________________ वीर 1362 - अभिधानराजेन्द्रः - भाग 6 वीर णि करेंति, छठे दिवसे धम्मजागरियं जागरेंति, एकारसमे दिवसे विइकते निव्वत्तिए असहजम्मकम्मकरणे, संपत्ते वारसाहे दिवसे, विउलं असणं पाणं खाइमं साइमं उवक्खडाविति, उवक्खडावित्ता मित्तनाइनियगसयण-संबंधिपरिजणं नायए खत्तिए अ आमंतेइ आमंतित्ता, तओ पच्छा ण्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्पावेसाई मंगल्लाइं पवराई वत्थाई परिहिया अप्पमहग्घाभरणाऽलंकियसरीरा भोअणवेलाए भोअणमंडवंसि सुहासणवरगया तेणं मित्तनाइनियगसंबंधिपरियणेणं नाय-एहिं खत्तिएहिं सद्धिं तं विउलं असणं पाणं खाइमं साइमं आसाएमाणा विसाएमाणा परिभुजेमाणा परिभाएमाणा एवं वा विहरंति॥१०॥ 'तए णं समणस्स भगवओ महावीरस्स' ततः श्रमणस्य भगवतो महावीरस्य 'अम्मापियरोपढमे दिवसे' मातापितरौ प्रथमे दिवसे 'ठिइवडियं करेंति' स्थितिपतितां कुरुतः,'तइए दिवसे चंदसूरदंसणियं करेंति' तृतीये दिवसे चन्द्रसूर्यदर्शनि-कामुत्सवविशेष कुरुतः / (कल्प०) (तद्विधिश्च 'चंददरिसणिया' शब्दे तृतीयभागे 1071 पृष्ठे दर्शिता।) (चन्द्रदेवस्वरूपम् 'चंदमंडल' शब्दे तस्मिन्नेव भागे 1085 पृष्ठेदर्शितम्।) (चन्द्रविमानस्वरूपम् 'चंदविमाण' शब्दे तस्मिन्नेव भागे 1065 पृष्ठे दर्शितम्।) एवं सूर्यस्यापि दर्शनं, नवरं मूर्तिः स्वर्णमयी ताम्रमयी वा मन्त्रश्च-"ओँ अर्ह सूर्योऽसि, तमोऽपहोऽसि सहस्रकिरणोऽसिजगच्चक्षुरसि प्रसीद।" आशीर्वादश्चायम्- 'सर्वसुरासुरवन्धः, कारयिताऽपूर्वसर्वकार्याणाम् / भूयात्रि-जगचक्षुर्मङ्गलदस्ते सपुत्रायाः / / 1 / / " इति सूर्यदर्शनविधिः। साम्प्रतंच तत्स्थाने शिशोर्दर्पणोदय॑ते-'छट्टेदिवसे धम्मजागरियं जागरेंति' ततः षष्ठे दिवसे 'धम्मजागरियं' तिधर्मेण कुलधर्मेण षष्ठ्या रात्री जागरणं धर्मजागरिकां जागृतः, षष्ठे दिने जागरणमहोत्सवं कुरुत इति भावः, एवं च 'एक्कारसमे दिवसे विइक्वंते' एकादशे दिवसे व्यतिक्रान्ते सति 'निव्वत्तिए असुइ जम्मकम्मकरणे' अशुचीनां जन्मकर्मणां नालच्छेदादीनां करणे निर्वर्तिते-समापिते सति 'संपत्ते बारसाहे दिवसे' द्वादशे च दिवसे सम्प्राप्ते सति भगवन्मातापितरौ 'विउलं असणं पाणं खाइमं साइमं उवक्खडाविति' विपुलं बहुअशनंपानं खादिम स्वादिमंच उपस्कारयतः प्रगुणीकारयतः 'उवक्खडावित्ता' उपस्कारयित्वा च 'मित्तनाइनियगसयणं संबधिपरिजणं' मित्राणि-सुहृदादयः ज्ञातयः- सजातयः, निजकाः- स्वकीयाः पुत्रादयः, स्वजनाः-- पितृव्यादयः, सम्बन्धिनः- पुत्रपुत्रीणां श्वशुरादयः, परिजनोदासीदासादिः 'नायए खत्तिए य' ज्ञातक्षत्रियाः श्रीऋषभदेवसजातीयास्तान 'आमतेइत्ता' आमन्त्रयति, आमन्त्रय च 'तओ पच्छा ण्हाया कयबलिकम्मा' ततः पश्चात् स्नातौ, कृतं बलिकर्म पूजा याभ्यां, तथा तौ 'कयकोउअमंगलपायच्छित्ता' कृतानि कौतुकमङ्गलानि, तान्येव प्रायश्चित्तानि याभ्यां तथा तौ 'सुद्धप्पावेसाई मंगल्लाइं पवराई वत्थाई | परिहिया' शुद्धानि-श्वेतानि सभाप्रवेशयोग्यानि, माङ्गल्यानिउत्सवसूचकानि, प्रवराणि श्रेष्ठानि वस्त्राणि परिहितौ 'अप्पमहग्घाभरणालंकियसरीरा' अल्पानि-स्तोकानि महा_णि बहुमूल्यानि यानि आभरणानि, तैः अलङ्कृतं शोभितं शरीरं याभ्यां तथा तौ, एवंविधौ भगवन्मातापितरौ 'भोअणवेलाए भोअणमंडवंसि' भोजनवेलायां भोजनमण्डपे 'सुहासणवरगया' सुखासनवराणि गतौ सुखासीनौ इत्यर्थः 'तेणं मित्तनाइनियग संबंधिपरियणेणं' तेन मित्रज्ञातिनिजकस्वजनसम्बन्धिपरिजनेन 'नारहिं खत्तिएहिं सद्धिं ज्ञातजातीयैः क्षत्रियैः सार्द्ध 'तं विउलं असणं पाणं खाइमं साइमं तं विपुलमशनं पानं खादिम स्वादिम च 'आसाएमाणा' आ-ईषत् स्वादयन्तौ बहु त्यजन्तौ, इक्ष्वादेरिव 'विसाएमाणा' विशेषेण स्वादयन्तौ, अल्पं त्यजन्तौ, खजूरादेरिव 'परिभुजे माणा' सर्वमपि भुजानौ अल्पमपि अत्यजन्तौ भोज्यादेवि 'परिभाएमाणा' परिभाजयन्तौ परस्परं यच्छन्तौ एवं वा विहरंति' अनेन प्रकारेण भुञ्जानौ तिष्ठत इति भावः // 104 / / जिमिअभुत्तुत्तरागया वि अ णं समाणा आयंता चोक्खा परमसुइमूआ तं मित्तनाइनियगसयणसंबंधिपरियणं नायए खत्तिए विउलेणं पुप्फवत्थगंधमल्लालंकारेणं सकारेंति संमाणेति सकारिता सम्माणित्ता तस्सेव मित्तमाइनियगसयणसंबंधिपरियणस्स नायाणंखत्तिआणयपुरओ एवं वयासी॥१०॥ पुटिव पिणं देवाणुप्पिया! अम्हें एयंसि दारगंसि गम्भं वळतंसि समाणंसि इमे एयारूवे अन्भत्थिए० जाव समुप्पजित्था-जप्पमिदं च णं अम्हं एस दारए कुञ्छिसि गम्भत्ताए वक्रते तप्पमिदं च णं अम्हे हिरनेणं वड्डामो, सुवनेणं वडामो धणेणं धनेणं रजेणं० जाव सावइजेणं पीइसकारेणं अईव अईव अभिवडामो, सामंतरायाणो वसमागया य / / 106|| तं जया णं अम्हं एस दारए जाए भविस्सइ, तयाणं अम्हे एयस्स दारगस्स इमं एयाणुरूवं गुण्णं गुणनिप्फन्नं नामधिलं करिस्सामो "वद्धमाणु'" त्ति ता अम्हं अज्जमणोरहसंपत्ती जाया, तं होउणं अम्हं कुमारे वद्धमाणे नामेणं 11107 / / समणे भगवं महावीरे कासवगुत्ते णं, तस्सणं तओनामधिमा एवमाहिजंति,तं जहाअम्मापिउसंतिए बद्धमाणे, सहसमुइआए समणे-अयले भयभेरवाणं परीसहोवसग्गाणं-खंतिखमेंपडिमाणं पालएधीमं- अरहरइसहे-दविए-वीरिअसंपन्नेदेवेहिं से नामं कयं समणे भगवं महावीरे॥१०६|| 'जिमिय भुत्तुत्तरागया वि य णं समाणा' ततः जिमित्तौ भुक्त्युत्तरं-- भोजनानन्तरमागतौ-उपवेशनस्थाने समागतौ, अपि च निश्चयेन एवंविधौ सन्तौ 'आयंता चोक्खा परमसुइ-भूया' आचान्तौ शुद्धोदकेन कृताचमनौ सिक्थाद्यपनयनेन चोक्षौ, अत एव परमपवित्रीभूतौ सन्तौ 'तं मित्तनाइंनियगसयणसंबंधिपरियणं तं मित्रज्ञातिनिजकस्वजनसम्बन्धिप