________________ परिणाम 615- अभिधानराजेन्द्रः - भाग 5 परिणामग (5) पुद्गलपरिणामः। (6) वर्णगन्धरसस्पर्शसंस्थानपरिणताः पुद्गलाः। (7) वर्णादीनां परस्परं संवेधः। (8) अतीन्द्रियविषयः पुद्गलपरिणामः! (8) प्रयोग-मिश्र-विश्रसा-परिणताः पुद्गलाः। (10) पञ्चादिद्रव्यप्रकरणानि। (11) जीवाऽकर्मते विभक्तिभावं परिणमति। (12) परिणामाऽनुसारेण कर्मबन्धः! परिणामकडन० (परिणामकृत) दध्यादिकृतपरिणामे, आव०१ अ०। परिणामगपुं०(परिणामक) यथास्थानमपवादपदपरिणमनशीले बृ०। परिणामकस्वरूपम्। अथा भावतः परिणामकातिपरिणामको व्याख्येयाविति चेतसि व्यवस्थाप्य सूरिरिमां नियुक्तिगाथामाहपरिणामे अइअपरिणा-म परूवणा पडिसेह चरिमदुगे। अंबाई दिटुंतो, कहणा य इमेहि ठाणेहिं / / 801 // परिणामकातिपरिणामकानां प्ररूपणा कर्त्तव्या, प्रतिषेधश्चरमद्विकस्यापरिणामकस्य युगलस्य कर्त्तव्यः / अनयोश्छेदश्रुतं न दातव्यमिति भावः / एषां च त्रयाणामपि परिक्षार्थमाम्राऽऽदिदृष्टान्तो वक्तव्यः। आदिशब्दावृक्षबीजपरिग्रहः / तया च परीक्षया तेषामभिप्राये गृहीते सति कथना प्रतिवचनमेभिर्वक्ष्यमाणैः स्थानैः प्रकारैराचार्येण कर्त्तव्येति। अथैनामेव गाथायां विवृणोतिजो दय्वखित्तकयका-लमावओ जंजहा जिणऽक्खायं। तंतह सद्दहमाणं, जाणसु परिणामयं साधु ||802 / / अत्र तुलादण्डमध्यग्रहणन्यायेन कृतशब्दो मध्येऽभिहितोऽपि सर्वत्रापि संबध्यते।यः कश्चित् द्रव्यकृतं क्षेत्रकृतं कालकृतंभावकृतं, द्रव्याऽऽदिभिः भेदैः सूत्रे विहितमित्यर्थः / यद्वस्तु यथा येनोत्सर्गापवादरूपेण प्रकारेण जिनैराख्यातं तत्तथा श्रद्दधाति, तमेवं श्रद्दधानं रोचयन्तं जानीहि परिणामकं साधुम् / इयमत्र भावनाद्रव्यतः सचित्ताचित्तमिश्राणि द्रव्याणि यादृशे कार्ये कल्पन्ते, न वा क्षेत्रतोऽध्वनि वा जनपदे वा यद्यथाऽध्वकल्पाऽऽदिकमाचरणीयं, कालतो दुर्भिक्षसुभिक्षाऽऽदौ यो यादृशः कल्पः, भावतो ग्लानाऽऽदिष्वागाढानागाताऽऽदिको यादृक् विधिस्तदेवं सर्वमपि श्रद्दधानो यथाऽवसरं 'युञ्जानश्च परिणामको ज्ञातव्यः। बृ०१ उ०१ प्रक०। पं०व०। व्य०नि० चू०। (अस्य सदृष्टान्तप्ररूपणा अइपरिणा-1 मग' शब्दे प्रथमभागे 4 पृष्ठे गता) परिणामओं जं भणियं, जिणेहि अह कारणं न जाणामि। दिलुते परिणामेण, परिवाडी उक्कमकमाणं // 70 // अथं यदुक्तं जिनैः परिणामतः संसारिणामिन्द्रियविभागस्तत्र कारणं नजानामि। एवं तेनोक्तेन दृष्टान्तेन परिणाममधिकृत्य क्वचिदुत्क्रमपरिपाटी क्वचित्क्रमपरिपाटी वक्तव्या। / एतदेव सविस्तरं भावयतिचरिएण कप्पिएण व, दिलुतेण व तहा तयं अत्यं / उवणेइजहाणु परो, पत्तियइ अजोग्गरूवमवि // 71 // चरितेन कल्पितेन वा दृष्टान्तेन तथा तं विवक्षितमर्थमुपनयति। यथा परः अयोग्यरूपमपि प्रत्येति। दिटुंता परिणामे कहिजते उकमेण वि कयाइ। जह ऊ एगिंदीणं० वणस्सई कत्थई पुव्वं // 72 // दृष्टान्तात्परिणामयतीतिपरिणामस्तस्मिन् दृष्टान्तपरिणामके इत्यर्थः / कदाचिद् बोधोत्पादानुगुण्येन उत्क्रमेणाऽपि कथ्यते, यथा शस्त्रपरिज्ञायामेकेन्द्रियाणां जीवत्वप्रसाधन विधौ पूर्व प्रथमोद्देशके वनस्पतिः कथ्यते, अन्तिमेचोद्देशके वायुकायिकः। तत्र प्रथम उत्क्रमेण वनस्पतीनां जीवत्वख्यापनार्थमाहपत्तंति पुष्पंति फलं वदंती, कालं वियाणंति तहिंदियत्थे। जातीय बुद्धीय जरा य जेसिं, कहं न जीवा उ भवंति ते ऊ? ||73 // ये पत्रयन्तिपत्राणि मुञ्चन्ति, पुष्पभाजो भवन्ति, पुष्पं च ददति, कालं च तत्र पत्रपुष्पफलनिमित्तं जानन्ति, इन्द्रियार्थाश्च गीताऽऽदीन ये विजानन्ति, वकुला ऽऽदीनां तथा दर्शनात् / तथा तेषां जातिवृद्धिर्जरा च ते कथं न जीवा भवन्ति, भवन्त्येवेति भावः / पुरुषाऽऽदिधर्माणां सर्वेषामपितत्रोपलभ्यमानत्वात्। प्रयोगश्च वनस्पतयो जीवाः, जातिजराबृध्दयाद्युपेतत्वात्, मुनष्यवत्। जाहे ते सहहिया ताहें कहिअंति पुठविकाईया। जह वा पेलगलोणा, उवलगिरीणं च परिपुडी॥७॥ यदा ते वनस्पतयो जीवत्वेन श्रद्धिता भवन्ति, तदा पृथिवीकायिका जीवाः कथ्यन्ते (?)प्रचोलाऽऽदिषुपरिवृद्धिदर्शनात्। कललंडरसाऽऽदीया,जह जीव तहेव आउजीवा वि। जोइंगण जह जीवो, हवई तह तेउजीवा वि 75 // यथा कललं गर्भप्रथमावस्थारूपमण्डरस इत्येवमादयो जीवास्तथैवाप्कायजीवा अपि प्रतिपत्तव्याः। प्रयोगः-अप्कायिका जीवाः, अनुपहतत्वे सतिद्रवत्वात्, कललाण्डरसाऽऽदिवत्तथा। यथा ज्योतिरिङ्गणो जीवस्तथा तेजस्कायिकाः अपि। प्रयोगस्त्वेवम्-तेजस्कायिका जीवाः स्वभावात् आकाशे गमनात् ज्योतिरिङ्गणवत् ज्योतिरिङ्गणः खद्योतकः / यथा वा ज्वरिते ऊष्मेति सजीवस्तथा तेजोतीवा अपि। प्रयोगभावनात्वेवम्-तेजस्कायिका जीवाः असूर्यकिरणत्वे सत्यूष्मधर्मोपेतत्वात्। जह सद्दहिते तेऊ, वाऊ जीवा तहा य सीसंति।। सत्थपरिण्णाए विय, उकमकरणं तु एयट्ठा / / 76 // यदा तेजस्कायिकान् जीवत्वेन श्रद्दधाति, तदा तस्य वायवो जीवाः शिष्यन्ते, तथा वायवो जीवा अपरप्रेरितत्वे सति तिर्यगगतिगमनात्, गवादिवत् / शस्त्रपरिज्ञायामप्युत्क्रमकरणं पूर्ववनस्पत्युद्देशस्यान्ते वायुकायिकोद्देशस्य करणमित्यथः / व्य०१० उ०।