________________ परिसा 651 - अभिधानराजेन्द्रः - भाग 5 परिसा पार्थिवः समयमवसरमतीतः प्राप्तः सन परप्रवादीनामागमाः परप्रवादाऽगमास्तान परीक्षते / एषा बृद्धिपर्षत्। मन्त्रिपर्षदमाहजे रायसत्यकुसला, अत्तकुलीया हिता परिणया य / माइकुली या वसिया, मंतेति निवो रहे तेहिं // 356 // | ये राजशास्त्रेषु कौटिल्याप्रभृतिषु कुशला राजशास्त्रकुशलाः, आत्मकुलीया राजकुले भवाः जैकेण संबन्धेन संबद्धा इत्यर्थः / हिताऽहितान्येषिणः परिणताः वयसा, मातृकुलीया मातृकेण संबन्धेण संबद्धा वरिका आयत्त : तैः सह रहसि नृपो मन्त्रयति / एषा मन्त्रिपर्षत्। रोहिणीयां पर्षदमाहकुविया तोसेयव्वा, रयस्सला वार अण्णमासत्ता। छण्णपगासे य रहे, मंतयते रोहणिजे हिं॥३८७।। या देवी राइ: कुपिता तो रोहिणीया निवेदयन्ति, ततो दूतत्धेन प्रसादनिमित्त प्रष्यन्ते, यथा युष्माभिः सा देवी तोषयितव्या, तथा या रजस्वला ऋतरनाता, ततो रोहिणीया कथयन्ति, यस्याश्च यस्मिन् दिवसे वारकरतं राज्ञस्तस्याः कथयन्ति, याऽपि कन्या यौवनप्राप्ता सामपि परिणयनीयराजे निवेदन्ति (अन्नमासत्त ति) अन्याऽऽसता, व्यभिचारिणीत्यर्थः तामपि राज्ञः कथयन्ति-यथेषा देव! दुश्चारिणीति। आयानपि या'ने छन्नानि प्रकाशानि च रहांसि रतिकार्याणि तानि राहिणीयैः सह राजा मन्त्रयत। एषा पञ्चमी राहस्यिका पर्षद्।तदेवमुक्ता पञ्चप्रकाराऽगि लौकिकी पर्षत्। संप्रति लोकोतरे पञ्चविधां पर्षदमाहआवस्सगमादीया, सुत्तकडा पूरयंतिया भवे परिसा। दसामादि उवरिमसुया, हवति उ छतंतिया परिसा / 388 | लोइयवेइयसामा-इएसु सत्थेसु जे समोगाढा। ससमयपरसमयविसा-रया य कुसला य बुद्धिमती।३८६ / आवश्यकमादिं कृत्वा यावत सूत्रकृतमङ्गं तावदधीश्रुता पूरयन्ती पर्षद, न खल्वत्र कश्चनापि साधुः पठन् निरुध्यते, दशाश्रुतस्कर धमादिं कृत्वा रोषामुपरितनानि श्रुतानि सा छत्रन्तिका पर्षद् / तत्र हि ये परिणामका अतिपरिणामकाश्च निवार्यन्ते, ये च लौकिकेषु वैदिकेषु सामायिकेषु च शास्त्रे समवादाः स्वसमयपरसमयविशारदाः कुशलाः सा बुद्धिमती मन्त्रिपर्षदमाहपुव्वं पच्छा जेहिं, सिंगणादितविही समणुभूतो। लोए वेदे समए, कयागमा मंतिपरिसा उ॥३६१।। यैः पूर्व गृहवासः पश्चात श्रमणभावे शृङ्गनादतिविधिः, सर्वेषु कार्येषु मध्ये श्रृङ्गभूतं यत कार्य तत शृङ्गनादितमुच्यते, तद्विधिः समनुभूतः, स लोके वेदे समय च कृताऽऽगमा मन्त्रिपर्षद्। एतदेव व्याचिख्यासुराहगिहवासें अत्थसत्थेहिं कोविया केइ समणभावम्मि। कजेसु सिंगभूयं, तु सिंगनादिं भवे कजं // 362 / / पूर्वगृहवासे अर्थशास्त्रेषु,पश्चात् श्रमणभावे स्वसमयपरसमयेषु ये केचित् कोविदाः सा मन्त्रिपर्षद, कार्येषु शृङ्गभूतं यत्कार्य तत्शृङ्गनादितं भवति / किं तदित्याहतं पुण चेइयनासे, तद्दव्वविणासणे दुविहभेदे। भत्तोवहिवोच्छेदे, अभिवायणबंधपिट्टादि। 363 / / तत्पुनः शृङ्गनादित कार्य चैत्यविनाशो लोकोत्तमभवनप्रतिमाविनाशः, सद द्रव्यविनाशनं चैत्यद्रव्यविद्रावणं , तथा द्विविधा भदो भरणमुत्प्रधाजनवा यावा म भिक्षा वारयति उपधिं वा, यथा मा कोऽप्यमीषां भक्तमुपधि वा दद्यादिति भक्तव्यवच्छेद उपधिव्यवच्छेदो वा, तथा कोऽपि धिग्जातीयो बूतेव्राहाणानभिवादयत, वन्दध्वमिति यो बन्धापयति पिट्टयति, आदिग्रहणाद्यो निर्विषयानाज्ञापयति आक्रोशयति वा, प्रद्विष्टो राजाऽऽदि तत् अभिवादन बन्धाताऽऽदि च श्रृङ्गनादित कार्य तद्विधिर्यः समनुभूतः सा मन्त्रिपर्षद। वितह ववहरमाणं, सत्येण वियाणतो निहोडेइ। अम्हं सपक्खदंडो, न चेरिसो दिक्खिए दंडो॥३६४।। राजाऽऽदि वितथ व्यवहरन्तं मन्त्रिपर्षदन्तर्गतो विज्ञायकः स्वरामयपरसमयत्वात् शास्त्रकुशलः शास्त्रेण निहोडयति सुखं वारयति, यथाअस्माकं स्वपक्षे दण्डो भवति, संघो दण्ड करोतीत्यर्थः / न च राजा प्रभवति, नाऽपि प्रपन्नदीक्षाकस्यैतादृशो दण्डः / एषा मन्त्रिपर्षत्। रांप्रति राहरियकी पर्षदमाहसल्लुद्धरणे समण-स्स चाउकण्णा रहस्सिया परिसा। अजाणं चउकण्णा, छकन्ना अट्ठकन्ना वा // 365 / / द्विविध शल्यम्-द्रव्यशल्यं, भावशल्यं च / द्रव्यशल्यं कण्टकाऽऽदि, भावशल्यं मायानिदानमिथ्यात्वानि। अथवा भावशल्यं मूलोत्तरगुणातिचारः ततः श्रमणस्य भावशल्योद्धरणे, आचार्यसमीपे आलोचयत इत्यर्थः / राहरियकी पर्षद् भवति कथंभूतेत्यत आह-चतुष्कर्णा द्वावार्यस्य द्वौ साधारिति चत्वारः कर्णा यत्र सा तथा, आचार्याणां चतुःकर्णा, पटकण्णा वा, तत्र यदा निर्ग्रन्थी निन्थ्याः पुरतः ओलोचयति तदा चतुःकर्णा, यथा निर्गन्थस्य निर्ग्रन्थपावें आलोचयतः, यदा त्वद्वितीयस्थविरगुरुसमीपे आलो चयति सद्वितीया भिक्षुकी तदा षटकण्र्णा, सद्वितीयतरुणगुरुसमीपे सद्वितीयायाभिक्षुक्या आलोचयन्त्या अष्टकण्र्णा। पर्षत् आह-किं प्रयोजन बृद्धिपर्षदा? तत आहआसन्नपतीभत्तं,खेयपरिस्सा जओ तहा सत्ये। कहमुत्तरं च दाहिसि, अमुगो किर आगतो वादी। 360 / बृद्धिपर्षदा लह श्रमं कुर्वत आसन्न प्रतिभत्वमुपजायते, तथा यः शाररी निरन्तरव्यार याकरणतः खेदः परिश्रमरतस्य जयो भवति, कदाचित्परिश्रम जाते व्याख्याकरणतस्तं परिश्रममपनयति, तथा सा बुद्धिपर्षदव शिक्षयते-अमुकः किल आगतो वादी ततः कथं त्वमुत्तरं दास्यसि? एवं बुद्धिपर्षदा सह कृतःऽऽभ्यासः सुखं परप्रवादिनं निगृह्णाति / उक्ता बुद्धिगर्षत्।