SearchBrowseAboutContactDonate
Page Preview
Page 1105
Loading...
Download File
Download File
Page Text
________________ सूरियाभ 1081 - अमिधानराजेन्द्रः - भाग 7 सूरियाभ सीहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अणियाहिं सत्तहिं / अणियाहिवईहिं सोलसहि आयरक्खदेवसाहस्सीहिं अन्नेहिय बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिवुडे महयाऽऽहयनट्टगीयवाइयतंतीलतालतुडियघणमुइंगपडुप्पवादियरवेणं दिव्वाइं भोगभोगाइं भुजमाणे विरहति, इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे २पासति। 'तेणं काले ण' मित्यादि, ते इति प्राकृतशैलीवशात्तस्मिन्निति द्रष्टव्यं, यस्मिन्काले भगवान् वर्द्धमानस्वामी साक्षाद्विहरति तस्मिन्काले 'ते णं समए णं तितस्मिन् समये यस्मिन्नवसरे भगवानाम्रशालवने चैत्ये देशनां कृत्वोपरतस्तस्मिन्नवसरे इति भावः, सूर्याभो नाम्ना देवो, नामशब्दो ह्यव्यसरूपोऽप्यस्ति, ततो विभक्ति लोपः, ततो सौधर्माख्ये कल्पे यत्सूर्याभनामकं विमानं तस्मिन् या सभा सुधर्माभिधा तस्यां यत्सूर्याभाभिधानं सिंहासनं तत्रोपविष्टः सन्निति गम्यते, 'च उहिं सामाणियसाहस्सीहि इति समाने द्युतिविभवादौ भवाः सामानिकाः, अध्यात्मादित्वादिकरण, विमानाधिपतिसूर्याभदेवसदृशद्युतिविभवादिका देवा इत्यर्थः, ते च मातृपितृगुरूपाध्यायमहत्तरवत्सूर्याभदेवस्य पूजनीयाः केवलविमानाधिपतित्वहीना इति सूर्याभं देवं स्वामिनं प्रतिपन्नाः तेषां सहस्राणि सामानिकसहस्राणि तैश्चतुर्भिः, प्राकृतत्वाच सूत्रे सकारस्य दीर्घत्वं, स्त्रीत्वं च / 'चतसृभिरग्रमहिषीभिः' इह कृताभिषेका देवी महिषीत्युच्यते,साचस्वपरिवारभूतानां सर्वासामपि देवीनामग्रे इत्यग्राः, अग्राश्चता महिष्यश्च अग्रमहिष्यस्ताभिश्चतसृभिः, कथम्भूमताभिरित्याह-'सपरिवाराभिः परिवारः सह यासां ताः सपरिवारास्ताभिः, परिवारश्चैकैकस्या देव्याः सहसं 2 देवीनां तथा तिसृभिः पर्षद्भिः तिस्रो हि विमानाधिपतेः सर्वस्यापि पर्षदः, तद्यथा-अभ्यन्तरा मध्या बाह्या च, तत्रया यस्य मण्डलीकस्थानीया परममित्रसंहतिसदृशीसा अभ्यन्तस्पर्षत, तया सहापर्यालोचितं स्वल्पमपि प्रयोजनन विदधाति अभ्यन्तरपर्षदा सह पर्यालोचितं यस्यै निवेद्यतेयथेदमस्माकंपर्यालोचितं सम्मतमागतंयुष्माकमपीदं सम्मतं किंवा, नेतिसा मध्यमा, यस्याः पुनरभ्यन्तरपर्षदा सह पर्यालोचितं मध्यमया च सह दृढीकृतं यस्यै करणायैव निरूप्यते यथेदं क्रियतामिति सा बाह्या, तथा 'सत्तहिं अणिएहिं' इति अनीकानि-सैन्यानि, तानि च सप्त, तद्यथा-हयानीकं गजानीकं रथानीकं पदात्यनीकं वृषमानीकं गन्धर्वानीकं, नाट्यानीकं तत्राद्यानि, पञ्चानीकानि संग्रामाय कल्प्यन्ते गन्धर्वनाट्यानीके पुनरुपभोगाय, तःसप्तभिरनीकैः, अनीकानि स्वस्वाधिपतिव्यतिरेकेण न सम्यक प्रयोजने समागते सत्युपकल्प्यन्ते ततः सप्तानीकाधिपतयोऽपि तस्य वेदितव्याः, तथा चाह-'सत्तहि अणियाहिवईहिं,' तथा 'षोडशभिरात्मरक्षदेवसपैरिति विमानाधिपतेः सूर्याभस्य देवस्यात्मानं रक्षयन्तीत्यात्मरक्षाः, कर्मणोऽण' इत्यण प्रत्ययः, ते च शिरस्त्राणकल्पाः, यथा हि / शिरस्त्राणं शिरस्याविद्धं प्राणरक्षकं भवति तथा तेऽप्यत्मरक्षका गृहीतधनुर्दण्डादिप्रहरणाः समन्ततः पृष्ठतः पार्श्वतोऽग्रतश्चावस्थायिनो विमानाधिपतेः सूर्याभस्य देवस्य प्राणरक्षकाः देवानामपायाभावात् तेषां तथाग्रहणपुरस्सर-मवस्थानं निरर्थकामिति चेत् न, स्थितिमात्रपरिपालनहेतुत्वात् प्रक्रर्षहेतुत्वाच, तथाहि ते समन्ततः सर्वासु दिक्षु गृहीतप्रहरणा ऊर्ध्वं स्थिता अवतिष्ठमानाः स्वनायकशरीररक्षणपरायणाः स्वनायकैकनिषण्णदृष्टयः परेषामसहमानानां क्षोभमापादयन्तोजनयन्ति स्वनायकस्यपरां प्रीतिमिति, एते च नियतसङ्ख्याकाः सूर्याभस्य देवस्य परिवारभूता देवा उक्ताः , ये तुतस्मिन् सूर्याभे विमाने पौरजनपद-स्थानीया ये त्वाभियोग्याः-दासकल्पास्ते ऽतिभूयांसः आस्थानमण्डल्यामपि चानियतसङ्ख्याका इति तेषां सामान्यत उत्पादानमाह-'अन्नेहिं बहूहिं सूरियाभविमाणवासीहिं देवेहिं देवीहिय सद्धिं संपरिवुडे' एतैः सामानिकप्रभृतिभिः सार्द्ध संपरिवृत्तःसम्यगायकैकचित्ताराधनपरतया परिवृत्तः, 'महयाऽऽहये त्यादि, महता रवेणेतियोगः 'आहया' इति-आख्यानकप्रतिबद्धानीति वृद्धाः, अथवा--- अहतानि-अव्याहतानि अक्षतानीति भावः, नाट्यगीतवादितानि न तन्वी-वीणा तला-हस्ततालाः कंसिकाः तुडितानि-शेषतूर्याणि, तथा घनो-घनसदृशोध्वनिसाधर्म्यत्वात्यो मृदङ्गो-र्मदलः पटुना दक्षपुरुषेण प्रवादितः, तत एतेषां पदानां द्वन्द्वः, तेषां यो रवस्तेन, दिव्यान-दिवि भवान् अतिप्रधानानित्यर्थः, 'भोगभोगाई' इति भोगार्हा ये भोगाशब्दादयस्तान्, सूत्रे नपुसंकता प्राकृतत्वात्, प्राकृते हि लिङ्गव्यभिचारः, यदाह पाणिनिःस्वप्राकृतलक्षणे-'लिंङ्ग व्यभिचार्यपि ति, भुजानो विहरति-आस्ते, न केवलमास्ते किंत्विम-प्रत्यक्षतया उप लभ्यमानं केवलकल्पम्-ईषदपरिसमाप्तं केवलं-केवलज्ञानं केवलकल्पं, परिपूर्णतया केवलसदृशमिति भावः, जम्ब्वा रत्नमय्या उत्तरकुरुरवासिन्या उपलक्षितो द्वीपो जम्बूद्वीपस्तं जम्बूद्वीप, भिधानं द्वीपे विपुलेन-विस्तीर्णेनावधिनातस्य हि सूर्याभस्य देवस्यावधिरधः प्रथमां पृथिवीं यावत्तिर्यक् असङ्ख्येयान् द्वीपसमुद्रानिति भवति विस्तीर्णस्तेनाभोगयन्-परिभावयन् पश्यति, अनेन सत्यप्यवधौ यदितंज्ञेयविषयमाभोगं न करोति तदा न किञ्चिदपि तेन जानाति पश्यति वत्यावदितम्। तत्थ समणं भगवं महावीरं जंबुद्दीवे दीवे भारहे वासे आमलकप्पाए नयरीए बहिया अबसालवणे चेइए अहापडिरूवं उग्गह उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणं पासति, पासित्ता हट्ठतुट्ठचित्त-माणं दिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियय विकसियवरकमलणयणे पयलियवरकडगतुडियके ऊरमउडकुंडलहारविरायंतरइयवच्छे पालंबपलंबमाणघोलंतभूसणधरे ससंभमं तुरियचवलं सुरवरे (०जाव)मसीहासणाओ अब्मुढेइरत्तापायपीढाओ पचोरुहति, २हित्तापासाडियं उत्तरासंगकरेति, २रित्तासत्तकृपयाई तित्थयराभिमुहं अणुगच्छति, स०२च्छित्ता, वामं जाणु अंचेति 2 चेत्ता
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy