SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ रोहिणी 558- अभिधानराजेन्द्रः - भाग 6 रोहिणी रहस्सेसु य आपुच्छणिज्जं जाव वट्टावितं पमाणभूयं ठावेति, एवामेव समणाउसो ! जाव पंच महव्वया संवड्डिया भवंति से णं इह भवे चेव बहूणं समणाणं जाव वीतिवइस्सइ जहा व सा रोहिणिया। (सू०६३४) इदमपि सुगमम् , नवरम् 'मए' ति मयि गयंसि' त्ति गते ग्रामादौ एवम्च्युते-कुतोऽप्यनाचारात् स्वपदात् पतिते मृतेपरासुतां गते भझेवात्यादिना कुब्जखञ्जत्यकरणेनासमर्थीभूत 'लुग्गंसिय' त्ति रुझेजीर्णतां गते शटितेव्याधिविशेषाच्छीर्णतांगते पतिते-प्रासादादेर्मश्चकेवाग्लानभावात् विदेशस्थे-विदेशं गत्वा तत्रैव स्थिते विप्रोषितेस्वस्थानविनिर्गते देशान्तरगमन-प्रवृत्ते आधारः-आश्रयो भूरिव आलम्बनंवरत्रादिकमिव प्रतिबन्धः-प्रमार्जनिकाशलाकादीनां लतादवरक इव कुलगृह-पितृगृहं तद्वर्गो मातापित्रादिः, संरक्षति अनशनतः,सङ्गोपयति संवरणतः, संबर्द्धयति बहुत्वकरणतः, 'छोल्लेइ'त्ति निस्तुषीकरोति 'अणुगिलइ' त्ति भक्षयति, क्वचित्त्- 'फोल्लेइ' इत्येतदेव दृश्यते,तत्र च भक्षयतीत्यर्थः / पत्तिय' ति सञ्जातपत्राः 'वत्तिय त्ति ब्रीहीणां पत्राणि मध्यशलाकापरिवेष्टनेन नालरूपतया वृत्तानि भवन्ति तद्वृत्ततया जातवृत्तत्वाद्वर्तिताः शाखादीनां वा समतया वृत्तीभूताः सन्तो वर्त्तिता अभिधीयन्ते, पाठान्तरेण-'तइथा व त्ति सञ्जातत्वच इत्यर्थः, गर्भिता जातगर्भा डोडकिता इत्यर्थ, प्रसूताः कणिशानां पत्रगर्भभ्यो विनिर्गमात् , आगतगन्धाजातसुरभिगन्धाः आयातगन्धा वा दूर यायिगन्धा इत्यर्थः, क्षीरकिताः-सञ्जातक्षीरकाः वद्धफलाः क्षीरस्य फलतया बन्धनात् जातफला इत्यर्थः, पक्काःकाठिन्यमुपगताः,पर्यायागताः पर्याय-गता वा सर्वनिष्पन्नतांगता इत्यर्थः, सल्लइपत्तय' त्तिसल्लकी वृक्षविशेषस्तस्या इव पत्रकाणिदलानि कुतोऽपि साधात् सजातानि येषां ते तथेति, गमनिकैवेयं पाठान्तरेण-शल्य-किताः-शुष्कपत्रतया सञ्जातशलाकाः पत्रकिताः-सञ्जातकु-त्सितकाल्पपत्राः, 'हरियपव्यकंड' ति हरितानिहरितालवर्णानि नीलानि पर्वकाण्डानि नालानि-येषां ते तथा, जाताश्चाप्यभूवन, 'नवपजाणएहिं' ति नवं-प्रत्यग्रं पायनम-लोहकारेणातापितं कुट्टितं तीक्ष्णधारीकृतं पुनस्तापितानां जले निवोलनं येषां तानि तथा तैः, 'आसिएहिं ति दात्रैः 'अखंडाणं ति सकलानाम् अस्फुटितानाम्- असञ्जातराजीकानां छड छड इत्येवमनुकरणतः सूर्यादिना स्फुटाः-स्फुटीकृताः शोधिता इत्यर्थः, स्पृष्टा वा, पाठान्तरेणपूतावा ये ते तथा तेषां 'मागहए पत्थए' त्ति "दो असईओ पसइ, दो पसईओ उ सेइआ होइ। चउसेइओ उकुडओ, चउकुडओ पत्थओ नेओ।॥१॥" इति। अनेन प्रमाणेन मगधदेशव्यवहृतः प्रस्थो मागधप्रस्थः, उपलिम्पन्ति-घटकमुखस्य तत्पिधानकस्य च गोमयादिना रन्ध्रे भञ्जन्ति 'लिंपेंति' - घटमुखं तत्स्थगितं च छगणादिना पुनर्मसृणीकुर्वन्ति, लाञ्छितं रेखादिना, मुद्रितं मृन्मयमुद्रादानेन तत्कुर्वन्ति, मुरलो-मानविशेषः,खलकं धान्यमलनस्थण्डिलं, चतुष्प्रस्थम् आढकः-आढकानां षष्ट्या जघन्यः कुम्भः अशीत्या मध्यमः शतेनोत्कृष्ट इति, क्षारोष्टिकाम्भस्मपरिष्ठापिकाम् 'कचवरोज्झिकाम्- अवकरशोधिकाम् समुचिक्षकाम्' प्रातर्गृहाङ्गणे जलच्छटकदायिकाम् , पाठान्तरेण-'संपुच्छिय'त्ति तत्र सम्प्रोच्छिकाम्-पादादिलूषिकाम-सम्मार्जिककाम् -गृहस्यान्तवहिश्च बहुकारिका-वाहिकाम् पादोदकदायिकाम् -पादशोचदायिकाम् स्नानोदकदायिकाम् -प्रतीताम् , बाह्यकानि प्रेषणानि कर्माणि करोति या सा 'बाहिरपेसणगारिय' त्ति भणिया, कण्डयन्तिकाम् इति-अनुकम्पिता कण्डयन्तीतितन्दुलादीन् उदूखलादौ क्षादयन्तीति कण्डयन्तिका ताम् , एवं कुट्टयन्तिकां-तिलादीनांचूर्णनकारिकाम् पेषयन्तिकाम् -गोधूमादीनाम् घरट्टादिना पेषणकारिकाम् रुन्धयन्तिकाम्- यन्त्रके व्रीहिकोद्रवादीनाम् निस्तुषत्वकारिकाम् रन्धयन्तिकाम् -ओदनस्य पाचिकाम् परिवेषयन्तिकाम्- भोजनपरिवेषणकारिकाम् परिभाजयन्तिकाम्- पर्वदिने स्वजन-गृहेषु स्वण्डखाद्याथैः परिभाजनकारिकां, महानसे नियुक्ता महानसिकी तां स्थापयति, 'सगडीसागडं' ति शकट्यश्चगन्त्र्यः शकटानां समूहः शाकटं च शकटीशाकटं 'गड्डीओ गडिया य'त्ति उक्तं भवति, 'दलाह त्ति' दत्त-प्रयच्छतेत्यर्थः, 'जाणंति' येन 'ण' इत्यलङ्कारे, प्रतिनिर्यातयामि-समर्पयामीति। अस्य च ज्ञातस्यैवं विशेषेणोपनयनं निगदति। यथा"जह सेट्ठी तह गुरुणो, जह णाइजणो तहा समणसंघो। जह बहुया तह भव्वा, जह सालिकणा तह वयाई // 1 // जह सा उज्झियनामा, उज्झियसाली जहत्थमभिहाणा। पेसणगारित्तेणं, असंखदुक्खक्खणी जाया // 2 // तह भव्यो जो कोइ, संघसमक्खं गुरुविदिन्नाई। पडिवजिउं समुज्झइ, महव्व्याइं महामोहा // 3 // सो इह चेव भवम्मी, जणाण धिक्कारभायणं होइ। परलोए उ दुहत्तो, नाणाजोणीसु संचरइ॥४॥" उक्तं च-"धम्माओ भट्ट" वुत्तं," इहेवऽहम्मो" वुत्तं / "जह वा सा भोगवती, जहत्थनामोवभुत्तसालिकणा। पेसणविसेसकारि-त्तणेण पत्ता दुहं चेव॥ 5 // तह जो महव्वयाई, उवभुंजइ जीविय त्ति पालितो। आहाराइसु सत्तो, चत्तो सिवसाहणिच्छाए॥६॥ सो एत्थ जहिच्छाए, पावइ आहारमाइ लिंगि त्ति। विउसाण नाइपुञ्जो, परलोयम्मी दुही चेव // 7 // जह वा रक्खियबहुया, रक्खियसालीकरण जहत्थक्खा। परिजणमण्णा जाया, भोगसुहाइं च संपत्ता // 8 // तह जो जीवो सम्मं, पडिवजित्ता महव्वए पंच। पालेइ निरइयारे, पमायलेसं पि वजेतो // 6 // सो अप्पहिएक्करई, इह लोयम्मि वि विऊहिं पणयपओ। एगंतसुही जायइ, परम्मि मोक्खं पि पावे // 10 // जह रोहिणी उ सुण्हा, रावियसाली जहत्थमभिहाणा। वड्डित्ता सालिकणे, पत्ता सव्यस्स सामित्तं / / 11 // तह जो भव्वो पाविय, वयाइं पालेइ अप्पणा सम्म। अन्नेसि विभव्वाणं, देह अणेगेसिँहियहेउं // 12 // सो इह संघपहाणो, जुगप्पहाणे त्ति लहइ संसद्दे। अप्पपरेसिंकल्ला-णकारओ गोयमपहुव्व // 13 // तित्थस्स वुड्डिकारी, अक्खेवणओ कुतित्थिपाईणं /
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy