________________ भोगसुह 1607 - अभिधानराजेन्द्रः - भाग 5 भोगसुह षक्तमनस एकदेत्यसातावेदनीयविपाकोदये ‘रोगसमुत्पादा' इतिरोगाणां शिरोऽर्तिशूलाऽऽदीनां समुत्पादाः प्रादुर्भावाः समुत्पद्यन्ते आविर्भवन्ति, तरयां च रोगावस्थायां किंभूतो भवत्यसावित्यत आह(जेहिं इत्यादि) यैर्वा सार्द्धमसौ संवसति, त एव एकदा निजाः पूर्व परिवदन्ति, स था तान्निजान पश्चात्परिवदेन्नाल (ते) तब त्राणाय वा शरणाय वा, त्वमपि तेषां नालं त्राणाय वा शरणाय वा इति ज्ञात्वा दुःखं प्रत्येक सातं च स्वकृतकर्मफलभुजः सर्वेऽपि प्राणिन इति मत्वा रोगोत्पत्तौ न दौमनस्यं भावनीयम्, न भोगाः शोचनीया इति। आह च(भोगामे इत्यादि) भोगाः शब्दरूपरसगन्धस्पर्शविषया-भिलाषास्तानेवानुशोचयन्ति-कथमस्यामप्यवस्थायाम् वयंभोगान् भुक्ष्महे ? एवं भूतान् वाऽस्माकं दशाऽभूद्येन मनोज्ञा अपि विषया उपनता नोपभोगायेति / ईदृक्षश्वाध्यवसायः केषाश्चिदेव भवतीत्याह- इहैव संसार एकेषामनवगतविषयविपाकाना ब्रह्मदत्ताऽऽदीनां मानथानामेवंभूतोऽध्यवसायो भवति, नसर्वेषां, सनत्कुमाराऽऽदिना व्यभिचारात्। तथाहिब्रह्मदत्तो मारणान्तिकरोगवेदनाऽभिभूतः सन्तापातिशयात् स्पृशन्ती प्रणयिनीमिव विश्वासभूमि मूर्छा बहुमन्यमानः तथा हस्तीकृतो विहस्ततया विषयीकृतो वैषम्येण गोचरीकृतो ग्लान्या दृष्टो दुःखासिकया क्रोडीकृतः कालेन पीडितः पीडाभिर्निरूपितो नियत्या आदित्सितो दैवेन अन्तिके अन्त्योच्छ्रासस्य मुखे महाप्रवासस्य द्वारि दर्धिनिद्राया जिह्वाग्रेजीवितेशस्य वर्तमानः विरलो वाचि विह्वलो वपुषि प्रचुरः प्रलापे जितो जृम्भिकाभिरित्येवंभूतामवस्थामनुभवन्नपि महामोहोदयादोगांश्चिकाइक्षिषुः पाश्वोपविष्टा भामिनवरतवेदनावेशविगलदश्रुरक्तनयनां कुरुमति ! कुसमतीत्येवं तां व्याहरन्नधस्सप्तमी नरकपृथिवीमगमत्तत्राऽपि तीव्रतरवेदनाऽऽभिभूतोऽप्यविगणय्य वेदनां तामेव कुरुमती व्याहरतीत्येवंभूतो भोगाभिष्वङ्गो दुस्त्यजो भवति केषांचित्, नपुनरन्येषा महापुरुषाणामुदारसत्त्वानाम्, आत्मनोऽन्यच्छरीरमित्येवमवगततत्त्वानां सनत्कुमाराऽऽदीनामिव यथोक्तरोगवेदनासद्धावे सत्यपि मयैवैतत कृतं सोढव्यमपि मर्यवेत्येवं जातनिश्चयानां कर्मक्षपणोद्यतानां न मनसः पीडोत्पद्यते इति। उक्तंच "उप्तो यः स्वत एव मोहसलिलो जन्माऽऽलवालोऽशुभो, रागद्वेषकषायसन्ततिमहानिर्विघ्नवीजस्त्वया। रोगैरङ्कुरितो विपतकुसुमितः कम्मर्दुभः साम्प्रतं, सोदा नो यदि सम्यगेष फलितो दुःखैरधोगामिभिः / / 1 / / पुनरपि सहनीयो दुःखपाकस्त्वयाऽयं, न खलु भवति नाशः कर्मणां सञ्चितानाम्। इति सह गणयित्वा यद्यदायाति सम्यग्, सदसदिति विवेकोऽन्यत्र भूयः कुतस्त्यः ?|2||" अपि च- भोगानां प्रधानं कारणमर्थोऽतस्तत् स्वरूपमेव निर्दिदिक्षुराह तिविहेण जावि से तत्थ मत्ता भवति, अप्पा वा बहुगा वा, से तत्थ गड्डिए चिट्ठति, भोयणाए, तओ से एगया विपरिसिटुं संभूयं महोवगरणं भवति, तं पिसे एगया दायादा विभयंति, अदत्तहारो वा से हरति, रायाणो वा से विलुपंति, णस्सइ वा से विणस्सइ वा से, अगारहाहेण वा से डज्झति इति, से परस्स अट्ठाए कूराणि कम्माणि वाले पकुय्वमाणे तेण दुक्खेण मूढे विप्परियासमुवेति (सूत्र-८३) (तिविहणेत्यादि) त्रिविधेन याऽपि तस्य तत्रार्थमात्रा भवति अल्पा वा बडी वा, (से) तस्यामर्थमात्रायां गृद्धस्तिष्ठति, सा च भोजनाय किल भविष्यति, ततस्तस्यैकदा विपरिशिष्ट सम्भूतं महोपकरणं भवति, तदपि तस्यैकदा दायादा विभजन्ते, अदत्तहारो वा तस्य हरति, राजानो वा विलुम्पन्ति, नश्यति वा विनश्यति वा, अगारदाहेन वा दह्यते इति, स परस्मै अर्थाय क्रूराणि कर्माणि बालः प्रकुर्वाणस्तेन दुःखेन मूढो विपर्यासमुपैति, एतच्च प्रागेव व्याख्यातमिति, नेह प्रतायते। तदेवं दुःखविपाकान् भोगान् प्रतिपाद्य यत्कर्तव्यं तदुपदिशतीत्याह आसं च छंदं च विगिंच धीरे!, तुमं चेव तं सल्लमाह?, जेण सिया तेण णो सिया, इणमेव णावबुज्झंति जे जणा मोहपाउडा, थीभि लोए पव्वहिए, ते भो ! वयंति एयाई आयतणाई से दुक्खाए मोहाए माराएणरगाए णरगतिरिक्खाए, सततं मूढे धम्म णाभिजाणति, उदाहु वीरे, अप्पमादो महामोहे, अलं कुस लस्स पमाएणं, संतिमरणं संपेहाए भेउरधम्म संपेहाए, णालं पास अलं ते एएहिं / (सूत्र०-८४) आशा भोगाऽऽकाक्षा, चः समुच्चये, छन्दनं छन्दः परानुवृत्त्या भोगाभिप्रायस्तं च, चशब्दः पूर्वापेक्षया समुच्चयार्थः, तावाशाछन्दौ, 'विश्व' पृथक्कुरुत्यज धीर ! धीर्बुद्धिस्तया राजत इति, भोगाशाछन्दापरित्यागे च दुःखमेव केवलं, न तत्प्राप्तिरिति / आह च-(तुमं चेव इत्यादि) विनेय उपदेशगोचराऽऽपन्न आत्मा या उपदिश्यतेत्वमेव तद्भोगाऽशाऽदिकं शल्यमाहृत्य स्वीकृत्य परमशुभमादत्से, न तु पुनरुपभोग, यतो भोगोपभोगो यैरेवार्थाऽऽधुपायैर्भवति, तैरेवनभवतीत्याह-"जेण सिया तेणणो सिया।" येनैवार्थोपार्जनाऽऽदिना भोगोपभोगः स्यात्, तेनैव विचित्रत्वात्कर्मपरिणतेः नस्याद् अथवा येन केनचिद्धेतुनाकर्मबन्धः स्यात्तन्न कुर्यात्तत्रनवर्ततेत्यर्थः, यदि वा-येनैव राज्योपभोगाऽऽदिना कर्मबन्धो येन वा निम्रन्थत्वाऽऽदिना मोक्षः स्याद्भवेत्ते नैव तथाभूतपरिणामवशान्न स्यादिति / एतच्चानुभवावधारितमपि मोहाभिभूता नावगच्छन्तीत्याह-(इणमेव इत्यादि) इदमेव हेतुवैचित्र्यं न बुध्यन्ने न संजानते, के ? ये जना मौनीन्द्रो-पदेशविकला मोहेनाऽज्ञानेन मिथ्यात्वोदयेन वा प्रावृताः छादितास्तत्त्वविपर्य-स्तमतयो मोहनीयोदयाद् भवन्ति / मोहनीयस्य च तद्भेदकामानां च स्त्रियो गरीयः कारणमिति दर्शयति- (थीभिइत्यादि) स्त्रीभिरङ्गनाभिः भ्रूक्षेपाऽऽदिविभ्रमैरसौलोक आशाछन्दाभिभूताऽऽत्मा क्रूरकर्मविधायीनरकविपाकपलं