________________ विसुव 1263 - अभिधानराजेन्द्रः - भाग 6 विसुव जाताः पञ्चत्रिंशत् 35, तस्याः पूर्वोक्तयुक्त्या विंशत्या भागो ह्रियतेलब्धः एकः 1 सूर्यनक्षत्रपर्यायः पश्चादवतिष्ठन्ते पञ्चदश, ते च त्रयः पर्यायचतुर्भागास्ततस्ते प्रागुक्तयुक्त्या नवभिः शतैः पञ्चदशाधिकैर्गुण्यन्ते जातानि सप्तविंशतिशतानि पञ्चचत्वारिंशदधिकानि 2745, ततः पूर्वोक्तप्रकारेण तावद्वक्तव्यं यावदागतमश्विनीनक्षत्रस्य चतुस्त्रिंशदधिकशतभागानामेकोनसप्ततिभागानवगाह्य सूर्यश्चतुर्थविषुवं प्रव्रतयति, एवमुक्तनीत्या परिभाव्यमानानि पञ्चाप्युत्तरायणविषुवाणि अश्विनीनक्षत्रे एव यथोदितभागाऽतिक्रमे प्रवर्तन्ते इति। तदेवं दक्षिणोत्तरायणविषुयेषु नक्षत्राणि प्रतिपाद्य लग्नं प्रतिपादयतिलग्गं दक्षिणायण, विसुवेसु वि अस्सउत्तरं अयणे। लग साई विसुवेसु, पंचसु वि दक्खिणं अयणे // 12|| दक्खिणमयणे विसुवे, नहयलेऽभिजि रसायले पुस्से / उत्तरअयणे अमिई, रसायले नहयले पुस्से // 13 // दक्षिणायनगतेषु पञ्चस्वपि विषुवेषु अश्व अश्वदेवोपलक्षिते अश्विनीनक्षत्रे लग्रं भवति / किमुक्तं भवति- पञ्चापि दक्षिणायनविषुवाणि मेषलग्ने प्रवर्त्तन्ते इति, तथाहि-यदिदशभिर्विषुवैरष्टादश शतानि पञ्चत्रिंशदधिकानि, लग्नपर्यायाणां भवन्ति, ततोऽयनद्विभागरूपे प्रथमे विषुवे किं लग्नं भवतीति ? राशित्रयस्थापना 10-1835-1, अत्रान्त्येन राशिना एककलक्षणेन मध्यो राशि ण्यते गुणितश्च सन् स तावानेव भवति 'एकेन गुणितं तदेव भवतीति' न्यायात् / विषुवंचायनविभाग रूप भवतीति विषुवपरिमाणकृदाद्यो राशिौभ्यां गुण्यते जाता विंशतिस्तया भागो हियते लब्धा एकनवतिपर्यायाः शेषास्तिष्ठन्ति पञ्चदश, तेषां पञ्चकेनापवर्तना जातात्रयस्ततो नक्षत्रानयनार्थमष्टादशभिः शतैस्त्रिंशदधिकैर्गुणयिश्याम इति गुणकारराशेरर्द्धनापवर्त्तना जातानि नव शतानि पञ्चदशाधिकानि 615, तैस्त्रयो गुण्यन्ते जातानि सप्तविंशतिशतानि पञ्चचत्वारिंशदधिकानि 2745, तेभ्योऽष्टाशीत्या पुष्यः शुद्धः, स्थितानि, पश्चात् षड्विशतिशतानि सप्तपञ्चाशदधिकानि 2657 तेषां चतुस्त्रिंशदधिकशतेन भागहरणं लब्धा एकोनविंशतिः शेषं तिष्ठत्येकादशोत्तरं शतम् 111, तस्मादभिजितो वाचत्वारिंशत् शुद्धा शेषास्तिष्ठन्त्येकोनसप्ततिः ६६,अत्र एकोनविंशतिमध्याम् त्रयोदशभिः श्लेषादीनि उत्तरभद्रपदापर्यन्तानि नक्षत्राणि शुद्धानि, अभिजिन्नक्षत्रं प्रागेव शोधितं, ततः पञ्चभिः श्रवणादीनि उत्तरभद्रपदापर्यन्तानि पञ्च नक्षत्राणि शुद्धानि, अभिजिन्नक्षत्रं च प्रागेव शोधितं, ततः पञ्चभिः श्रवणादीन्युत्तरभाद्रपदापर्यन्तानि पञ्च नक्षत्राणि शुद्धानि, एकेन च शेषेण रेवती शुद्धा, आगतमश्विनीनक्षत्रस्य चतुस्त्रिंशदधिकशतभागानाभेकोनसप्तति संख्येषु प्रथमं विषुवं भवति / द्वितीयविषुवचिन्तायामेवं त्रैराशिकम्-यदि दशभिर्विषुवैरष्टादश शतानि पञ्चत्रिंशदधिकानि लग्नपर्यायाणां लभ्यन्ते ततः पञ्चभिरयन द्विभागैः किं लंभ्यमिति राशित्रयस्थापना-१०-१८३५-५, अत्रान्त्येन राशिना मध्यराशेर्गुणने जातान्येकनवतिशतानि पञ्चसप्तत्यधिकानि 6175, ततः प्रागुक्तयुक्त्याऽऽद्यो राशिभ्यां गुण्यते, जाता विंशतिः, तया भागो हियते लब्धानि लगपर्यायाणां चत्वारि शतानि अष्टपञ्चाशदधिकानि 458, न तैः प्रयोजनम् शेषाः तिष्ठन्तिपञ्चदश 15, ततः प्रागुक्तगणितक्रमेणागतमश्विनीनक्षत्रस्य लगप्रवर्तकस्य चतुस्त्रिंशदधिकशतं भागानामेकोनसंख्येषु भागेषु द्वितीयं विषुवं प्रवर्तते। एवं पञ्चस्वपि दक्षिणायनविषुयेषु लग्रं भावनीयम्, साम्प्रतमुत्तरा-यणविषुवलग्नभावना क्रियतेयदि दशभिर्विषुवैरष्टादश शतानि पञ्चत्रिंशदधिकानि लग्नपर्यायाणां भवन्ति ततस्विभिरयनविभागैः किं लभ्यमिति ? राशित्रयस्थापना१०-१८३५-३, अत्रान्त्येन राशिना(त्रिकलक्षणेन) राशेर्गुणनेजातानि पञ्चपञ्चाशत्शतानि पञ्चोत्तराणि 5505, ततः प्रागुक्तयुक्त्या आद्यराशि भ्यां गुण्यते जाता विंशतिस्तया भागो ह्रियते लब्धे द्वे शते पञ्चसप्तत्यधिके 275, लापर्यायाणां न तैः प्रयोजनमिति, शेषाः तिष्ठन्ति पञ्च 5, राच किल, एकश्चतुर्भाग इत्येकः स्थाप्यते ततः प्रागुक्तयुक्त्या स नयभिश्शतैः पञ्चदशोत्तरैगुण्यते जातानि नवशतानि पञ्चदशोत्तराणि 615, तेभ्योऽष्टाशीत्या पुष्यः शुद्धः, स्थितानिपश्चादष्टौ, शतानि सप्तविंशत्यधिकानि ८२७.तेषां चतुस्विंशदधिकेन शतानि भागो ह्रियते लब्धाः षट्, पश्चात् तिष्ठात त्रयाविंशतिः, षड्भिश्वाश्लेषादीनि चित्रापर्यन्तानि षट् नक्षत्राणि शुद्धानि, आगतं स्वातिनक्षत्रस्य लगप्रवर्तकस्य चतुस्त्रिशदधिकशतभागानामेकोनसप्ततिसंख्येषु भागेषु गतेषु द्वितीयं विषुवं प्रवर्तते / एवं चतुर्थविषुवचिन्तायामेवं वैराशिकम्-यदि दशभिर्विषुवैरष्टादश शतानि पञ्चत्रिंशदधिकानि लगपर्यायाणां लभ्यन्ते, ततः सप्तभिरयन द्विभागैः किं लभ्यमत्रेति ? राशित्रयस्थापना- 10-1535--7, अत्रान्त्येन राशिना मध्यराशिगुण्यते जातानि द्वादश सहस्राणि अष्टौ शतानि पञ्चचत्वारिंशदधिकानि 12845, तेषां विंशत्या भागो हियते लब्धानि षट् शतानि द्विचत्वारिंशदधिकानि लगपर्यायाणां 642 शेषास्तिष्ठन्ति पञ्च, ततः प्रागुक्तगणितक्रमेण आगतं स्वातिक्षत्रस्य लग्नप्रवर्तकस्य चतुरिंशदधिकशतभागानामेकोनसप्ततिसंख्येषु भागेषु गतेषु चतुर्थ 4 विषुवं प्रवर्तते, एवं 5 पञ्चस्वपि उत्तरायणेषु विषुवलग्नं भावनीयम् / इह यदा सूर्यो दक्षिणायनविषुवे अश्विन्या प्रवर्तते तदा पाश्चात्यं लग्नं स्वातौ स्वात्यश्विन्योश्च मध्येऽभिजिद्वर्तते स्म भावि द्वितीयाऽर्द्धमध्ये चभावी पुष्यः, ततो दक्षिणायनविषुवेषु पञ्चस्वपि अप्रभजिन्नभस्तले अतिक्रान्तपाश्चात्यार्द्धवर्द्धितत्वात् पुष्यो रसातले भाव्युत्तरार्द्धमध्यभावित्वात्, यदातु-रविरुत्तरायणे विषुवे स्वातौ वर्तते तदा पाश्चात्यं लगमश्विन्यां स्वात्यश्विन्योश्च मध्ये च पुष्यो, भाविद्वितीया मध्ये भावि लग्नम् अभिजित्, तत उत्तरायणविषुवेषु पञ्चस्वपि पुष्पो नभस्तले अतिक्रान्तपाश्चात्या॰ गतत्वात् अभिजित् रसातले भाव्युत्तरार्द्धमर्द्धभावितत्वात् तदेवमुक्त विषुवगतं लग्नम्। सम्प्रति कः कालो निश्चयतो विषुवस्येति प्ररूपयति-- मंडलमज्झत्थम्मि य, अचक्खुविसयं गयम्मि सूरम्मि। जो खलु मत्ताकालो, सो कालो होई विसुवस्स ||14|| मण्डल मध्यस्थे : सार्द्ध द्विनवतिमण्डलमध्यभागवतिनीत्यर्थः / अक्षुर्विषयगते कलया चक्षुर्विषयमतीतो व्यवहा