________________ परिसा 653 - अभिधानराजेन्द्रः - भाग 5 परिसा रेन्द्रस्य असुरराजस्याभ्यन्तरिकायां पर्षदि चतुर्विंशतिदेवसहस्राणि प्रजातानि, मध्यमिकायामष्टविंशतिदेवसहसाणि, बाह्याया द्वात्रिंशत देवसहस्राणि प्रज्ञप्तानि (चभररस णं भंते! इत्यादि) चभरस्य भदन्त! असुरेन्द्रस्य असुरेन्द्रराजस्याऽभ्यन्तरिकायां पर्षदि कति देवीशतानि प्रज्ञप्तानि? मध्यमिकायां पर्षदि कति देवीशतानि प्रज्ञप्तानि? बाहायां / पदि कति देवीशतानि प्रज्ञप्तानि? भगवानाह-गौतम! अभ्यान्तरिकायां प्रर्षदि अर्द्धतृतीयानि देवीशतानि प्रज्ञप्तानि, मध्यमिकाया पर्षदि त्रीणि देवीशतानि पज्ञप्तानि, बाह्यायां पर्षदि अर्द्धचतुर्थानि देवीशतानि प्रज्ञप्तानि जी०३ प्रति० 4 अधि०।"एवं तायतीसगाण विलोगपालाणं तुदा तुडिया पच्चा, एवं अग्गमहिसीण वि।" स्था०३ ठा०२ उ०। पर्षदि देवीस्थितिः-- चमरस्स णं भंते! असुरिंदस्स असुररन्नो अभिंतरियाए परिसाए देवाणं के वइयं कालं ठिई पन्नत्ता? मज्झिमियाए परिसाए देवाणं केवइयं कालं ठिई पन्नत्ता? बाहिरियाए परिसाए देवाणं केवइयं कालं ठिई पन्नत्ता? अभिंतरियाएपरिसाए देवाणं केवइयं कालं ठिई पन्नत्ता? मज्झिमियाए परिसाए देवाणं केवइयं कालं ठिई पन्नत्ता? बाहिरियाए परिसाए देवाणं केवइयं कालं ठिई पन्नत्ता? गोयमा ! चमरस्स णं असुरिंदस्स अभिंतरियाए परिसाए देवाणं अड्डाइजाई पलिओवमाई ठिई पन्नत्ता, मज्झिमियाए परिसाए देवाणं पलिओवमाई ठिई पन्नत्ता, बाहिरियाए परिसाए देवाणं दिवड्डपलिओवमं ठिई पन्नत्ता, अभितरियाए परिसाए देवीणं दिवड्डपलिओवमं ठिई पन्नत्ता,मज्झिमियाए परिसाए देवीणं पलिओवमं ठिई पन्नत्ता, बाहिरियाएपरिसाए देवाणं अद्धपलिओवमं ठिई पन्नत्ता। (चमरस्सणं भंते इत्यादि) चमरस्य भदन्त ! असुरेन्द्रस्य असुरराजस्य अभ्यान्तरिकायां पर्षदि देवानां कियन्तं कालं स्थितिः प्रज्ञप्ता? मध्यमिकायां पर्षदि देवानां कियन्तं कालं स्थिति प्रज्ञप्ता? एवं बाह्यपर्षद्विषयमपि प्रश्नसूत्रं वक्तव्यम्-तथा अभ्यन्तरिकायां पर्षदि देवीना, कियन्त कालं स्थितिः प्रज्ञप्ता? एवं मध्यमिकाबाह्यपर्षद्विषये अपि प्रश्नसूत्रे वक्तव्ये / भगवान्नाह- गौतम ! चमरस्यासुरेन्द्रस्यासुरराजस्य अभ्यन्तरिकायां पर्षदि देवानामर्धतृतीयानि पल्यापमानि स्थितिः प्रज्ञप्ता। मध्यमिकायां पर्षदि देवाना द्वेपल्योपमे स्थितिः प्रज्ञप्ता। बाह्मयां पर्षदि देवानां व्यर्ध पल्योपमं स्थितिः प्रज्ञप्ता / तथाऽऽभ्यन्तरिकायां पर्षदि देवीनां व्यर्ध पल्योपमं स्थितिः प्रज्ञप्ता / मध्यमिकायां पर्षदि देवीनां पल्योपमा स्थितिः प्रज्ञप्ता / बाह्यायां देवीनामर्धपल्यापमं स्थितिः प्रजाता। इह भूयान् वावनाभेद इति यथावस्थितसूत्रे पाठनिर्णयार्थं सुगममनि सूत्रमक्षरसंस्कारमात्रेण विव्रियते। ___ संप्रत्यभ्यन्तरिकादिव्यपदेशकारणं पिपृच्छिषुरिदमाहसे केणतुणं भंते! एवं वुचइ- चमरस्स असुरिंदस्स तओ परिसाओ पन्नत्ताओ।तंजहा-समिया चंडाजाया, अभिंतरिया समिया, मज्झिमिया चंडा, बाहिरिया जाया? गोयमा ! चमरस्स णं असुरिंदस्स असुररन्नो अभिंतरपरिसा देवा णं वाहित्ता हव्वमागच्छंति गोयमा! णो अव्वाहित्ता; मज्झिमपरिसाए देवा वाहित्ता हव्वमागच्छंति, अव्वाहिया वि3; वाहिरपरिसा देवा अव्वाहित्ता हव्वमागच्छंति। अदुत्तरं च णं गोयमा ! चरमे असुरिंदे असुरराया अन्नयरेसु उचावएसु कन्जकोडं बेसु समुप्पन्नेसु अभिंतरियाए सद्धिं संमइसंपुच्छणाबहुले विहरइ, मज्झिमियाए परिसाए सद्धिं पियं पवंचेमाणे 2 विहरति, बाहिरयाए परिसाए सद्धिं पयं पंचडेमाणे 2 विहरइ, से तेणटेणं गोयमा ! एवं वुचइ चमरस्स णं असुरिंदस्स असुररन्नो तओ परिसाओ पन्नताओसमिया चंडा आया, अभितरिया समिया, मज्झिमिया चंडा, बाहिरिया जाया। (से केणट्ठणमित्यादि) अथ केनार्थेन भदन्त ! एवमुच्यते-चमरस्य असुरेन्द्रस्य असुरराज तिसः पर्षदः प्रज्ञप्ताः? तद्यथा-समिता चण्डा जाया. अभ्यन्तरा समिता मध्यमिका चण्डा बाह्या जाया। भगवानाहगौतम ! चमरस्य असुरेनद्रस्य असुरराजस्य अभ्यन्तरपर्षत्का देवा (वाहिता) आहूता (हव्बं) शीघ्रमागछन्ति। (नोअव्वाहित्ता) अनाहूता अनेन गौरवमाह, मध्यगपर्षद्गा देवा आहूता अपि शीघ्रमागछन्ति, अनाहूता अपि मध्यमप्रतिपत्तिविषयत्वात् बाह्यपर्षद्गा देवा अनाहूताः शीघ्रमागच्छन्ति / तेषामाकारेण लक्षणगौरवानहत्यात् / ( अदु तरं च णमित्यादि) अथोत्तरमथान्यत् अभ्यन्तरत्वाऽऽदिविषये कारणं गौतम! चमरोऽसुरेन्द्रोसुरराजोऽन्यतरेषु उच्चावयवेषु शोभनेषु 'कञ्जकोंडुवे सु" इति) कौटुम्बेषु कार्येषु, कुटुम्बे भवानि कौटुम्बानि, स्वराष्ट्रविषयाणीत्पर्थः / तेषु कार्येषु समुत्पन्नेषु अभ्यन्तरिकया परिषदा सार्द्ध संमतिसंप्रश्नबहुलश्चापि विहरति, सम्मत्या उत्तमया मत्या यः संप्रश्नः पर्यालोचनं तद्बहुलश्चापि विहरत्यास्ते, स्वल्पमपि प्रयोजन प्रथमस्तया सह पर्यालोच्य विदधातीति भावः / मध्यमिकया पर्षदा सार्द्ध यदभ्यन्तरिकया पर्षदा सह पर्यालोच्य कर्त्तव्यतया निश्चितं पदं तत् प्रपञ्चयन् 2 विहरति। एवमिदमस्माभिः पर्यालोचितभिद वा कर्त्तव्यमिदं वा न कर्त्तव्यमन्यथा दोष इति विस्तरयन् 2 आरते, बाह्यया पर्षदा सह यदभ्यन्तरिकया पर्षदा सह पर्यालोचितं मध्यमिकया सह गुणदोषप्रञ्चकथनतो विस्तारितं पदं तत् प्रचण्डयन् 2 विहरति / आज्ञाप्रधानः सन्नवश्यं कर्त्तव्यतया निरूपयन् तिष्ठति, यथा इदं युष्माभि कर्त्तव्यमिदं न कर्त्तव्यमिति तदेवं या एकान्तेन गौरवमेव केवलमर्हति, यया च सहोत्तमतित्यात स्वल्पमपि कार्य प्रथमतः पयौलोचयति सा गौरवविषये पर्यालोचनायां चात्यन्तमभ्यन्तरा वर्तते इति अभ्यन्तरिकायां तु गौरवार्ता पर्यालोचितं चाभ्यान्तरिकया पर्षदा सहावश्यं कर्त्तव्यतया निश्चितं, न तु प्रथमतः सा किल गौरवपर्यालोचनायां च मध्यमे भावे वर्तते इति मध्यमिका, या तु गौरखं न जातुचिदप्यर्हति, न च यया सह कार्य पर्यालो चयति, केवलम् आदेश एव यस्यै दीयते सा गौरवात् पर्यालोचनायाश्च बहिविवर्तते इति बाह्या तदेवाऽऽभ्यन्तरिकाऽऽदिव्यपदे