________________ वसहि 880- अभिधानराजेन्द्रः - भाग 6 वसहि पाराश्चिको भवति / अमात्यायामनवस्थाप्यम्, प्राकृतजनस्त्रियां पुनर्मूलम्। शिष्यः प्राहतुल्ले मेहुणभावे, नाणत्तारोवणा तु कीस कया। जेण निवे पत्थारो, रागो वि य वत्थुमासज्जा / / 385 / / दण्डिकादिपरिगृहीतासु प्रतिमासु स्त्रीषु वा तुल्ये मैथुनभावे कस्मादारोपणायाः-प्रायश्चित्तस्य नानात्वं विशदृशता कृता / सूरिराह-येनकारणेन नृपे-राज्ञि प्रस्तार:-कटकमर्दो भवति, अतस्तत्राधिकतरं प्रायिश्चत्तम्। तदपेक्षया कुटुम्बिके प्राकृते च यथाक्रमं स्वल्पा स्वल्पतरा दोषाः, ततस्तयोः प्रायश्चित्तमपिहीनं हीनतरम्। रागोऽपि च वस्तु आसाद्य भवति / यादृशं जघन्यं मध्य-ममुत्कृष्ट वा वस्तु रागोऽपि तत्र तादृशो भवतीति भावः। इदमेव भावयतिजइ भागा तति मत्ता, रागादीणं तहा वओकम्मे। रागाइविहुरया वि हु, पायं वत्थूण विहुरत्ता / / 386|| रागादीनां मात्रा जघन्यादिरूपासु त्रिषु यावत्संख्याकेषु भागेषु गतास्थिता कर्मण्यपि-ज्ञानावरणादौ च यो बन्धः स तथैव दृष्टव्यः। अथ रागतया मात्रानानात्वं कथं भवतीत्याह-रागादीनां विधुरताऽपि मात्रावैषम्यमपि प्रायो वस्तूनां स्त्रीप्रभृतीनां विधुरत्वात् सुन्दरसुन्दरतरसुन्दरतमविभागाद्भवति / प्रायोग्रहणं कस्यापि कदाचिद्वस्तु वैसदृश्यमन्तरेणापि रागादिवैसदृश्यं भवतीति ज्ञापनार्थम्, यतश्चैवमतो युक्तियुक्त दण्डिकपरिगृहीतासु स्त्रीषु प्रतिमासु वा प्रायश्चित्तनानात्वम् / तदेवमुक्त दिव्यप्रतिमायुतम्, अथ दिव्यस्यैव देहयुतस्यावसरस्तत्सचित्तं न संभवति, जीवस्तस्य-दिव्यशरीरस्य तत्क्षणादेव विध्वंसनात् / यत्तु सचित्तदेवीशरीररूपं देहयुतं तत्र स्थानप्रायश्चित्तं यथा प्रतिमायुते / प्रतिसेवनाप्रायश्चित्तं तुयथा मनुष्यस्त्रीषु भणिष्यते गतं दिव्यरूपम्। अथ मानुष्यरूपमाहमाणुस्सयं पितिविहं, जहन्नगं मज्झिमं च उक्कोसं। पायावचकुडुंबिय, दंडियपारिग्गहं चेव // 387 / / मानुष्यकमपि रूपं त्रिविधम्-जघन्यं मध्यममुत्कृष्टं च / पुनरेकैकं त्रिविधम् प्राजापत्यपरिगृहीतं कौटुम्बिकपरिगृहीतम्, दण्डिकपरिगृहीतं चेति। तत्रोत्कृष्टादिविभागमाहउक्कोस माउभजा, मज्झं पुण भगिणिधूतमादीयं / खरियादी य जहन्नं, पगयं सजिऍतरे देहे // 388|| इह गृहिणो मातरं भार्यां वा नान्यस्य कस्यापि प्रयच्छन्ति, अतो माता भार्या चोत्कृष्ट मानुष्यरूपम् / यास्तु भगिनीदुहितृपौत्र्यादयो अन्यस्मै स्वाभिरुचिताय दीयन्तेताः पुनर्मध्यमम्। खरिकादासीतदादयः इतरत् जघन्यम, एतत्त्रयमपि प्रत्येकं द्विधा-प्रतिमायुतं-देहयुतं च। प्रतिमायुतं दिव्यवद्वक्तव्यम्, देहयुतेन तु सजीवेन इतरेण वा अजीवेन प्रकृतमधिकारस्तद्विषयं प्रायश्चित्तं तावदाहपढमिल्लुगम्मि ठाणे, चउरो मासा हवंतऽणुग्घाया। छम्मासाऽणुग्घाया, बिइए तइए भवे छेदो॥३६॥ प्रथम नाम-जघन्यं मानुष्यरूपं तत्र प्राजापत्ये परिगृहीतादौ भेदत्रयेऽपि तिष्ठतश्चत्वारोऽनुद्धाता मासाः, गुरवइत्यर्थः / द्वितीयं-मध्यमं तत्रापि त्रिष्वपि भेदेषु षण्मासा अनुद्धाताः, तृतीयमुत्कृष्ट तत्र भेदत्रयेऽपि तिष्ठतश्छेदः। अथ कीदृशश्छेद इति ज्ञापनार्थमाहपढमस्स तइयठाणे, छम्मासुग्घाइओ भवे छेदो। चउमासो छम्मासो, बिइए तइए अणुग्घाओ॥३६०|| प्रथम-प्राजापत्यपरिगृहीतम् / तस्य यत्तृतीयं स्थानमुकृष्टमित्यर्थः, तत्रषाण्मासिकः छेदः। द्वितीय कौटुम्बिकपरिगृहीतं तस्य तृतीये स्थाने चतुर्गुरुकच्छेदः,तृतीयं दण्डिकपरिगृहीतं तत्रापि यत् तृतीयं स्थानं तत्र षाण्मासिकउद्धातच्छेदः। पढमिल्लुगम्मि तवॉरिह, दोहि विलहु हो ति एतें पच्छित्ता। दिइयम्मि य कालगुरू, तवगुरुगा होति तइयम्मि॥३६॥ प्रथम-प्राजापत्यपरिगृहीतं तत्र जघन्यमध्यमयोर्ये तपोऽहे प्रायश्चित्ते चतुर्गुरू, तेद्वाभ्यामपि तपःकालाभ्यां लघुके कर्तव्ये, द्वितीये कौटुम्थिकपरिगृहीतेतेएव कालगुरुके, तृतीये दण्डिकपरिगृहीतेतेएव तपसा गुरुके, कालेन लघुके। उत्कृष्टमुक्तं स्थानप्रायश्चित्तम्। अथ प्रतिसेवनामाहचउगुरुगा छग्गुरुगा,छेदो मूलं जहन्नए होइ। छग्गुरुगछेअमूलं,अणवठ्ठप्पो य पारंची // 392 / / (एवं दिट्ठमदिढे, सेवंते पसज्जणं मोत्तुं / ) प्राजापत्यपरिगृहीतं जघन्यम् अदृष्टं प्रतिसेवते चत्वारो गुरवः, दृष्ट षण्मासा गुरवः / कौटुम्बिकपरिगृहीतं जधन्यमदृष्ट प्रतिसेवते षण्मासा गुरवः, दृष्ट छेदः / दण्डिकपरिगृहीते उत्कृष्ट अदृष्ट मूलम, दृष्ट अनवस्थाप्यम्, दण्डिकपरिगृहीते उत्कृष्ट अदृष्ट, अनवस्थाप्यम दृष्ट पाराश्चिकम्। दृष्टादृष्ट प्रतिसेवमानस्य प्रसज्जना शङ्का भोजिकादिलक्षणं मुक्त्वा प्रायश्चित्तं मन्तव्यम्। अत्र नोदकः प्राहजम्हा पढमे मूलं, बिइए अणवट्ठों तइएँ पारंची। तम्हा ठायंतस्स य, मूलं अणवट्ठ पारंची॥३६३।। अत्राचार्यः परिहारमाहपडिसेवणाय एवं,पसज्जणा तत्थ दोइ एकके। चरिमपदे चरिमपदं, तं पिय आणाइनिष्फन्नं // 364|| अनयोाख्या प्राग्वत्। ते चेव तत्थ दोसा, मोरियआणाए जे भणियपुटिव। आलिंगणाइ मोत्तुं, माणुस्से सेवमाणस्स॥३६५।। त एवानवस्थामिथ्यात्वादयस्तत्र मानुष्यकस्त्रीरूपे दोषा ये पूर्व 'मूरियाइ आणाए' इत्यादि गाथायां भणिताः, नवरं दिव्यप्रतिमाया आलिङ्गने ये भङ्गदोषा भद्रकप्रान्तकृता उक्तास्तान्मुक्त्वा शेषाः सर्वेऽपि मानुष्यक सेवमानस्य भणितव्याः।