________________ मोहणिज्जहाण 464 - अभिधानराजेन्द्रः - भाग 6 मोहणिजट्ठाण शा गणधरादयो भवन्ति, नवरं प्रावनिकादिपुरुषं हत्वा महामोहं प्रकरोतीति सप्तदशम्॥१७॥ उच्चट्ठियं पडिविरयं,संजतं सुसमाहियं / विउकम्पधम्माउ भंसेइ, महामोहं पकुव्वइ / / 21 / / उपस्थितं प्रव्रज्यायां प्रव्रजिषुमित्यर्थः, प्रतिविरतं-सावद्ययोगेभ्यो निवृत्तं प्रवृजितमित्यर्थः, संयतं साधुमुपस्थितं तपांसि कृतवन्तं शोभनं वा तपः श्रितमाश्रितं क्वचित्-'जे भिक्खू जगजीवणं' ति पाठः / तत्रजगन्ति-जङ्गमानि अहिंसकत्वेन जीवयतीति जगजीवनस्तं विविधैः प्रकारैरुपक्रम्याऽऽक्रम्य बलादित्यर्थः / धर्माद् व्रतचारित्रलक्षणाद् मुंशयतियः स महामोहं प्रकरोतीति अष्टादशम्॥१८|| तहेवाणतणाणीणं, जिणाणं वरदंसिणं। तेसिं अवण्णवं बाले, महामोहं पकुव्वइ॥२२॥ यथैव प्राकृतं मोहनीयस्थानं तथैवेदमपि अनन्तज्ञानिनां ज्ञानस्यानन्तविषयत्वेन अक्षयत्वेन वा जिनानामर्हतां वरदर्शिनां क्षायिकदर्शनत्वात् तेषां ये ज्ञानाद्यनेकातिशयसंपदुपेतत्वेन भुवन-त्रये प्रसिद्धाः 'अवण्णवं' अवर्णवादो वक्तव्यत्वेन यस्यास्ति सोऽवर्णवान् यथा-नास्ति कश्चित् सर्वज्ञो शेयस्यानन्तत्वात्, तत्रोच्यते-अदूषणं चैतदुत्पत्तिसमय एव केवलज्ञानं युगपल्लोकालोकौ पश्यदुपजायते यथा अपवरकान्तर्वर्तिदीपकलिकाऽपवरकमध्यप्रकाशस्वरूपा इत्यभ्युपगमादिति, बालोऽज्ञानो महामोहं प्रकरोतीति एकोनविंशतितमम् / / 16 / / णेयाइअस्स मग्गस्स, दुढे ऽवयरई बहु। तं तिप्पयंतो भावेण, महामोहं पकुव्वइ / / 23 / / नैयायिकस्य-न्यायमनतिक्रान्तस्य मार्गस्य-सम्यग्दर्शनादेर्मोक्षपथस्य दुष्टो द्विष्टो वा अपकरोतीति-अपकारं करोतीति बहु-अत्यर्थं पाठान्तरेणापहरति बहुजनं विपरिणमयतीति भावः, तंमार्ग 'तिप्पयंतो' त्ति निन्दया द्वेषेण वा वासयति परम्, अपरम् च यः स महामोह प्रकरोतीति विंशतितमम्॥२०॥ आयरियउवज्झाएहिं, सुत्तं विणयं च गाहिए। ते चेव खिंसई बाले, महामोहं पकुवइ // 24 // आचार्योपाध्यायैयः श्रुतं स्वाध्यायं विनयं च ग्राहितः-शिक्षितः तानेव खिंसति-निन्दति अल्पश्रुता एते इत्यादि ज्ञानतः ज्ञानवन्तः अन्यतीर्थिकसंसर्गकारिण इत्यादिदर्शनतः, मन्दधर्माणः पार्श्वस्थादिस्थानवर्तिनः तैः सहालापनाभिवादनादिकरणाविदः इत्यादिचारित्रतः, यः स एवंभूतो बालो महामोहं प्रकरोतीत्येक-विंशतितमम्।।२१।। आयरियउवज्झायाणं,सम्मं नो परितप्पइ। अप्पडिपूयइ थद्धे, महामोहं पकुवइ / / 25 / / आचार्यादीन् श्रुतदानग्लानावस्थाप्रतिचरणादिभिस्तर्पितवतः उपकृतवतः सम्यङ् न प्रतितर्पति विनयाहारोपध्यादिभिर्न प्रत्युपकरोति / तथा-अप्रतिपूजको न पूजाकारी तथा स्तब्धः मानवान् स महामोहं प्रकरोतीति द्वाविंशतितमम् / / 22 / / अबहुस्सुए विजे केइ, सुएणं पविकत्थइ। सज्झायववायं वयइ, महामोहं पकुय्वइ॥२६॥ अबहुश्रुतश्च यः कश्चिच्छुतेन-ज्ञानेन प्रविकथ्यते-स्वश्लाघाम् करोति, यथा-गण्यहं वाचकोऽहं केनचित्पृष्टं यथा भवान, स बहुश्रुतो योऽस्माभिः श्रुतः, तदा स एवं वदति सोऽहमिति सद्भाववादं भवति / तत्सदृशत्वम् आत्मनः ख्यापयतियः स महामोहं प्रकरोति। श्रुतवानहमनुयोगधरोऽहमित्येवम्, अथवा-कस्मिश्चित्त्वमनुयोगाचार्यो वाचको वेति पृच्छति प्रतिभणति, आत्मनः स्वाध्यायवादं वदति, विशुद्धपाठकोऽहमित्यादिकं यः स महामोहं श्रुताला-महेतुं प्रकरोतीति त्रयोविंशतितमम्॥२३॥ अतवस्सिय जे केइ, तवेणं पविकत्थई। सव्वलोए परे तेणे, महामोहं पकुव्वइ // 27 // सुगमम्। पूर्वाध कण्ठ्यम्। नवरं सर्वलोकात्-सर्वजनात् सकाशात्परःप्रकृष्टः स्तेनः-चौरी भावचौरत्वात् स महामोहं तपस्विताऽलाभहेतुं प्रकरोतीति चतुर्विंशतितमम्॥२४॥ साहारणऽट्ठा जे केइ, गिलाणम्मि उवहिते। पभूण कुव्वती किचं, मज्झऽप्पेस ण कुव्वति // 28|| सढे णियट्टिपण्णाणे, कलुसाउलचेयसा। अप्पणो य अबोहीए, महामोहं पकुव्वइ // 26 // साधारणार्थमुपकारार्थ यः कश्चिदाचार्यादिग्लाने-रोगवति उपस्थितेप्रत्यासन्नीभूते प्रभुः-समर्थ उपदेशेनौषधादिदानेनच स्वतोऽन्यतश्चोपकारं न करोति कृतमुपेक्षत इत्यर्थः केनाभिप्रायेणेत्यर्थः ममाप्येषन करोति किञ्चनापि कृत्यम् समर्थोऽपि सन्निति द्वेषेणासमर्थोऽयं वा बालत्वादिना किंकृतेनास्य पुनरुपकर्तुमशक्तत्वादिति लोभेने तिशठःकैतवयुक्तः शक्तिलोपनात्, निकृतिर्माया तद्विषये प्रज्ञानं यस्य स तथा। ग्लानः प्रतिजागरणीयो मा भवत्विति ग्लानवेषमहं करोमिति विकल्प. वानित्यर्थः, अत एव कलुषाकुलचेताः आत्मनश्चाबोधिको भवान्तराप्राप्तव्यजिनधर्मकोग्लाना-प्रतिजागरणेनाज्ञाविराधनात्। चशब्दात्परेषां वा बोधिकः अविद्यमानाबोधिरस्मादिति व्युत्पादनात् / यदि तदीयं ग्लानाप्रतिचरणमुपलभ्य जिनधर्मपराङ्मुखो भवति तेषामबोधिस्तत्कुत इति स एवंभूतो महामोहं प्रकरोतीति पञ्चविंशतितमम् // 25 // जे कहाहिगरणाई, संपउंजे पुणो पुणो। सव्वतित्थाण भेयाए, महामोहं पकुव्वइ // 30 // यः कथा-वाक्यप्रबन्धशास्त्रमित्यर्थः, तद्रूपाण्यधिकरणानि कथाधिकरणानि कौटिल्यशास्त्रादीनि प्राण्युपमर्दनप्रवर्तकत्वेन तेषामात्मनो दुर्गतावधिकरणात्, कथा वा क्षेत्राणि कृषि-गानरूपतेत्यादिकया अधिकरणानि तथाविधप्रवृत्तिरूपाणि / अथवा-कथा-राजकथादिका अधिकरणानि च यन्त्रादीनि कलहा वा कथाधिकरणानितानि संयुक्तेपुनः पुनः, एवं सर्वतीर्थानां भेदाय संसारतरणकरणात् तीर्थानि ज्ञानादीनि तेर्षा सर्वथा नाशाय प्रवर्तमानः स महामोहं प्रकरोतीति षड्विंशतितमम्॥२६॥ जो य अहम्मिए जोए, सपउंजे पुणो पुणो। सहाहेउं सव्वहेठ, महामोहं पकुम्वइ // 31 // व्यक्तम्, नवरम्-अधार्मिको योगनिमित्तवशीकरणादिप्रयोगः। किमर्थ श्लाघाहेतोः सर्वहेतोर्मित्रनैमित्त इत्यर्थः, इति सप्तविंशम् // 27 //