________________ वत्थ 875 - अमिधानराजेन्द्रः - भाग 6 वत्थ ति।सा चहीनोऽसावितिनेच्छत्यमुमर्थम्। ततोऽश्वस्वामी भार्यावबोधाय बर्द्धकिसुतं दृष्टान्तीकरोति / यथा केनापि वर्द्धकिना भागिनेयः स्वसुतां दत्त्वा गृहजामाता कृतः / स च किमपि व्यवसायं न करोति, ततो वर्द्धकिदुहित्र्या प्रेरितः किमिति पुरुषव्रतरहितः परदत्तमुपजीवस्तिष्ठसि? विधेहि किं चित्कर्मान्तरमिति। ततः कुठारं गृहीत्वा काष्ठाकर्तनार्थमटवीं गतः, स्वाभिलषितकाष्ठाप्राप्तयभावाच प्रतिदिवसं रिक्तएव निवर्त्तते, षष्ठे च मासे लब्धं कृष्णचित्रककाष्ठम्, घटितस्ततः कुलकः कलसिकाचतुर्थांशरूपो धान्यमानविशेषः / ततः प्रेषिता स्वभार्या द्रव्यलक्षेण यो गृह्णाति तस्मै प्रदातव्य इत्युक्तवा, हट्टमार्गे विक्रयार्थं सा च तन्मूल्यलक्ष याचमाना लोकैरुपहस्यते। समायातश्च तत्र कश्चिद्बुद्धिमान वणिक, परिभावितंच तेन स्वचेतसि नूनमत्र कारणेन भवितव्यम्, यदेवमियमस्य काष्ठस्य मूल्यं लक्ष याचते, ततो यावत्तेन धान्यं मिमीते तावन्न कथंचित्क्षीयते अतो धान्याद्यक्षयनिमित्तं लक्षमपि दत्त्वा गृहीत-स्तेन कुलकः / ततः प्रभृति तेन सल्लक्षणजामातृकेण गृहे धृतेन सर्वमपि वर्द्धकिकुटुम्बं धनधान्यादिना वृद्धिमुपययौ / तथा त्वमपि निजदुहितर यद्यस्मै प्रयच्छसिततोऽनेन अस्मद्गृहे तिष्ठता समस्तलक्षणोपेतमश्वद्वयमपि तिष्ठति, ततोऽश्वद्वय-माहात्म्येन च सर्वाः संपदः करस्था एवास्माकं भवन्तीत्यादि बहुविधमुक्तवा दापिता तस्मै दुहिता / अथ गाथाद्वयस्याक्षरार्थ :- स्थापिन्यो नाम घडवाः ता उच्यन्ते या वर्षे वर्षे विजनयन्ते ताश्च वर्षमेकं कश्चिद्रमकः पालयति, उपलक्षणमिदं तेनाश्वानपि पालयतीत्यादि द्रष्टव्यम्, कथम् पालयति ? इत्याहतस्याधिपतेमिन चेतनभूताश्च द्वयलक्षणेन ततश्च वडवं पालयति चेटिका समं घटना, तया च य निकारितः एवंविधलक्षणोपेतमेवाऽश्वद्वयं ग्रहीतव्यं नान्यदिति, किं पुनस्तलक्षणमित्याह-उपविष्टष्वश्वेषु द्रुममारुह्य घोषणा कर्त्तव्या यौ न त्रयस्यस्तो लक्षणयुक्तौ, ततो भृतिकाले द्वयोरपि तयोः स-लक्षणयोरसौ ग्रहणं करोति, अलं मे परैरश्वैः इदमेवच द्वयं समर्पयेत्येवमाविश्वकमश्वस्वामिनं भणति, स च स्वकार्यावबोधाय बर्द्धकैः-रथकारस्य भावुको भागिनेयस्तस्य यद्वर्द्धकिना दुहितुः प्रदान ततः स्वभार्याया प्रेरितेन कृष्णचित्रकाष्ठमानीय यत् कुलकोद्घाटितस्तेनोपलक्षितमौपम्यं दृष्टान्तवान् / एवं गच्छति लक्षणयुत्केनोपधिना ज्ञानादीनां वृद्धिरुपजायते / ततश्च स्थितमेतत्-विधिनेव तथा वस्त्रं छेदनीयं यथा प्रमाणयुक्तं भवति। बृ०३ उ०। (अथ प्रमाणादिस्वरूपनिरूपणद्वार - गाथा उवहि' शब्दे द्वितीयभागे 1060 पृष्ठे गता।) महाधनवस्त्राणि - से भिक्खू वा भिक्खुणी वा से जाइं पुण वत्थाई जाणिज्जा विरुवरुवाई महद्धणमुल्लाई, ते जहा-आइणगाणि वा सहिणाणि वा सहिणकल्लाणाणि वा आयाणि वा कायाणि वा खोमियाणि वा दुगुल्लाणि वा पट्टाणि वा मलयाणि वा पशुम्नाणि वा अंसुयाणि वा चीणंऽसुयाणि वा देसरागाणि वा अमिलाणि वा गज्जफलाणि वा फालियाणि वा कोयवाणि वा कंबलगाणि वा पावराणिवा, अन्नयराणि वा तहप्पगाराइं वत्थाई महग्घगुल्लाई लाभे सन्ते नो पडिगाहिज्जा / (सू०-१४५) स भिक्षुर्यानि पुनर्महाधनमूल्यानि जानीयात्, तद्यथा-आजिनानिमूषकादिचर्मनिष्पन्नानि श्लक्ष्णानि-सूक्ष्माणि च तानि वर्णच्छव्यादिभिश्व कल्याणानि-शोभनानि वा सूक्ष्मकल्याणानि, 'आयाणि' त्ति क्वचिद्देशविशेषे अजाः सूक्ष्मरोम-वत्यो भवन्ति तत्पक्ष्मनिष्पन्नानि आजकानि भवन्ति, तथा क्वचिद्देशे इन्द्रतीलवर्णः कर्पासो भवति तेन निष्पन्नानि काय-कानि, क्षौमिकम् - सामान्यकासिकम्, दुकूलम् गौडविषय-विशिष्ट कासिकम्, पट्टसूत्रानिष्पन्नानि पट्टानिमलयानिमलयजसूत्रोत्पन्नानि पन्नुन्नं ति वल्कलतन्तु-निष्पन्नम् अंशुकचीनांशुकादीनि नानादेशेषु प्रसिद्धाभिधानानि, तानि च महार्घमूल्यानीति कृत्वा ऐहिकामुष्मिकापायभयाल्लाभे सतिन प्रतिगृह्णीयादिति। आचा० 2 श्रु०१० 5 अ० 130 / कल्पन्ते निर्ग्रन्थानां भिन्नानि वस्त्राणि --- कप्पइ निग्गंथाण वा निग्गंथीण वा भिन्नाइं वत्थाई धारि-त्तए वा परिहरित्तए वा / / 10 / / अस्य व्याख्या प्राग्वत्। आह किमेतेन सूत्रण प्रयोजनं पूर्वसूत्रो णैव गतार्थत्वात् ? उच्यतेअन्नो गडोय भणितो, उवधिविभणगाय आदिसुत्तेसु / सो पुण विभञ्जमाणे, उवरि स एगो गडो होति // 392|| अन्यकृतोऽयं जिनकल्पिकानामयं स्थविरजिनकल्पि-कानामयमार्यिकाणामित्येवमविशेषित एवोपधिविभाग आदि-सूत्रेषु अनन्तरोक्तेषु भणितः, स पुनरुपधिविभागो जिनकल्पि-कादिविभागो भज्यमानोऽ-- स्मिन् प्रस्तुते उपरिसूत्रो व्याकृतः स्फुटो भवति। अत इदं सूत्रभारभ्यते। तमेवोपधिविभागं प्रचिकटयिषुराहचोइससपण्णवीसो, ओहो व धुवग्गहो अणेगविधो। संथारपट्टमादी, उमयोपक्खम्मिणेयव्वो // 363|| इह जिनकल्पिकानामौधिक एवोपधिर्भवति नौपग्रहिकः, स्थविरकल्पिकानां तु द्विविधोऽपि भवति, तत्रौधोपिधर्द्विधा चतुर्दशविधः पञ्चविंशतिविधः, चतुर्दशविधः साधूनां, पञ्चविंशतिविधस्तु साध्वीनाम्, उपग्रहोपधिः पुनरनेकविधः। स च संस्तारपट्टादिके उभयपक्षेसाधुसाध्वीजनलक्षणे ज्ञातव्यः। तत्रा स्थविरकल्पिकानां चतुर्दशविध ओघोविधः प्रागनन्तर-सूत्रा एवोक्तः / बृ० 3 उ०। ('उवहि' शब्दे द्वितीयभागे 1068 पृष्ठे प्रथम प्रव्रजतो वस्त्रग्रहणं प्रतिपादितम्।) जुगुप्सापरीषहं प्रत्यधिकं वस्त्रं धरेत्तिहिं ठाणेहिं वत्थं धरेज्जा, तं जहा-हिरिवत्तियं दुगंछावत्तियं परीसहवत्तियं / (सू०-१७१) 'तिही त्यादि, ह्वीः लज्जा संयमो वा प्रत्ययो निमित्तं यस्य धारणस्य तत्तथा, जुगुप्साप्रवचनखिंसा विकृताङ्गदर्शनेनमाभूदित्येवंप्रत्ययोयत्रतत्तथा, एवंपरी