________________ भोयण 1623 - अभिधानराजेन्द्रः - भाग 5 भोयण (ह णु त्ति) ह इति खेदे, नुरिति वितर्के, एष तावदसन्देहं मृतोऽहं तु ताबदिदानी जीवामि, इमे च पापाः श्रमणका मृगचर्मसंवृता व्याघ्राश्चरन्ति, बहिः साधुवेषच्छन्ना हिंसका अमी इति भावः। अतो याव-देते संजीवितान्न व्यपरोपयन्ति, तावत्प्रतिगच्छामीति। किंचअभिओगपरज्झस्स हु, को धम्मो किं च तेण नियमेणं? अधियकरग्गाहीण व, अमिजोयंताण को धम्मो?।।४३६।। अभियोगेन कार्मणेन (परज्झस्स त्ति) परवशीकृतस्य मम को नाम धर्मो भविष्यति, किं वा तेन नियमेन-मम कार्य , तथा अधिककरग्राहिणामिवामीषामप्येवमभियोजयतां धर्मो, न कश्चिदित्यर्थः। एवं विचिन्त्य गृहवासं भूयोऽपि कुर्यात, यो ग्लानीभूय प्रव्रजितः स प्रव्रजन्तमित्थं विपरिणमयेत्किच्छा हि जीवितोऽहं, जति मरणं इच्छसी तहिं वच्च / एस तु भणामि भाउग!, विसकुंभा ते महुपिहाणा / / 440 // कृच्छादतिदुःखेनाह तावज्जीवितः, अतो यदि त्वमपि मर्तुमिच्छसि तदा तत्र तेषां साधूनामन्तिकं व्रज, येन भवतोऽप्येवं संपद्यत इति भावः / अपि च-हे भ्रातरेषोऽहमेकान्तहितो भूत्वा भवन्तं भणामि, ते साधवो विषकुम्भा मधुपिधानाः सन्ति, मुखेन जीवदयाऽऽद्युपदेशक मधुरं च जल्पन्ति, चेतसा तु विषवत् परव्यपरोपकारिदारुणपरिणामा इति हृदयम् / एवं विपरिणामितोऽसौ प्रव्रज्यामप्यनिष्पद्यमानः षट्कायविराधनाऽऽदिकं करोति, तन्निष्पन्नमयतनादायिनः प्रायश्चित्तम् / किंचवातादीणं खोभे, जहण्णकालुत्थिए विसाऽऽसंका। अवि हुजति अन्नविसे, णेव य संकाविसे किरिया / / 441 / / तस्याऽशुद्धाऽऽहारदानानन्तरं वाताऽऽदीनां क्षोभे जघन्यकालात्तक्षणादेवोत्थित विषाऽऽशङ्का भवति- किं विषममीभिर्मम दत्तं येनैव सहसैव धातुक्षोभः समजनि, एवं चिन्तयतस्तस्याचिरादेव मरणं भवेत्। कुत इत्याह-(अवि इत्यादि) अपिः संभावनायां, संभाव्यते-ऽयमर्थःयदन्यस्य सर्वस्यापि विषमन्त्राऽऽदिक्रिया युज्यते, शङ्का, विषस्य तु क्रिया चिकित्सा नैव भवति, मानसिकत्वेन तस्य प्रतिकर्तुमशक्यत्वात / यत एते दोषा अतो नायतनया दातव्यम्। अत्र परमतमुपन्यस्य दूषयतिकेइ पुण साहियव्वं, अस्समणोऽहं ति पडिगमो होजा। दायव्वं जतणाए, अणुलोभणा ण उड्डाहो // 442|| केचित्पुनराचार्या ब्रुवते-स्फुटमेव तस्य कथयितव्यं भवतएवेदकल्पते, एतच्च न युज्यते, यत एवमुक्ते कदाचिदसौ ब्रूयात् यत् श्रमणानां न कल्पते तन्मम यदि कल्पते तत एवमहमश्रमणो-न श्रमणो भवामि, अश्रमणस्य च निरर्थकं तुण्डमुण्डनमिति विचिन्त्य प्रतिगमनं कुर्यात्, यत एवमतो यतनया दातव्यम्, यतनया च दीयमानं यदि ज्ञातं भवति तदा वक्ष्यमाणैव वा तैरनुलोभना प्रज्ञापना तथा कर्तव्या यथा तस्य चेतसि समाधान भवति उड्डाहो न स्यात्। प्रज्ञापनाविधिश्वायम्अभिनवधम्मोऽसि अभावितोऽसि बालोऽसि तं अणूकंपो। तव चेवट्ठा गहितं, मुंजेज्जा तो परं छंदा // 443|| कप्पो चिय सेहाणं, पुच्छतु अण्णे वि एस हु जिणाऽऽणा। सामाइयकप्पठिती, एसा सुत्तं चिमं वेंति।।४४४।। अभिनवधर्मा अधुनैव गृहीतप्रव्रज्योऽसि, अत एवाभावितोऽसि, नाद्यापि भैक्ष्यभोजनेन भावितः, बालश्च त्वमसि, अत एवानुकम्प्योऽनुकम्पनीयः, तत इदमुत्कृष्टद्रव्यमशुद्धमपि तवैवार्थाय गृहीतम्, अतः परं छन्दात् स्वच्छन्देन भुञ्जीथाः / / अपि च-कल्प एवैष शैक्षाणां यदनेषणीयमपि भोक्तुं कल्पते, यदिभवतो न प्रत्ययस्ततः पृच्छान्यानपि गीतार्थसाधून, तेऽपि तेन पृष्टाः सन्तो बुवते-एषा, हुनिश्चित, जिनाऽऽज्ञातीर्थकृतामुपदेशः, सामायिककल्पस्य चैषैव स्थितिः, सूत्रं च ते साधव इदं प्रस्तुतम्- 'अस्थियाइं च केइ सेहतराए'' इत्यादिरूपं बुवते इत्यादीति भावः। कदाचन कुट्टिकयाऽपि दद्यात्कथमित्याह-- परतित्थियपूयाओ, पासिय विविहाउसंखडीओ य। विप्परिणमेज सेहे, कक्खडचरियापरिस्संतो।।४४५।। क्वापि क्षेत्रे परतीथिकानां पूजाः सादरस्निग्धमधुरभोजनाऽऽदिरूपास्तदुपासकैर्विधीयमाना दृष्टा, विविधाश्च सङ्घडीरवलोक्य शैक्षः कर्कशचपिरिश्रान्तः सन् विपरिणमेत।। नाऊण तस्स भावं, कप्पति जतणाएँ ताहे दाउंजे। संथरमाणादेंती, लग्गइसहाणपच्छित्तं / / 446|| ज्ञात्वा तस्य शैक्षस्य भाव स्निग्धमधुरभोजनविषयमभिप्रायमेषणीयालाभे यतनया तस्याऽनेषणीयमपि दातुं कल्पते, अथ संस्तरन्तोऽपि ददति ततः स्वस्थानप्रायश्चित्तं लगति, येन दोषेणाशुद्धं तन्निष्पन्न प्रायश्चित्तमापद्यत इति भावः। सेहस्स व संबंधी, तारिसमिच्छंतें वारणा णऽत्थि। कक्खडें व महिड्डीए, वितियं अद्धाणमादीसु / / 447 / / शैक्षस्य वा संबन्धिनः केऽपि स्नेहातिरेकत उत्कृष्ट भक्तमानीय दद्युः, तस्य च तादृशं भोक्तुमिच्छतो वारणा प्रतिषेधो नास्ति, (कक्खडे व त्ति) कर्कशो मदस्योदयः, तत्रासंस्तरणा, अशुद्धं शैक्षस्य दातव्यं, शुद्धमात्मनो भोक्तव्यम्, (महिड्डीए त्ति) महर्द्धिको राजाऽऽदिः प्रव्रजितः स यावन्नाद्यापि भावितस्तत्रैतत्प्रायोग्यमनेषणीयं दीयते, (विइयं अद्धाणमादीसु त्ति) अध्वादिकारणेषु द्वितीयपद भवति, स्वयमप्यनेषणीय भुजानः शुद्ध इति भावः / एषा पुरातनी गाथा। साम्प्रतमेनामेव विवृणोतिनीया व केई तु विरूवरूवं, आणेज भत्तं अणुवट्टियस्स। __ सेहाऽऽदि पुच्छेज्ज जदा तु थेरे,