________________ पुढवी 173 - अभिधानराजेन्द्रः - भाग 5 पुढवीकाझ्य आ०क० ज०। ईशानलोकपालसोममहाराजस्याग्रमहिष्याम्, स्था० 4 ठा० १उ०ा स्फटिकाऽऽदिपृथ्वी सचित्ता अचित्ता वेति प्रश्ने, उत्तरम्स्फटिकाऽऽदिपृथ्वी सचित्ता, "फलिहमणिरयणविद् दुम''इति वचनात, रत्नान्यचित्तानि भवन्ति, "सुवण्णरययमणिमुत्तियसंखसिलप्पवालरयणाणि अचित्तानि" इत्यनुयोगद्वारसूत्रप्रान्तवचनादिति। १०प्र० सेन० ३उल्ला वीकाइय पुं०(पृथिवीकायिक) पृथिव्येव कायो येषां तेपृथिवीकायिनः, समासान्तविधेस्तएव स्वार्थिककप्रत्ययात् पृथिवीकायिकाः। स्था०२ ठा० 1 उ०। पृथिवी काठिन्याऽऽदिलक्षणा प्रतीता, सैव कायः शरीर येषां ते पृथिवीकायाः, पृथिवीकाया एव पृथिवीकायिकाः स्वार्थे इक्प्रत्ययः। पृथिवीकायजीवेषु एकेन्द्रियभेदेषु, प्रज्ञा० १पद। दशा अथ के ते पृथिवीकायिकाः। सूरिराहसे किं तं पुढविकाइया? पुढविकाइया दुविहा पण्णत्ता / तं जहा-सुहुमपुढविकाइया य, बादरपुढविकाइया य / / 11 / / पृथिवीकायिका द्विविधाः प्रज्ञप्ताः / तद्यथा-सूक्ष्मपृथिवीकायिका बादरपृथिवीकायिकाच,सूक्ष्मनामकर्मोदयात्सूक्ष्माः बादरनामकर्मोदयाद्वादराः, कर्मोदयजनिते खल्वेते सूक्ष्मवादरत्वेनापेक्षके बदरामलकयोरिव, सूक्ष्माश्च ते पृथिवीकायिकाश्च सूक्ष्मपृथिवीकायिकाः, चशब्दः स्वगतपर्याप्ताऽपर्याप्तभेदसूचकः, बादराश्च ते पृथिवीकायिकाश्च बादरपृथिवीकायिकाः, अत्रापि चशब्दः स्वगतशर्करावालुकाऽऽदिभेदसंसूचकः, तत्र सूक्ष्मपृथिवीकायिकाः समुद्रकपर्याप्तप्रक्षिप्तगन्धावयववत् सकललोकव्यापिनो, बादराः प्रतिनियतदेशचारिणः,तच प्रतिनियतदेशचारित्वं द्वितीयपदे प्रकटयिष्यते। तत्र सूक्ष्मपृथिवीकायिकानां स्वरूप जिज्ञासुरिदमाहसे किं तं सुहुमपुढविकाइया? सुहमपुढविकाइया दुविहा पण्णत्ता / तं जहा-पजत्तसुहुमपुढविकाइयाय, अपज्जत्तसुहमपुढविकाइया य / सेत्तं सुहुमपुढविकाइया / 12 / अथ के ते सूक्ष्मपृथिवीकायिकाः? सूरिराह सूक्ष्मपृथिवीकायिका द्विविधाः प्रज्ञप्ताः / तद्यथा-पर्याप्तसूक्ष्मपृथिवीकायिकाश्च, अपर्याप्तसूक्ष्मपृथिवीकायिकाश्च। तत्र पर्याप्तिाम आहाराऽऽदिपुद्गलग्रहणपरिणमनहेतुरात्मनः शक्तिविशेषः स च पुद्गलोपचयादुपजायते। किमुक्तं भवति? उत्पत्तिदेशमागतेन प्रथमसमये ये गृहीताः पुद्गलास्तेषां तथाऽन्येषामपि प्रतिसमयं गृह्यमाणानां तत्सम्पर्कतस्तद्रूपतया जाताना यः शक्ति विशेषः आहाराऽऽदिपुद्गलखलरसरूपताऽऽपादनहेतुर्य.थोदरान्तर्गतानां पुद्गलविशेषाणामाहारपुद्गलखलरसरूपतापरिणमनहेतुः, सा च पर्याप्तिः षोढाआहारपर्याप्तिः, शरीरपर्याप्तिरिन्द्रियपर्याप्तिः, प्राणापानपर्याप्तिर्भाषापर्याप्तिर्मनः पर्याप्तिश्च / तत्र यया बाह्यमाहारमादाय खलरसरूपतया परिणमयति सा आहारपर्याप्तिः, यया रसीभूतमाहारं रसासृगमासमेदोऽस्थिमज्जाशुक्रलक्षणसप्तधातुरूपतया परिणमयति सा शरीरपर्याप्तिः, यया धातुरूपतया परिणमितमाहारमिन्द्रियरूपतया परिणमयति सा इन्द्रियपर्याप्तिः, तथा चायमर्थोऽन्यत्रापि भङ्गयन्तरेणो- | क्तः। पञ्चानामिन्द्रियाणां प्रायोग्यान पुद्रगलान गृहीत्वाऽनाभोगनिवर्तितेन वीर्येण तद्भावनयनशक्तिरिन्द्रियपर्याप्तिरिति / यया पुनरुच्छ्रासप्रायोग्यान पुद्गलानादायोच्छ्रासरूपतया परिणमय्याऽऽलम्ब्य च मुश्चति सा उच्छ्रासपर्याप्तिः, यया तु भाषाप्रयोग्यान पुद्गलानादाय भाषात्वेन परिणमय्याऽऽलम्ब्यच मुञ्चति सा भाषापर्याप्तिः, यया पुनर्मनःप्रायोग्यान् युगलानादाय मनस्त्वेन परिणमय्याऽऽलम्ब्य च मुञ्चति सा मनःपर्याप्तिः, एताश्च यथाक्रममेकेन्द्रियाणां संज्ञिवर्जाना द्वीन्द्रियाऽऽदीनां संज्ञिनां चतुःपञ्चषट्संख्या भवन्ति / उक्तञ्च प्रज्ञापनामूलटीकाकृताएकेन्द्रियाणां चतस्रो विकलेन्द्रियाणां पञ्च संज्ञिनां षडिति, उत्पत्तिप्रथमसमय एव ता यथातथं सर्वा अपि युगपन्निष्पादयितुमारभ्यन्ते, क्रमेण च निष्ठामुपयान्ति / तद्यथा- प्रथममाहारपर्याप्तिस्ततः शरीरपर्याप्तिस्तत इन्द्रियपाप्तिरित्यादि / आहारपर्याप्तिश्च प्रथमसमयमेव निष्पत्तिमुपपद्यते, शेषास्तु प्रत्येकमन्तर्मुहूर्तेन कालेन / अथाऽऽहारपर्याप्तिः प्रथमसमय एव निष्पद्यते इति कथमवसीयते? उच्यते- यत आहारपदे द्वितीयोद्देशके सूत्रमि-दम्- "आहारपज्जत्तीए अपज्जत्तए णं भंते ! किं आहारए अणाहारए? गोयमा ! नो आहारए अणाहारए।" इति / तत आहारपर्याप्त्याऽपर्याप्तो विग्रहगतावेवोपपद्यते, नोपपातक्षेत्र मागतोऽपि, उपपात क्षेत्रमागतस्य प्रथमसमय एवाऽऽहारकत्वात्, तत एकसामायिकी आहारपर्याप्तिनिवृत्तिः / यदि पुनरुपपातक्षेत्र मागतोऽपि आहारपर्याप्त्या पर्याप्तः स्थात्तत एवं सति व्याकरणसूत्रमित्थं भवेत"सिय आहारए सिय अणाहारए।" यथा शरीराऽऽदिपर्याप्तिषु-"सिय आहारए सिय आणाहारए।" इति। सर्वासामपि च पर्याप्र्तानां परिसमाप्तिकालोऽन्तर्मुहूर्तप्रमाणः, पर्याप्तयो विद्यन्ते येषां ते पर्याप्ताः "अभ्राऽऽदिभ्यः" / / 7 / 2 / 46 / / इति मत्वर्थीयोऽप्रत्ययः। पर्याप्तकाश्च ते सूक्ष्मपृथिवीकायिकाश्च पर्याप्तकसूक्ष्मपृथिवीकायिकाः। चशब्दो लब्धिपर्याप्तकरणपर्याप्तरूपस्वगतभेदद्वयसूचको, ये पुनः स्वयोग्यपर्याप्तिपरिसमाप्तिविकलास्तेऽपर्याप्ता अपर्याप्ताश्च ते सूक्ष्मपृथिवीकायिकाश्च अपर्याप्तसूक्ष्मपृथिवीकायिकाः; चशब्दः करणलब्धिनिबन्धनस्वगतभेदद्वयसूचकः। तथाहि-द्विविधाः सूक्ष्मपृथिवीकायिका अपर्याप्ताः, तद्यथा-लब्ध्या, करणैश्च / तत्र ये अपर्याप्तका एव सन्तो नियन्ते ते लब्ध्यऽपर्याप्तकाः, ये पुनःकरणानि शरीरेन्द्रियाऽऽदीनि न तावन्निवर्तयन्ति, अथ चावश्यं निवर्तयिष्यन्ति ते करणाऽपर्याप्ताः। उपसंहारमाह-(से त्तमित्यादि) त एते सूक्ष्मपृथिवीकायिकाः। तदेवं सूक्ष्मपृथिवीकायिकानभिधाय सम्प्रति बादरपृथि वीकायिकानभिधित्सुस्तद्विषयं प्रश्नसूत्रमाहसे किं तं बादरपुढविकाइया? बादरपुढविकाइया दुविहा पण्णत्ता ? तं जहा-सण्हबादरपुढविकाइया य, खरबादरपुढविकाझ्या य॥१३॥ अथ के ते बादरपृथिवीकायिकाः ? सूरिराह-बादर-पृथिवीकायिका द्विविधाः प्रज्ञप्ताः / तद्यथा- श्लक्ष्णबादरपृथिवीकायिकाश्च, खरबादरपृथिवीकायिकाश्च। तत्र श्लक्ष्णा नाम चूर्णितलोष्टकल्पा मृदुपृथिवी तदात्मका जीवा अप्युपचारतः श्लक्ष्णास्ते च ते बादरपृथिवीकायिकाश्च लक्ष्ण