________________ भिक्खु 1563 - अमिधानराजेन्द्रः - भाग 5 भिक्खु जहा लद्धा विसुद्धा य, एसा बित्तीय भिक्खुणी॥१०॥ / अचित्ताप्रासुका न तु सचित्ता, मिश्रा वा एषणीया आधाकम्मदिदोषरहिता, मिता एकत्रिंशदादिकवलप्रमाणतः परिमिता, कालेदिवा, अथवा-तृतीयस्यां पौरुष्या परीक्षदायकाऽऽदिदोषविशुद्धा यथा लब्धा संयोजनाऽऽदिदोषरहिताविशुद्धापरिभोगकाले रागद्वेषाऽकरणतोऽड्गाराऽऽदिदोषरहिता, एवं रूपा या सदा भिक्षा एषा भिषणां वृत्तिः, सा च रक्तपटाऽऽदिषु सर्वथा नाऽस्तीति, तेषु भिक्षुत्वाभावतो नातिप्रसङ्गः तदेवं भिक्षणशीलो भिक्षुरिति व्युत्पत्तौ यदतिप्रसङ्गाऽऽपादनं परेण कृतं. तत् अपाकृतम क्षुधं भिनत्ति इति भिक्षुरिति निर्वचने तु परस्याऽनवकाश एव, केवलं किश्चिद्वक्तव्यमस्तीति। तद्विवक्षुराहदव्वे य भाव मेयग, भेयण भेत्तव्वयं च तिविहं तु / नाणाऽऽइ भावभेयणकम्मखुहेगट्ठयं भेज / / 11 / / क्षुधं भिनत्तीति भिक्षुरिति व्युत्पत्त्याभिक्षुर्भदक उक्तो भेदकोनाम भिदि क्रियाकर्ता, भिदिक्रिया च सकर्मिमका, सकर्मिमकायाश्च क्रियायाः कर्तृ करणकर्मव्यतिरेकेण न भवतीति तद्रहणेन भेदन, भेत्तव्यमिति च द्वयं सूचितम् / एतच भेदकभेदनभेत्तव्यरूपं वस्तुनिकुरम्ब त्रिविधमपि, तुशब्दोऽपिशब्दार्थः, त्रिभेदमपि प्रत्येक द्विधा / तद्यथा-(दव्वे य भावे त्ति) चशब्दो भिन्नक्रमः द्रव्यतो, भावतश्चेत्यर्थः / तथाहि भेदको द्विधाद्रव्यस्य भावस्य च / भेदनमपि द्विधा-द्रव्यस्य भावस्य च, भेत्तव्यमपि द्विधाद्रव्यरूपं, भावरूपं च। तत्र भेदकोरथकाराऽऽदिः, भेदन परश्वादिद्रव्यं, भेत्तव्यं काष्ठम् भावस्य भेदको भिक्षुर्भावस्य भेदनानि ज्ञानाऽऽदीनि, भावभेत्तव्यं कर्म / तथा चाऽऽह- (नाणादीत्यादि) ज्ञानाऽऽदि आदिशब्दात्दर्शनचारित्रपरिग्रहः। भावभेदनं भेद्यं भावत इति च संबध्यते, कर्मकर्मक्षुध इत्येकार्थम् / तथा चोक्तम्-"कम्मं ति वा खुह ति वा / कलुसं ति वा वजंति वा वेरति वा पंको त्ति वा मलोत्तिए एएगडिया" इति / व्य०१ उ०। नि०चू०। उत्त०। जो भिंदेइ खुहं खलु, सो भिक्खू भावतो होइ / / 375 / / यो 'भिनत्ति विदारयति क्षुधं, खलुः अवधारणे, भिन्नक्रमश्न, ततः स एव भिक्षुर्भावतो भवतीति। 'इह च भिनत्तीत्युक्तमतः कर्तृकरणकर्मभिः प्रयोजनं, सकर्मकत्वाद्भिदेः अत आहभेत्ता य भेयणं वा, नायव्वं भिदियव्वयं चेव। एकिकं पिय दुविहं, दव्वे भावे य नायव्वं / / 376 / / रहगारपरसुमाइ, दारुगमाई य दव्वओ हुंति। साहू कम्मऽट्ठविहं, तवो य भावम्मि नायव्वो॥३७७।। रागद्दोसा दंडा, जोगा तह गारवा य सल्ला य। विकहाओ सन्नाओ, खुहं कसाया पमाया य / / 378 / / भेत्ता च कर्ता यो भिनत्ति, भेदनं करणं येन भिनत्ति वा समुचये, ज्ञातव्यंबोद्धव्यं भेत्तव्यमेव भेत्तव्यकं कर्म यद्भिद्यते, चः- समुच्चये, एवेति पूरणे, एकैकमपि चेति भेत्ता भेदनं भेत्तव्यकं च द्विविध-द्विभेदं द्रव्ये भावे च। विचार्यभाणे ज्ञातव्यम्-अवगन्तव्यम्। तत्र द्रव्ये-(रहकारपरसुमाइ त्ति) आदिशब्दस्य प्रत्येकमभिसंबन्धाद्रथाकालः तक्षकस्तदादिव्यतो भेत्ता आदिशब्दादयस्कारादिपरिग्रहः परशुः-कुठारस्तदादिर्द्रव्यतो भेदनम्, आदिशब्दाधनाऽऽदयो गृह्यन्ते। (दारुगमाई यत्ति) दासकं काष्ठं तदादि च द्रव्यतो भेद्यम, आदिशब्दालोहाऽऽदिपरिग्रहः, भवन्तीति सर्वापक्ष बहुवचनम्। साधुः-तपस्वी कर्मज्ञानाऽऽवरणाद्यष्टविधम् अष्टप्रकार तपश्च-अनशनाऽऽदिभावे विचार्ये भेत्ता, भेत्तव्यं भेदनं चक्रमेण ज्ञातव्यम् / "इत्थं जो भिंदई सुहं खलु' इति ग्रहणकवाक्यं गतं. भिनत्तीति व्याख्याय क्षुधं व्याख्यातुमाह-रागद्वेषौ उक्तरूपौ, दण्डाभनोदण्डाऽऽदयो, योगाः करणकारणानुमति रूपाः / पठन्ति च- "रागद्दोसा छुहं दंडा।" अत्रच 'छुहं ति' क्षुध बुभुक्षा उच्यते- तथा गौरवाणि च ऋद्धिगौरवाऽऽदीनि, शल्यानि च-मायाशल्याऽऽदीनि, विकथाः- स्वीकथाऽऽदयः, संज्ञाःआहारसंज्ञाऽऽदय(खुहं ति) एतद्भावभावित्वादष्टविधकर्मरूपायाः क्षुध एतान्यपि क्षुदित्युच्यन्ते, प्राकृतत्वाच्च तथानिर्देशः, कषायाः-क्रोधाऽऽदयः, प्रमादाश्चः-- मद्याऽऽदयः, क्षुदिति सम्बन्धनीयमिति गाथात्रयार्थः / उपसंहर्तुमाहएयाइं तु खुहाइं, जे खलु भिंदंति सुव्वया रिसओ। ते भिन्नकम्मगंठी, उवेंति अयरामरं ठाणं // 376 / / एतानि रागाऽऽदीनि (खुहाई ति) क्षुच्छब्दवाच्यानिये खलु भिन्दन्ति, विदारयन्ति, खलुशब्द एवकारार्थो भिन्दन्त्येवेति शोभनान्यतिचारतया व्रतानि प्राणातिपातविरत्यादीनि येषां ते सुव्रताः ऋषयो मुनयः, ते किमित्याह-भिन्न कम्मैवातिदुर्भेदतया ग्रन्थिः कर्मग्रन्थियैस्ते तथाविधा उपयान्ति प्राप्नुवन्ति, अजरामरं स्थानमुक्तिपदमिति गाथार्थः। उत्त० पाई०१५ अ०1 स भावमिक्षुर्भेत्तृत्वा-दागमस्योपयोगतः। भेदनेनोग्रतपसा, भेद्यस्याशुभकर्मणः // 17 // सइति--सभावभिक्षु ण्यते। उग्रतपसा भेदनेनाऽशुभकर्मणो भेद्यस्यऽऽगमोपयोगतो भेत्तृत्वात् / तदुक्तम्- "भेत्ता गमोवउत्तो, दुविहतवो भेअण च भेत्तव्यं / अट्ठविह कम्मखुह, तेण निरुत्तं स भिक्खु ति / / 1 / / " / / 17 / / "भिक्षामात्रण वा भिक्षुः।"(१८) भिक्षामात्रेण वा सर्वोपधिशुद्धभिक्षावृत्तिलक्षणेन भिक्षुः / द्वा० 27 द्वा०। भेत्ताऽऽगमोवउत्तो, दुविह तवो भेअणं च भेत्तव्वं / अट्ठविहं कम्मखुहं, तेण निरुत्तं स भिक्खु त्ति / / 342 / / भेत्ता भेदकोऽत्राऽऽगमोपयुक्तः साधुः। तथा द्विविधं बाह्याऽऽभ्यन्तरभेदेन तपो भेदन वर्तते / तथा–भेत्तव्यं विदारणीयं चाष्टविधं कर्म चअष्टप्रकार ज्ञानाऽऽवरणीयाऽऽदि कर्म, तब क्षुदादिदुः खहेतुत्वात् क्षुधशब्दवाच्य, यतश्चैवं तेन निरुक्तं यः शास्त्रानीत्या तपसा कर्म भिनक्ति स भिक्षुरिति गाथाऽऽर्थः // 342 / / किंचमिंदतो य जह खुहं, भिक्खू जयमाणओ जई होइ। संजमचरओ चरओ, भवं खिवंतो भवंतो उ॥३४३।। भिन्दै च विदारय श्च यथा क्षुधं कर्म भिक्षुर्भवति, भावतः यतमानस्तथा तथा गुणेषु स एव यतिर्भवति नान्यथा,