आच्छादनम् 'अंकमयकणगकूडतवणिज्जथूभियागा' अङ्कमयानि बाहुल्येनाङ्करत्नमयानि पक्ष 2 बाह्वादीनामङ्करत्नात्मकत्वात् कनकानि-कनकमयानि कूटानि-महान्ति शिखराणि येषां तानि कनककूटानि तपनीयानि तपनीयस्तूपिकानि, ततः पदत्रयस्यापि कर्मधारयः, एतेन यत् प्राक् सामान्येन उत्क्षिप्त 'सेयावरकणगथूभियागा' इति तदेव प्रपञ्चतो भावितमिति / सम्प्रति तदेव श्वेतत्वमुपसंहारव्याजेन भूय उपदर्शयति-'सेया' श्वेतानि, श्वेतत्वमेवोपमया द्रढयति-'संखतल-विमलनिम्मलदधिधणगोखीरफेणरययनिगरप्पगासा' इति विगतं मलं विमलं यत् शखतलंशंखस्योपरितनो भागो यश्च निर्मला दधिघनः-घनीभूतंदधि गोक्षीरफेनोरजतनिकरश्च तद्वत् प्रकाशः-प्रतिभासो येषां तानि तथा 'तिलगरयणद्धचंदचित्ता' इति तिलकरत्नानिपुण्ड्रविशेषास्तैरर्द्धचन्द्रैश्च चित्राणिनानारूपाणि तिलकरत्नार्द्धचन्द्रचित्राणि, कृचित्-शंखतलविमलनिम्मलदहिघणगोखीरफेणरययनियरप्पगासद्धचंदचित्ताई' इति पाठः, तत्र पूर्ववत् पृथक् पृथक व्युत्पत्तिं कृत्वापश्चात् पदद्वसस्य 2 कर्मधारयः, नाणामणिदामालंकिया' इति नानामणयोनानामणिमयानि दामानिमालास्तैरलंकृतानि नानामणिदामालंकृतानि अन्तर्बहिश्च श्लक्ष्णानिश्लक्ष्णपुद्रलस्कन्धनिर्मापितानि 'तवणिज्जवालुयापत्थडा' इति तपनीयाःतपनीयमय्यो या वालुकाः सिकतास्तासां प्रस्तटः प्रस्तरो येषु तानि तथा