________________ वीर १३६७-अभिधानराजेन्द्रः - भाग 6 वीर या इवीए महया जुईए महया बलेणं महया वाहणेणं महया समुदएणं महया वरतुडियजमगसमगपवाइएणं संखपणवपड हभे रिझल्लरिखरमुहिहुडुक्कदुंदुहिनिग्घोसनाइयरवेणं कुंडपुरं नगरं मझं मज्झेणं निग्गच्छइ निग्गच्छित्ता जेणेव नायसंडवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ / / 11 / / तेणेव उवागच्छित्ता, असोगवरपायवस्स अहे सीयं ठावेइ, ठावेत्ता, सीयाओ पचोरुहइ, पच्चोरुहित्ता सयमेव आभरणमल्लालंकारं ओमुअइ, ओमुइत्ता, सयमेव पंचमुट्ठियं लोअं करेइ, करित्ता छटेणं भत्तेणं अयाणएणं हत्थुत्तराहिं नक्खत्तेणं चंदेणं जोगमुवागएणं एगं देवदूसमादाय एगे अबीए मुंडे भवित्ता अगाराओ अणगारिअंपव्वइए।११६|| 'तेण कालेणं' तस्मिन् काले 'तेणं संमएण' तस्मिन् समये 'समणे भगवं महावीरे' श्रमणो भगवान् महावीरः 'जे सेहेमंताणं' योऽसौ शीतकालस्य 'पढमे मासे पढमे पक्खे' प्रथमो मासः प्रथमः पक्षः 'मग्गसिरबहुले' मार्गशीर्षमासस्य कृष्णपक्षः 'तस्सणं मग्गसिरबहुलस्स' तस्स मार्गशीर्षबहुलस्य दसमीपक्खेणं' दशमीदिवसे पाईणगामिणीए छायाए' पूर्वदिग्गामिन्या छायायां 'पोरिसीए अभिनिविट्ठाए' पौरुष्यां पाश्चात्यपौरुष्यामभिनिवृत्तायां जातायां 'पमाणपत्ताए' प्रमाणप्राप्तायां, न तुन्यूनाधिकायां 'सुटवएणं दिवसे' सुव्रताख्ये दिवसे विजएणं मुहुत्तेण' विजयाख्ये मुहूर्ते 'चंदप्पभाए सिविआए' चन्द्रप्रभायां पूर्वोक्तायां शिबिकायां कृतषष्ठतथाः विशुद्ध्यमानलेश्याकः पूर्वाभिमुखः सिंहासने निषीदति, शिरिकारूढस्य च प्रभोदक्षिणतः कुलमहत्तरिका हंसलक्षण पटशाटकमादार, वामपाश्र्ये च प्रभोरम्बधात्री दीक्षोपकरणमादाय पृष्ठ चैका वरतरुणी स्फारशृङ्गारा धवलच्छत्रहस्ता, ईशानकोणे चैको पूर्णकलशहस्ता, अग्निकोणे चैका मणिमयतालवृन्तहस्ता भद्रासने निषीदति; ततः श्रीनन्दिनृपादिष्टाः पुरुषाःयावत् शिबिकामुत्पाटयन्ति, तावत् शक्रो दाक्षिणात्यामुपनी बाहाम्. ईशानेन्द्र औत्तराहामुपरितनी बाहा, चमरेन्द्रो दाक्षिणात्यामधस्तनी बाहा, बलीन्द्र औत्तराहाम् अधस्तनीं बाहां, शेषाश्च भवनपतिव्यन्तरज्योतिष्कवैमानिकेन्द्राश्वश्चलकुण्डलाद्याभरणकिरणरमणीयाः पञ्चवर्णपुष्पवृष्टिं कुर्वन्तो, दुन्दुभीस्ताडयन्तो यथार्ह शिबि-कामुत्पाटयन्ति। ततः शक्रेशानौ ता बाहां त्यक्त्वा भगवतश्चामराणि वीजयतः, तदा च भगवति शिबिकारूढे प्रस्थिते सति शरदि पद्मसर इव, पुष्पितम् अतसीवनमिव, कर्णिकावनमिय, चम्पकवनमिव, तिलकवनमिव, रमणीयं गगनतलं सुरवरैरभूत, किञ्च-निरन्तर वाद्यमानभम्भाभेरीमृदङ्ग दुन्दुभिशखाद्यनेकवाद्यध्वनिर्गगनतले भूतले च प्रससार। तन्नादेन च नगरवासिन्यस्त्यतस्वस्वकार्या नार्यः समागच्छन्त्यो विविधचेष्टाभिर्जनान् विस्माययन्ति स्म। (कल्प०) (इति'कोउयदंसण' शब्दे तृतीयभागे 670 पृष्ठे गतम्।) इत्थं नागरनागरीनिरीक्ष्यमाणविभवप्रकर्षस्य भगवतः पुरतः प्रथमतो रत्नमयान्यष्टौ मङ्गलानि क्रमेण प्रस्थितानि, तद्यथा-स्वस्तिकः 1 श्रीवत्सो 2 नन्द्यावर्तो 3 वर्द्धमानकं 4 भद्रासनं 5 कलशो 6 मत्स्ययुग्म 7 दर्पणश्च 8 / / ततः क्रमेण पूर्णकलशभृङ्गारचामराणि, ततो महती वैजयन्ती, ततश्छत्रं, ततो मणिस्वर्णमयं सपादपीढं, सिंहासनं, ततोऽष्टशतमारोहरहितानां वरकुञ्जरतुरगाणा. ततस्तावन्तो घण्टापताकाभिरामाः शस्त्रपूर्णा रथाः, ततस्तावन्तो वरपुरुषाः ततः क्रमेण हय 1 गज 2 रथ 3 पदात्यनीकानि 4 ततो लघुपताकासहस्रपरिमण्डितः सहसयोजनोचो महेन्द्रध्वजः, ततः खड्गग्राहाः, कुन्तग्राहाः, पीठफलकग्राहाः, ततो हासकारकाः, नर्तनकारकाः कान्दर्पिका जयजयशब्द प्रयुञ्जानास्तदनन्तरं बहव उग्रा भोगा राजन्याः क्षत्रियास्तलयरा माइम्बिकाः कौटुम्बिकाः श्रेष्ठिनः, सार्थवाहाः, देवा देव्यश्च स्वामिनः पुरतः प्रस्थिताः, तदनन्तरं सदेवमणुआसुराए देवमनुजाऽसुरसहितया 'परिसाए' स्वर्गमर्त्यपातालवासिन्या पर्षदा 'समणुगम्ममाण' सम्यम् अनुगम्यमानं 'मग्गे' अग्रतः 'संखियं शंखिकाः शंखवादकाः 'चक्किय' चाक्रि-काश्चक्र प्रहरणधारिणः 'लंगलिय' लाङ्गलिका गलावलम्बितसुवर्णादिमयलाङ्गलाकारधारिणो भटविशेषाः। 'मुहमंगलिय' मुखे प्रियवक्तारश्चाटुकारिण इत्यर्थः / 'वद्धमाण' वर्द्धमानाः स्कन्धारोपितपुरुषाः पुरुषाः 'पूसमाण' पुष्यमाणा मागधाः 'घंटियगणेहिं' घण्ट्या चरन्तीतिघाण्टिकाः राउलिया' इति लोके प्रसिद्धाः, एतेषां गणैः परिवृत च भगवन्तं प्रक्रमात् कुलमहत्तरादयः स्वजनाः 'ताहिं इठ्ठाहिं० जाव वग्गूहि' ताभिरिष्टादिविशेषणवि शिष्टाभिर्वाग्भिः 'अभिनंदमाणा य अभिथुप्वमाणाय' अभिनन्दन्तः अभिष्टुवन्तश्च एवं वयासी' एवमवादिषुः 1 // 113 / / जय जय नंदा' जय जयवान् भव, हे समृद्धिमन् ! 'जय जय भद्दा भद्द ते' जय जयवान् भव, हे भद्रा भद्रकारक! ते-तुभ्यं भद्रमस्तु। किश्च- 'अभग्गेहिं नाणदंसणचरित्तेहिं अभग्नैर्निरतिचारैनिदर्शनचारित्रैः 'अजियाई जिणाहि इंदियाई अजितानि इन्द्रियाणि जय-वशीकुरु 'जियं च पालेहि समणधम्म' जितं च स्ववशीकृतं पालय श्रमणधर्म 'जियविग्यो वि अवसाहि तं देवसिद्धिमज्झे' जितविनोऽपि च हे देव ! प्रभो! त्वं वस, कुत्र सिद्धिमध्ये, अत्र सिद्धिशब्देन श्रमणधर्मस्य वशीकारस्तस्य मध्य लक्षणया प्रकर्षस्तत्र त्वं निरन्तरायं तिष्ठेत्यर्थः / निहणाहि रागदोसमल्ले' रागद्वेषमल्लौ निजहि-निगृहाण तयोर्निग्रहं कुरु इत्यर्थः, केन 'तवेण' तपसा, बाह्याभ्यन्तरेण, तथा 'धिइधणियबद्धकच्छे' धृतो संतोषेधैर्ये वा अत्यन्तं बद्धकक्षः सन् 'मद्दाहि अट्ठकम्मसत्तू' अष्ट कर्मशत्रून् मर्दय, पर केनेत्याह- 'झाणेण उत्तमेणं सुक्केणं ध्यानेन उत्तमेन शुक्लेनेत्यर्थः, तथा। अप्पमत्तो हराहि आराहणपडागंच वीर तेलुक्क रंगमज्झे हे वीर ! अप्रमत्तः सन् त्रैलोक्यम् एव यो रङ्गो मल्लयुद्धमण्डपस्तस्य मध्ये आराधनपताकामाहरगृहाण / यथा-कश्चिन्मल्लः प्रतिमल्लं विजित्यं जयपताकां गृह्णाति, तथा त्वं कर्मशत्रून् विजित्य आराधनपताकां गृहाण इति भावः 'पावय वितिमिरमणुत्तर केवलवरनाणं प्राप्नुहि च वितिमिर ति