________________ मोक्ख 435 - अभिधानराजेन्द्रः - भाग 6 मोक्ख बलानश्यत्यविद्याऽस्या, उत्तरेषामियं पुनः। प्रसुप्ततनुविच्छिन्नो-दाराणां क्षेत्रमिष्यते।।१३।। (बलादिति) अस्या-विवेकख्यातेःबलादविद्या नश्यति / इयम्अविद्या पुनरुत्तरेषाम्-अस्मितादीनां क्लेशानां प्रसुप्ततनुविच्छिनोदाराणां क्षेत्रमिष्यते। तदुक्तम्-''अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणामिति" (2-4) // 13 // स्वकार्य नारभन्ते ये, चित्तभूमौ स्थिता अपि। विना प्रबोधकबलं, ते प्रसुप्ताः शिशोरिव।।१४|| (स्वकार्यमिति) ये-क्लेशाः चित्तभूमौ स्थिता अपि स्वकार्य नारभन्ते, विना प्रबोधकस्य-उद्रोधकस्य बलम्- उद्रेकम; ते-क्लेशाः प्रसुप्ताः शिशोरिव-बालकस्येव // 14 // भावनात्प्रतिपक्षस्य, शिथिलीकृतशक्तयः। तनवोऽतिबलापेक्षा, योगाभ्यासवतो यथा / / 15 / / (भावनादिति) भावनाद्-अभ्यासात् प्रतिपक्षस्य--स्वविरोधपरिणामलक्षणस्य शिथिलीकृता कार्यसंपादन प्रति शक्तिर्येषां ते तथा तनवो-वासनावरोधतया चेतस्यवस्थिताः, न तु बालस्येवानवरुद्धवासनात्मानः। अतिबलापेक्षाः- स्वकीर्यारम्भे प्रभूतसामग्रीसापेक्षाः, नतूद्रोधकमात्रापेक्षाः योगाभ्यासवतो यथा-रागादयः क्लेशाः / / 15 / / अन्येनोचैर्बलवता--ऽभिभूतस्वीयशक्तयः। तिष्ठन्तो हन्त विच्छिन्ना, रागो द्वेषोदये यथा॥१६|| (अन्येनेति) अन्येन-स्वातिरिक्तेन उचैर्बलवता-अतिशयित-बलेन क्लेशेन अभिभूतस्वीयशक्तयस्तिष्ठन्तो हन्त विच्छिन्नाः क्लेशा उच्यन्ते; यथा-रागो द्वेषोदये / त हि रागद्वेषयोः परस्पर विरुद्धयोर्युगपत्संभवोऽस्तीति // 16 // सर्वेषां सन्निधिं प्राप्ता, उदाराः सहकारिणाम्। निर्वर्तयन्तः स्वं कार्य, यथा व्युत्थानवर्तिनः / / 17 / / (सर्वेषामिति) सर्वेषां सहाकारिणां सन्निधिम्-सन्निकर्ष प्राप्ताः स्व कार्य निर्वर्तयन्त उदारा उच्यन्ते; यथा-व्युत्थानवर्तिनो योग-प्रतिपन्थिदशावस्थिताः // 17 // अविद्या चास्मिता चैव, रागद्वेषौ तथापरौ। पञ्चमाऽभिनिवेशश्च, क्लेशा एते प्रकीर्तिताः॥१८॥ (अविद्या चेति) क्लेशानां विभागोऽयम् / तदुक्तम्-"अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः" इति (2-3) / / 18|| विपर्यासात्मिका विद्या, ऽस्मिता दृग्दर्शनकता। रागस्तृष्णा सुखोपाये, द्वेषो दुःखाङ्गनिन्दनम्।।१६।। (विपर्यासात्मिके ति) विपर्यासः-अतरिंमस्तद्ग्रहस्तदात्मिका अविद्या; यथा-अनित्येषु घटादिषु नित्यत्वस्य, अशुचिषु कायादिषु शुचित्वस्य,दुःखेषु विषयेषु सुखरूपस्य, अनात्मनि च शरीरादावात्मत्वस्य अभिमानः। तदुक्तम्-"अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्येति' (2-5) / दृग्दर्शनयोः-पुरुषरजस्तमोऽ१-आख्यातिसंज्ञावाचके ख्यातिशब्दोऽपि। नभिभूतसात्विक परिणामयोःभोक्त-भोग्यत्वेनावस्थितयोरेकता अस्मिता। तदुक्तम्-'दृग्दर्शनशक्त्योरेकात्म-तैवास्मिता" (2-6) / सुखोपाये--सुखसाधने तृष्णा सुखज्ञस्य सुखानुस्मृतिपूर्वो लोभपरिणामो रागः / तदुक्तम्- "सुखानुशयी रागः" इति (2-7) दुःखाङ्गानाम्दुःखकारणानाम् 'निन्दन दुःखाभिज्ञस्य तदनुस्मृति पूर्वकं विगर्हणं द्वेषः / यत उक्तम्-"दुःखानुशयी द्वेषः" इति (2-8) ||16|| (अत्रत्यो विंशतितमः श्लोकः अभिणिवेस' शब्दे प्रथमभागे 715 पृष्ठे गतः) एस्वः कर्माशयो दृष्टा-दृष्टजन्मानुभूतिभाक् / तद्विपाकश्च जात्यायु-भॊगाख्यः संप्रवर्तते // 21 // (एभ्य इति) एभ्यः-उक्तेभ्योऽविद्यादिभ्यः क्लेशेभ्यः, कर्माशयो भवति / दृष्टादृष्टजन्मनोरनुभूतिं भजति यः स तथा, तद्विपाकःकर्मविपाकश्च जात्यायुभॊगाख्यः संप्रवर्तते निरूपित-तत्त्वमेतत्॥२१॥ परिणामाच तापाच,संस्काराद् द्विविधोऽप्ययम्। गुणवृत्तिविरोधाच, हन्त दुःखमयः स्मृतः॥२२॥ (परिणामाचेति) अयम्-कर्मविपाको दुःखालादफलत्वेन द्विविधाऽपि 'तेह्लादपरितापफला' (2-14) (पुण्यापुण्य-हेतुत्वात) इत्यत्र तच्छब्दपरामृष्टानां जात्यायुभॊगानां द्वैविध्यश्रव-णात् / परिमामाच-यथोत्तरं गाह्माभिवृद्धेस्तदप्राप्तिकृतदुःखापरिहारलक्षणाद् दुःखान्तरजननलक्षणाचातापाच-उपभुज्यमानेषु-सुखसाधनेषु सुखानुभवकालेऽपि सदावस्थिततत्प्रतिपन्थि-द्वेषलक्षणात्। संस्काराच–अभिमतानभिमतविषयसन्निधाने सुखदुःखसंविदोरुपजायमानयोः स्वक्षेत्रेतथाविधसंस्कारतथाविधानुभवपरंपरया सस्कारानुच्छेद्रलक्षणात् / गुणवृत्तिविरोधाचगुणानां सत्त्वरजस्तमसां वृत्तीनाम्-सुखदुःखमोहरूपाणां परस्पराभिभाव्याभिभावकत्वेन विरुद्धानांजायमानानां सर्वत्रैव दुःखानुवेधाचेत्यर्थः / हन्त दुःखमयो-दुःखैकस्वभावः स्मृतः / तदुक्तम्"परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच दुःखमेव सर्वं विवेकिनः" इति (2-15) // 22 // इत्थं दृग्दृश्ययोगात्माऽ-विद्यको भवविप्लवः। नाशान्नश्यत्यविद्यायाः, इति पातञ्जला जगुः॥२३॥ (इत्थमिति) इत्थं-दुःखरूपो दृग्दृश्ययोः-पुरुषबुद्धितत्त्वयोः योगोविवेकाख्यातिपूर्वकः संयोग आत्माकारणं यस्य स तथा। अविद्यक:अविद्यारचितो भवविप्लव:-संसारप्रपञ्चोऽविद्याया नाशान्नश्यति / अविद्यानाशात्स्वकार्यदृगदृश्यसंयोगनाशे तत्कार्यभवप्रपञ्चनाशोपपत्तेरिति पातञ्जला जगुः-भणितवन्तः / / 23 / / एतद्दूषयतिनैतत्साध्वपुमर्थत्वात्, पुंसः कैवल्यसंस्थितैः। क्लेशाभावेन संयोगा-जन्मोच्छेदो हि गीयते // 25|| (नैतदिति) न एतत्-पातञ्जलमतंसाधुन्याय्यम्पुंसः कैवल्य-संस्थितेः सदातनत्वेनापुमर्थत्वात्-पुरुषप्रयत्नासाध्यत्वात्, हि-यतः, क्लेशाभावेन संयोगस्याविद्यकस्य स्वयमेव निवृत्तस्याजन्मानुत्पाद उच्छेदो गीयते / तदेव च पुरुषस्य कैवल्यं व्यपदिश्यत इति न पुनर्मूर्तद्रव्यवत्संयोगपरित्यागोऽस्य युज्यते; कूटस्थत्वहानिप्रसङ्गात् इति हि परसिद्धान्तः। तदुक्तम्-"तदभावात्संयोगाभावो हानमिति" (2-25) // 24 //