________________ सूरियाभ 1068 - अभिधानराजेन्द्रः - भाग 7 सूरियाम ति-स्वसिंहासनानुकूलं प्रविशति, प्रविशन् पूर्वेण 'त्रिसोपानप्रतिरूपकेण' प्रतिविशिष्टरूपेण त्रिसोपानेन तद् यानविमानं 'दुरूहइ' त्ति आरोहति, आरुह्य च 'जेणेव' ति यस्मिन्नेव देशे तस्य मणिपीठिकाया उपरि सिंहासनं तत्रोपागच्छति, उपागत्य च सिंहासनवरगतः सन् पूर्वाभिमुखः सन्निषण्णः-सम्यक् सकलसेवकजनचमत्कारकारिण्या उपवेशनस्थित्योपविष्टः। 'तएणमि' त्यादि, ततस्तस्य सूर्याभस्य देवस्य चत्वारि सामानिकदेवसहस्राणि तद् दिव्य यानविमानमनुप्रदक्षिणीकुर्वन्ति, उत्तरण त्रिसोपानप्रतिरूपकेणारोहन्ति, 'पुव्यणत्थेहिं इत्यादि, अत्र सप्तम्यर्थे तृतीया, पूर्वन्यत्सेषु भद्रासनेषु निषीदन्ति, अवशेषाःअभ्यन्तरपर्षदादयो देवा देव्यश्च दक्षिणेन त्रिसोपानप्रतिरूपकेणारोहन्ति, आरुह्य च स्वेषु भद्रासनेषु निषीदन्ति / 'तए णमि त्यादि, ततस्तस्य सूर्याभस्य देवस्य तद् दिव्यं यानविमानरूढस्य पुरतोऽष्टाष्टमङ्गलकानि यथानुपूविक्ष्यमाणपाठक्रमेणेत्यर्थः, सम्प्रस्थितानि, तद्यथा'सोत्थियसिरिवच्छे त्यादि, पूर्व स्वस्तिकः तदनन्तरं श्रीवत्सस्तदनन्तरं पूर्णकलशभृङ्गार-दिव्यातपत्रपताकाः सचामराः कथम्भूताः ? इत्याह'दर्शनरतिका' दर्शने-अवलोकेन रतिर्यासुता दर्शनरतिकाः, इह दर्शनरतिकमपि किश्चिदालोकदर्शनीयं न भवत्यमङ्गलत्वात् यथा गर्भवती युवतिः, अत आह-आलोके-बहिःप्रस्थानसमयभाविनि दशनीय द्रष्ट्र योग्या मङल्यत्वात्, अन्ये त्वाहुः-आलोके दर्शनीया न पुनरत्युच्चा आलोकदर्शनीया, तथा वातोद्भूता विजयसूचिका वैजयन्तीति विजयवैजयन्ती च उत्सृता ऊर्वीकृता गगनतलम् अम्बरतल-मनुलिखन्ती अभिलधयन्ती पुरतो यथानुपूव्यां सम्प्रस्थिता। 'तयणंतरं च णमि' त्यादि, तदनन्तरं 'वेरुलियभिसंतविमलदंड' मिति वैडूर्यो' वैडूर्यरत्नमयो भिसंतो दीप्यमानो विमलो निर्मलो दण्डो यस्य तत्तथा 'पलबकोरंटमल्लदामोवसोहिय' मिति, प्रलम्बते इति प्रलम्बि तेन प्रलम्बमानेन कोरण्टमाल्यदाम्ना कोरण्टपुष्पमालयोपशोभितं प्रलम्बकोरण्टमाल्यदामोपशोभितं चन्द्रमण्डलनिभं दीप्त्याशोभया वर्तुलतया चन्द्रमण्डलाकारं समुत्सृतं सम्यगूर्वी कृतं विमलमानपत्रं तथा प्रवरं सिंहासन मणिरत्नैः भक्त्या विच्छित्या चित्रं यत् तन्मणिरत्नभक्तिचित्रं, सह पादपीठं यस्य तत्सपादपीठं, तथा 'सपाउयाजोगसमाजुत' मिति, पादुकायोगः पादुकाद्वितयं तस्य समायोजनं समायुक्तंसह पादुकायोगसमायुक्तं यस्यतत्तथा बहुकिङ्करामरपरिग्गहियमिति बहुभिः किङ्करैःकिङ्करकल्पैरमरैः परिग्रहीतुं पुरतो यथानुपूर्व्या सम्प्रस्थितं, तदनन्तरं वइरामयवट्टलट्ठसंठियसुसिलिट्ठपरिघट्ठमट्ठसुपइटिए' त्ति, वज्रमयो वज्ररत्नमयः तथा वृत्तं वर्तुलं लष्ट मनोज्ञसंस्थितः सस्थानमाकारो यस्य स वृत्तलष्टसंस्थित, तथ सुश्लिष्टः सुश्लेषापन्नावयवो; मसृण इत्यर्थः, परिघृष्ट इव परिघृष्टः खरशाणया पाषाणप्रतिमावत् मृष्ट इव मृष्टः सुकुमारशाणया पाषाणप्रतिमेव सुप्रतिष्ठितानतु तिर्यकपतिततया वक्रः ततः एतेषां पदानां पदद्वयमीलनेन कर्मधारयः, अत एव शेषध्वजेभ्यो विशिष्टः अतिशायी, तथा अनेकानि-अनेकसङ्ख्याकानि वराणिप्रधानानि पञ्चवर्णानि कुडभी सहस्राणि उत्सृतानि यत्र सोऽनेकवरपञ्चवर्णकुडभीसहस्रोत्सृतः, क्तान्तस्य परनि पातो सुखादिदर्शनात्, वातोद्भूतविजयवैजयन्तीपताकाच्छत्रकलितः तुङ्गः- अत्युच्चो यो जनसहस्रप्रमाणोच्छत्वात्, तथा गगनतलम् अम्बरतलमनुलिखत् शिखरम्-अग्रभागो यस्य स तथा योजनसहस्रमुत्सृतः अत एव 'महइमहालए ' इति, अतिशयेन महान महेन्द्रध्वजः पुरतो-यथानुपूर्व्या संप्रस्थितः। तदनन्तरं 'सुरूवनेवत्थपरिकच्छिया' इति।सुरूपं नेपथ्यं परिकक्षितं परिगृहीतं यैस्ते तथा, तथा सुष्टु अतिशयेन सजा:--परिपूर्णाः स्वसामग्री-समायुक्ततया प्रगुणीभूताः-सर्वालङ्कारविभूषिताः महता भडचडगरपहकरेणं ' ति महता-अतिशयन भटचटकरपहकरेणचटकरप्रधानभटसमूहेन पञ्चानीकानि पश्चानीकाधिपतयः पुरतोयथाऽनुपूा सम्प्रस्थिताः। तदनन्तरं च सूर्याभविमानवासिनो बहवो वैमानिका देवा देव्यश्च सर्वद्ध्या यावत्करणात्-'सव्वजुईएसव्वबलेण' मित्यादि-परिग्रहः, सूर्याभं देवं पुरतः पार्श्वतो मार्गतः--पृष्ठतः समनुगच्छति। तएणं से सूरियामे देवे तेणं पंचाणीयपरिक्खित्तेणं वइरामयवट्टलट्ठसंठिएण जाव जोयणसहस्सभूसिएणं महतिमहालतेणं महिंदज्झएणं पुरतो कडिजमाणेणं चउहिं सामाणियसहस्सेहिं जाव सोलसहि आयरक्खदेवसाहस्सीहिं अन्नेहि य बहुहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहि, देवीहि य सद्धिं संपरिखुडे सव्विडिए जाव रवेणं सोहम्मस्स कप्पस्स मज्झंभज्झेणं तं दिव्वं देविडिं दिव्वं देवजुतिं दिव्वं देवाणुभावं उवदंसेमाणे 2 एडिजागरेमाणे 2 जेणेव सोहम्मकप्पस्स उत्तरिल्ले णिजाणमग्गे तेणेव उवागच्छति 2 छित्ताजोयणसयसाहस्सितेहिं विग्गेहिं ओवयमाणे वीतीयवयमाणे ताए उकिट्ठाए जाव तिरियसंखिजाणं दीवसमुदाणं मज्झंमज्झेणं वीइवयमाणे 2 जेणेवनंदीसरवरदीवे जेणेव दाहिणपुरच्छिमिल्ले रतिकरपव्वते तेणेव उवागच्छति 2 छित्ता तं दिव्यं देविधिं जाव दिव्वं देवाणुभावं पडिसाहरेमाणे 2 पडिसंखेवेमाणे 2 जेणेव जंबूदीवे दीवे जेणेव मारहे वासे जेणेव आवलकप्पा नयरी जेणेव अंबंसालवणे चेइए जेणेवसमणे भगवं महावीरे तेणेव उदागच्छइ २छित्ता समणं भगवं महावीरं तेणं दिव्वेणं जाणविमाणेणं तिक्खुत्तो आयाहिणं पयाहिणं करेइ 2 रेत्ता समणस्स भगवतो महावीरस्स उत्तरपुरच्छिमे दिसिभागे तं दिव्वं जाणविमाणं ईसिं चउरंगुलमसंपत्तं धरणितलंसि ठवेइ ठवित्ता चउहिं अग्गमहिसहिं सपरिवाराहिं दोहिं अणीयाहिं, तं जहागंघव्वाणिएण य णट्टाणिएण य सद्धिं संपरिबुडे ताओ दिव्वाओ जाणविमाणाओपुरच्छिमिल्लेणं तिसोवाणपडिरूवएणं पचोरुहति। तएणं तस्स सूरियाभस्स देवस्सचत्तारिसमाणिसाहस्सीओता