________________ परियंत 627 - अभिधानराजेन्द्रः - भाग 5 परियट्टियं परियंत पुं० (पर्यन्त) सकलान्तिमे, प्रश्न०३ आश्र० द्वार। परियच्छिय त्रि० (परिकक्षित) परिगृहीते, आ०म०१ अ०। परियट्ट पुं० (परावर्त) पुद्गलपरावर्ते, विशे० / आ० म०। पं० चू०। पं० भा। (तस्य चन्द्राऽऽदिभेदभिन्नस्य प्ररूपणा 'पोग्गलपरियट्ट' शब्दे वश्यते) पुनः पुनः स्थापनेन परिवर्तन० ज्ञा०१ श्रु०३ अ०। परियट्टगपु० (परिवर्तक) वस्त्रपरावर्तग्राहके, नि० चू० 10 उ०। परियट्टण न०(परिवर्तन) परिपालने, व्य०६ उ०। द्विगुणत्रिगुणाऽऽदिभेदे, वर्तने, आचा० 1 श्रु०२ अ० 1 उ० / वामपार्श्वेन वर्तने, स्वार्थेऽनट् / आद०४ अ०॥ परियट्टणा स्त्री० (परिवर्तना) पुनः पुनर्भवने, प्रश्न० 1 आश्र० द्वार। सूत्रपाठस्य मुहुर्मुहुर्गुणने, उत्त० 26 अ०। सूत्रस्य गुणने, स्था०५ ठा 3 उ०। पूर्वाधीतस्यैव सूत्राऽऽदेरविस्मरणनिर्जरार्थे अभ्यासे० स्था० 5 टा० 3 उ० / आव० / 'परियट्टणा नाम परियट्टणं ति अज्झावसाणं ति गुणण तिवा एगट्ठा।" दश०१अ०। आ० चूला आ०म०। एष स्वाध्यायभेदः / स्था०५ ठा०३ उ०। उत्त०। परिवर्तनाविधिरेषः"इरियं सुपडिक्कतो, कडसामइओ व सुटुंपिहियमुहो। सुत्तं दोसविमुत्तं, सपयच्छेयं गुणइ सड्ढो॥१॥" इति। ध००२ अधि० 3 लक्ष०। परियट्टणयाए णं भंते ! जीवे किं जणयइ? परियट्टणयाए एं वंजणाइं जणयइ वंजणलद्धिं च उप्पाएइ // 21 // हे पूज्य हे स्वामिन् ! परिवर्तनया शास्त्रस्य गुणनेन जीवः किं जनयति? गुरुराह-हे शिष्य ! परिवर्तनया जीवो व्यञ्जनानि अक्षराणि जनयति, विस्मृतान्यक्षराण्यानयति, तथाविधकर्मक्षयोपशमात्, व्यञ्जनलब्धि व्यञ्जनसमुदायरूपां पदलब्धि पदानुसारिणी लब्धिं जनयति॥२१ / / उत्त०२६ अ०॥ परियट्टतिग न० (परिवर्तत्रिक) प्रव्रज्यापर्यायपरिवर्त्तत्रिके, तच्चछेदत्रिक, मूलनिकमनवस्थाप्यत्रिक च। व्य०१ उ०। परियट्टिय न० (परावर्तित) साधुनिमित्ते कृतपरावर्ते, पिं० / आचा० / यदि प्रतिवेशिकगृहे परिवर्त्य ददाति। आचा०२ श्रु०१ चू० 1 अ०८ ऊ1 ग०। ध०। पं० सू०। पं०भा०। अब सीवति दशमे उद्गमदोष, पिं०। अधुना परिवर्तितद्वारमभिधित्सुराहपरियट्टियं पि दुविहं, लोइय लोगुत्तरं समासेण / एकेक पि य दुविहं, तद्दव्ये अन्नदव्वे य॥३२३।। परिवर्तितमप्युक्तशब्दार्थ समासेनसंक्षपेण द्विविधम् / तद्यथालौकिक, लोकोत्तरं च। एकैकमपि द्विविधम्। तद्यथा तद्रव्ये तद्रव्यविषयं, अन्यद्रव्येऽन्यद्रव्यविषयं च। तत्र तद्रव्यविषयं यथा कुथितं घृतं दत्वा साधुनिमित्तं सुगन्धि घृतं गृह्णाति इत्यादि। अन्यद्रव्यविषयं यथा कोद्रवकूर समर्पयित्वा साधुनिमित्तं शाल्योदनं गृह्णातीत्यादि / इदं च लौकिकम् / एवं लोकोत्तरमपि भावनीयम्। संप्रति लौकिकस्योदाहरणं गाथात्रयेणाऽऽहअवरोप्परसज्झिलगा, संजुत्ता दो वि अन्नमन्नेणं। पोग्गलिय संजयट्ठा, परियट्टण संखडे बोही।।३२४ / / अणुकंप भगिणिगेहे, दरिद्द परियट्टणा य कूरस्स। पुच्छा कोद्दवकूरे, मच्छर णाइक्ख पंतावे // 325 / / इयरो वि य पंतावे, निसि ओसवियाण तेसि दिक्खा य। तम्हा उ न घेत्तव्वं, कइ वा जे ओसमेहिंति? ||326 / / वसन्तपुरे नगरे निलयो नाम श्रेष्ठी, तस्य सुदर्शना नाम भार्या, तस्या द्वौ पुत्रौ / तद्यथा क्षेमकरो, देवदत्तश्च लक्ष्मी नाम च दुहिता, तत्रैव वसन्तपुरे तिलको नाम श्रेष्ठी, सुन्दरी नाम तस्य महेला, तस्य धनदत्तः पुत्रो, बन्धुमती दुहिता, तत्र क्षेमङ्करः समितिसूरीणामुपकण्ठे दीक्षा गृहीतवान्, देवदत्तश्चेन च बन्धुमती धनदत्तेन च लक्ष्मीः परिणीता अन्यदा च कर्मवशतो धनदत्तस्य दारिद्रयमुपतस्थे, ततः स प्रायः कोद्रयकूर भुक्ते, देवदत्तेश्वरः, ततः स सर्वदैव शाल्योदनं भुक्ते, अन्यदा च सक्षेमङ्करः साधुर्यथा विहारक्रमं तत्राऽऽजगाम / स च चिन्तयामास-यदि देवदत्तस्य भ्रातर्गहे गमिष्यामि ततो मे भगिनी दारिद्रयेणाहमभिभूता ततो न मम गृहे साधुरपि भ्राता समुत्तीर्ण इति परिभवं मस्यते इति / ततोऽनुकम्पया तस्या एव गृहे प्रविवेश० भिक्षावेलायां च तथा लक्ष्म्या चिन्तितम्-यथा एकं तावदयं भ्राता द्वितीय साधुः तृतीयं प्राघूर्णकः, मम च गृहे कोद्रवरकूरः, ततः कथमसावस्मै दीयते शाल्योदनश्च मम गृहे न विद्यते ततो भ्रातृजायायाबन्धुमत्याः सकाशात कोद्रवौदनपरावर्तनेन शाल्योदनमादाय ददामीति तथैवं कृतम्। अत्रान्तरे च देवदत्तो भोजनार्थ स्वगृहमागतः, बन्धुमत्या च पप्रच्छेयथाऽद्य क्रोद्रवौदनो जेमितव्यः, कृपणतया कोद्रवौदनो राद्धो न शाल्योदनः, ततस्ता ताडयितुमारेभे, सा च ताङ्यमाना प्राहाकिं मां ताड़यसिं, तवैव भगिनी कोद्रवौदनं मुक्त्वा शाल्योदनं नीतवती० धनदत्तस्याऽपि च भोजनार्थमुपविष्टस्य यः शाल्योदनः क्षेमकरस्य दीयमान उदरितः स गौरवेण लक्ष्म्या परिवेषितः, ततस्तेन या पुष्टा-- कुतोऽयं शाल्योदनः? ततः कथितः सर्वोऽपि तया वृत्तान्तः, श्रुत्वा च तं वृत्तान्तं चुकोप धनदत्तो-यथा हा पापे! किमिति तथा मनामक शाले: पक्त्वा साधवेशाल्योदनो न दत्तो यत्परगृहादानयनेन मालिन्यमापादितं, ततस्तेनापि सा ताडिता, साधुना चायं वृत्तान्तो गृहद्वयवर्ती सर्वोऽपि जनपरम्परातः शुश्रुवे, ततो निशि सण्यिपि तानि प्रतिबोधितानी, यथेरथमस्माक न कल्पते, परमजानता मया गृहीतम्, अत एव च कलहाऽऽदि-दोषसंभवात् भगवता प्रतिषिद्धं ततो जिनप्रणीतं धर्म सविस्तरं कथितवान् जातः सर्वेषामपि / संवेगो,दत्ता च दीक्षा तेषां सर्वेषामिति / सूत्रं सुगमम्, नवरम्-(अवरोप्पर-सज्झिलगा इति) लक्ष्मीदेवदत्तौ बन्धुमतीधनदत्तौ परस्पर सज्झिलगौ भातरौ, ते च द्वे अपि लक्ष्मीबन्धुमत्यौ। ( अन्नमन्त्रेणं ति) अन्योन्यमपिसंबंद्धे, देवदत्तस्य भगिनी लक्ष्मीर्धनदत्तेन, धनदत्तस्यापि भगिनी बन्धुमती देवदत्तेन परिणीता इत्यर्थः ।(पोग्गलिय त्ति) पौद्रलिकस्य शाल्योदनस्य, संय--