________________ सूयगड 1028 - अभिधानराजेन्द्रः - भाग 7 सूयगड सूत्रकृतस्य सप्तपञ्चाशदध्ययनानि, स०। तत्राचारे प्रथमश्रुतस्कन्धे नवाध्ययनानि, द्वितीये षोडश निशीथाध्ययनस्य प्रस्थानान्तरत्वेनेहानाश्रयणात, षोडशानां मध्ये एकस्या-चारचूलिकेति परिहृतत्वात्, शेषाणि पञ्चदश, सूत्रकृते द्वितीयाङ्गे प्रथमश्रुतस्कन्धे षोडश द्वितीये सप्त स्थानाड़े दशेत्येवं सप्तपञ्चाशदिति। स० अध्ययनानां प्रत्येकमाधिकारः। स०। साम्प्रतं सूत्रकृताङ्ग निक्षेपानन्तरं प्रथमश्रुतस्कन्धस्त नामनिष्पन्ननिक्षेपाभिधित्सयाऽऽहनिक्खेवो गाहाए, चउविहो छविहो य सोलस्सु। निक्खेवो य सुयंमि, खंधे य चउव्विहो होइ / / 23 / / इहाद्यश्रुतस्कन्धस्य गाथाषोडशक इति नाम, गाथाख्यं षोडशमध्ययन यस्मिन् श्रुतस्कन्धे स तथेति, तत्र गाथाया नामस्थापनाद्रव्यभावरूपश्चतुर्विधो निक्षेपः, नामस्थापने प्रसिद्धे, द्रव्यगाथा द्विधा-आगमतो, नोआगमतश्च / तत्र आगमतो ज्ञाता तत्र चानुपयुक्तः 'अनुपयोगो द्रव्य' मिति कृत्वा, नोआगमतस्तु विधा- ज्ञशरीरद्रव्यगाथा, भव्यशरीरद्रव्यगाथा ताभ्यां विनिर्मुक्ताच-"सत्तट्ठतरू विसमे, ण से हया ताण छट्ठ णह जलया। गाहाए पच्छद्धे, भेओ छट्टो त्ति इक्ककलो / / 1 / / " इत्यादिलक्षणलक्षिता पत्रपुस्तकादिन्यस्तेति, भावगाथाऽपि द्विविधाआगम-नोआगमभेदात्, तत्राऽऽगमतो गाथापदार्थज्ञस्तत्र चोपयुक्तः, नोआगमतस्त्विदमेव गाथाख्यमध्ययनम्, आगमैकदेशत्वादस्य षोडशकस्यापि नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् षोढा निक्षेपः। तत्र नामस्थापने क्षुण्णे, द्रव्यषोडशकंज्ञशरीर-भव्यशरीरविनिर्मुक्तं सचित्तादीनि षोडश द्रव्याणि, क्षेत्रषोडशकं षोडशाकाशप्रदेशाः, कालषोडशकं षोडश समयाः एतत्कालावस्थायि वा द्रव्यमिति, भावषोडशकमिदमेवाध्ययनषोडशकं, क्षायोपशमिकभाववृत्तित्वादिति / श्रुतस्कन्धयोः प्रत्येक चतुर्विधो निक्षेपः सचान्यत्र न्यक्षेण प्रतिपादित इति नेह प्रतन्यते। साम्प्रतमध्ययनानां प्रत्येकमाधिकारं दिदर्शयिषयाऽऽहससमयपरसमयपरू-वणायणाऊण बुज्झणा चेव / संबुद्धस्सुवसग्गा, त्थीदोसवित्रणा चेव॥२४॥ उवसग्गभीराणोत्थी-वसस्स णरएसु होज उववाओ। एवमहप्पा वीरो, जयमाह तहा जएजाह ||2|| परिचत्तनिसीलकुसी-लसुसीलसंविग्गसीलवं चेव। णाऊण वीरियदुर्ग, पंडियदीरिय पय?ई (वयइ)।२६|| धम्मो समाहिमग्गो, समोसढाचउसु सव्ववादीसु। सीसगुणदोसकहणा, गंथंमि सदा गुरुनिवासो॥२७॥ आदाणिय संकलिया, आदाणीयंमि आदयचरितं / अप्परगंथे पिंडिय, वयणेणं होइ अहिगारो॥२८॥ तत्र प्रथमाध्ययने स्वसमयपरसमयप्ररूपणा द्वितीये स्वसमयगुणान् / परसमयदोषाँश्व ज्ञात्वा स्वसमय एव बोधो विधेय इति, तृतीयाध्ययने तु संबुद्धः सन्यथोपसर्गसहिष्णुर्भवति तदभिधीयते, चतुर्थेस्त्रीदोषविवर्जना पञ्चमे त्वयमर्थाधिकारः, तद्यथा-उपसगांसहिष्णोः स्त्रीवशवर्तिनोऽवश्यं नरकेषूपपात इति, षष्ठे पुनरेवमित्यनुकूल-प्रतिकूलोपसर्गसहनेन स्त्रीदोषवर्जनेन च भगवान् महावीरो जेतव्यस्य कर्मणः संसारस्य वा पराभवेन जयमाह-ततस्तथैव यत्नं विधत्त यूयमिति शिष्याणामुपदेशो दीयंते, सप्तमे त्विदमभिहितम्, तद्यथा-निःशीला गृहस्थाः कुशीलास्त्वन्यतीर्थिकाः पार्श्वस्थादयोवा ते परित्यक्ता येन साधुनास परित्यक्तनिःशीलकुशील इति, तथा सुशीला उद्युक्तविहारिणः संविनाः संवेगमग्रास्तत्सेवाशीलः शीलवान् भवतीति, अष्टमे त्वेतत्प्रतिपाद्यते, तद्यथाज्ञात्वा वीर्यद्वयं पण्डितवीर्ये प्रयत्नो विधीयत इति, नवमे तीर्थाधिकारस्त्वयम्, तद्यथा-यथावस्थितो धर्मः कथ्यते, दशमे तु समाधिः प्रतिपाद्यते, एकादशे तु सम्यग्दर्शनज्ञानचारित्रात्मको मोक्षमार्गः कथ्यते, द्वादशे त्वयमर्थाधिकारः, तद्यथा-समवसृता अवतीर्णा व्यवस्थिताश्चतुर्ष मतेषु क्रियाक्रियाज्ञानवैनयिकाख्येष्वभिप्रायेषु त्रिषष्ट्युत्तरशतत्रयसंख्याः पाषण्डिनः स्वीयं स्वीयमर्थ प्रसाधयन्तः समुत्थितास्तदुपन्यस्तसाधनदोषोद्भावनतो निराक्रियन्ते, त्रयोदशे त्विदमभिहितं, तद्यथासर्ववादिषु कपिलकणादाक्षपादशौद्धोदनिजैमिनिप्रभूतिमतानुसारिषु कुमार्गप्रणेतृत्वं साध्यते, चतुर्दशेतु ग्रन्थाख्येऽध्ययनेऽयमर्थाधिकारः, तद्यथा-शिष्याणां गुणदोषकथना, तथा शिष्यगुणसम्पदुपेतेन च विनेयेन नित्यं गुणानुरूपगुरुकुलवासो विधेय इति, पञ्चदशे त्वादानीयाख्येऽध्ययनेऽाधिकारोऽयम्, तद्यथाआदीयन्तेगृह्यन्ते उपादीयन्ते इत्यादानीयानि पदान्यर्थावा ते च प्रागुपन्यस्तपदैरर्थश्च प्रायशोऽत्र संकलिताः, तथा आयतं चरित्रं सम्यक्चरित्रं मोक्षमार्गप्रसाधकं तच्चात्र व्यावर्ण्यत इति, षोडश तु गाथाख्येऽल्पग्रन्थेऽध्ययनेयमर्थो व्यावय॑ते, तद्यथापञ्चदशभिरध्ययनर्योऽर्थोऽभिहितः सोऽत्र पण्डितवचनेन संक्षिप्ताभिधानेन प्रतिपाद्यत इति। "गाहासोलसगाणं, पिंडत्थो वन्निओसमासेणं / एत्तो इक्किक्कं पुण, अज्झयणं कित्तइस्सामि // 1 // " सूत्र० / (समयाध्ययनस्याधिकारगाथाः 26 'समय' शब्देऽस्मिन्नेव भागे उक्ताः।) साम्प्रतं प्रागुपन्यस्तोद्देशार्थाधिकाराभिधित्सयाऽऽहमहपंचभूय एक-प्पए य तज्जीवतस्सरीरे य। तह य अगारगवाई, अत्तच्छट्ठो अफलवादी॥३०॥ वीए नियईवाओ, अण्णाणिय तहय नाणवाईओ। कम्मं चयं न गच्छइ, चउव्विहं भिक्खुसमयंमि // 31 // तइए आहाकम्म, कडवाईजह य ते पवाईओ। किबुवमा य चउत्थे, परप्पवाई अविरएसु // 32 // 'महपंचभूये' त्यादि गाथात्रयम्, अस्याध्ययनस्य चत्वार उद्देशकास्तत्राद्यस्य षडाधिकारा आद्यगाथाऽभिहिताः, तद्यथा-पञ्च भूतानि पृथिव्यप्तेजोवाय्वाकाशाव्यानि महान्ति च तानि सर्वलोकव्यापित्वात् भूतानि च महाभूतानि इत्यमेकोऽर्थाधिकारः, तथा चेतनाचेतनं सर्वमेवात्मविवर्त्त इत्यात्माऽद्वैतवादः प्रतिपाद्यतः इत्यर्थाधिकारो द्वितीयः, स चासौ जीवश्च तज्जीवः कायाकारो भूत