________________ वसहि 658- अभिधानराजेन्द्रः - भाग 6 वसहि अभिहणेज वा जाव ववरोवेज वा, अह भिक्खु णं पुथ्वोवट्ठिाहुजंतहप्पगारे उवस्सए अंतलिक्खजाए नो ठाणंसिवा०३ चेतेजा। (सू०-६६) स भिक्षुर्यत्पुनरेवंभूतमुपाश्रयं जानीयात्, तद्यथा-स्कन्धः- एकस्य स्तम्भस्योपर्याश्रयः, मञ्चमालौ-प्रतीती, प्रासादौ-द्वितीयभूमिका, हऱ्यातलम्-भूमिगृहम्, अन्यस्मिन् वा तथाप्रकारे प्रतिश्रये स्थानादिन विदध्याद, अन्यत्र तथाविधप्रयोजनादिति, स चैवंभूतः प्रतिश्रयस्तथाविधप्रयोजने सति यद्याहृत्य-उपेत्त्य गृहीतः स्यात्तदानीं यत्तत्र विधेयं तदर्शयति-न तत्र शीतोदकानिहस्तादिधावनं विदध्यात्, तथा नच तत्र व्यवस्थित उत्सृष्टम्--उत्सर्जनं त्यागमुच्चारादेः कुर्यात्, केवली ब्रूयात्कर्मोपादान-मेतद् आत्मसंयमविराधनातः / एतदेव दर्शयति-सतत्र त्यागं कुर्वन्निपतेद्वा पतंश्चान्यतरं शरीरावयवमिन्द्रियं वा विनाशयेत्। तथा प्राणिनश्चाभिहन्यात्, यावज्जीविताद् व्यपरोपयेत्-प्रच्यावयेदिति। अथ भिक्षूणां पूर्वोपदिष्टमेतत् प्रतिज्ञादिकं यत्तथाभूतेऽन्तरिक्षजाते प्रतिश्रये स्थानादिन विधेयमिति। आचा०२ श्रु०१चू०२ अ०१ उ०) (11) अथ निर्ग्रन्थीनां सागारिकवसतौ निषेधमतिदिशन्नाहएसेव कमो नियमा, निग्गन्थीणं पि होइ नायव्वो। पुरिसपडिमा उतासिं,साणम्मिय जंच अणुरागो॥४०८|| एष एव-द्रव्यभावसागारिकविषयःक्रमो निर्गन्थीनामपि भवतिज्ञातव्यः / नवरं दिव्यद्वारे तासांपुरुषप्रतिमाद्रष्टव्याः,मनुष्यद्वारे मनुजपुरुषाः, तैरश्चद्वारि तिर्यक्पुरुषा इति तिरश्चो वा श्वानविषयो येष्वनुरागो बभूव / तद् दृष्टान्तो भवति 'जहा एगा अविरइया अवाउडा काइयं वोसिरती विरहे साणेण दिट्ठा / सो य साणो पछि लोलिंतो वा दूणिं करेंतो अलीणो। सा अगारी चिंतेइ पेच्छामि ताव एस किं करेइ ति / तस्स पुरतो सागारियं अभिमुहं काउंजाणुएहिं हत्थेहिय अहोमुही ठिया। तेण सा पडिसेविया / ताए अगारीए तत्थेव साणो अणगारो जातो। एवं मिगछगलवानरादी विअगारि अभिलसंति यत एते दोषास्ततः सागारिके प्रतिश्रये न वस्तव्यम्। अथ द्वितीयपदमाहअद्धाण निग्गयादी, तिक्खुत्तो मग्गिऊण असईए। गीयत्था जयणाए, वसंति तो दव्वसागरिए||४०६|| अध्वनिर्गतादयस्त्रिकृत्वः-त्रीन्वारान् निर्दोषां वसति मार्गयित्वा यदि न लभते ततोऽन्यस्यां वसतौ-असत्यां गीतार्था यतनया द्रव्यसागारिकोपाश्रये वसन्ति। यतनामेवाहजहि अप्पतरा दोसा, आहरणादीण दूरतोय मिगा। चिलिमिलि निसि जागरणं,गीए सज्झायझाणादी॥४१०॥ यत्ररूपाभरणादौ अल्पतरा दोषाः तत्र तिष्ठन्ति,मृगा इव मृगा अज्ञत्वादगीतार्थाः स्नानाभरणादीनां दूरतः कुर्वन्ति। चिलिमिलिकां च रूपादीनामपान्तराले बध्नन्ति / निशि-रात्रौ तत्र जागरणं कर्त्तव्यम्, मा स्तेनादिराभरणादिकमपहरेदिति कृत्वा गीतशब्दे च श्रूयमाणे महता शब्देन स्वाध्यायं कुर्वन्ति / ध्यानलब्धिसम्पन्नो वा ध्यानं ध्यायति / आदिशब्दादप्राप्तनाटके वा विधीयमाने तदभिमुखमवलोकन्ते। भावसागारिके द्वितीयपदमाहअद्धाण निग्गयादी, वासे सावयमए व तेणभए। आयरिया तिविहे वी, वासति जयणाएगीयत्था // 411 // अध्वनिर्गतादयो ग्रामादीनामन्तः शुक्ष वसतिमलभमाना बहिरप्युद्यानादौ वसन्ति / अथ बहिर्वसताविमे दोषाः 'वासति' ति वर्षति-पतति सिंहव्याघ्रादीनां वा श्वापदानां भयम्, स्तेनानां वा शरीरोपधिहराणां भयम्, ततो ग्रामादेरन्तर्भावसागारिके जधन्य-मध्यमोत्कृष्टभेदे (प्राजापत्यादिपरिगृहीतभेदाद्वा) त्रिविधेऽपि वसन्ति / तत्र च प्रतिमा वस्त्रादिभिरावृताः क्रियन्ते, मनुष्यतिर्यक्-स्त्रियश्च कटकचिलिमिलिकामपान्तराले दत्त्वा यथा न विलोक्यन्ते तथा आवृताः सन्तो गीतार्था यतनया वसन्ति / बृ० 130 3 प्रका सस्त्रीके उपाश्रये निषेधमाहसे भिक्खू वा भिक्खुणी वा से जं पुण उवस्सयं जाणेज्जा सइत्थियं सखुडं सपसुभत्तपाणं तहप्पगारे सागारिए उवस्स-ए णो ठाणं वा०३ चेतेजा / आयाणमेयं भिक्खुस्स गाहा–वइकुलेण सद्धिं संवसमाणस्स अलसगे वा विसूइया वा छड्डी वा उवाहिज्जा अण्णयरे वा से दुक्खे रोयातंके समुप्पप्पजेजा, असंजए करुणपडियाए तं मिक्खुस्स गायं तेल्लेण वा घएण वा णवणीएण वा वसाए वा अन्मंगिज वा मक्खिज्ज वा सिणाणेण वा कक्केण वालोद्धेण वा वण्णेण वाचुण्णेण वा पउमेणवा आघंसेज वा पघंसेजवा उव्वलेज वा उव्वट्टेज वा सीओदग-वियडेण वा उसिणोदगवियडेण वा उच्छोलेज वा पक्खालिज्ज वा सिणावेज वा सिंचेज वा दारुणा वा दारुणं परिणाम कल अगणिकायं उजालेज वा पज्जालेजवा उजालित्ता कायं आया-वेज वापयावेज वा,अह भिक्खू णं पुटवोवदिट्ठा एस पतिण्णा जं तहप्पगारे सागारिए उवस्सए णो ठाणं वा०३ चेतेति। (सू०-६७) 'सेभिक्खू' वेत्यादि, स भिक्षुर्यत्पुनरेवंभूतमुपाश्रयं जानीयात्, तद्यथायत्र स्त्रियं तिष्ठन्ती जानीयात्, तथा-'सखुड्डु' त्ति सबालम्, यदिवा-सह क्षुदैरवबद्धः सिंहश्वमाज्जारादिभिर्यो वर्तते, तथा पशवश्च भक्तपाने चायदि वा-पशूनां भक्तपाने तद्युक्तम्, तथा- प्रकारे सागारिके गृहस्थाः कलप्रतिश्रये स्थानादिनकात, यतस्तत्रामी दोषाः तद्यथा-आदानम