________________ भासा 1540 - अभिधानराजेन्द्रः - भाग 5 भासा उक्कोसेणं असंखेज्जसमए, अणुसमयं अविरहियं निरंतरं गेण्हति / जीवेणं भंते ! जाइंदव्वाई भासत्ताए गहियाई णिसिरइ, ताई किं संतरं निसरइ, निरंतरं निसरइ? गोयमा ! संतरं निसरइ, नो निरंतरं निसरइ, संतरं निसरमाणे एगेणं समएणं गेण्हति एगेणं समएणं निसरइ, एतेणं गहणनिसरणोवाएणं जहन्नेणं दुसमइयं उक्कोसेणं, असंखेज्जसमइयं अंतोमुहुत्तिगं गहणनिसरणोवायं करेति। जीवेणं भंते ! जाई दव्वाई भासत्ताए गहियाइं णिसिरति, ताई किं भिण्णाई णिसरति, अभिण्णाई णिसरति? गोयमा ! भिन्नाई पि निसरइ, अभिन्नाई पि निसरइ, जाई भिन्नाई णिसरति, ताई अणंतगुणपरिवुड्डीए णं परिवुड्डमाणाई 2 लोयंतं फुसन्ति; जाई अमिण्णाई निसरइ, ताई असंखेज्जाओ ओगाहणवग्गणाओ गंता भेदमावजंति, संखेजााई जोअणाईगंता विद्धंसमागच्छंति। (सूत्रम्-१६९) 'जीवे ण भंते ! जाई दव्वाइं भासत्ताए गिण्हइ' इत्यादि, सुगम, नवरं 'ठियाई स्थितानि, नगमनक्रियावन्ति, द्रव्यतश्चिन्तायामनन्तप्रादेशिकानिअनन्तपरमाण्वात्मकानि गलाति, नैकपरमाण्वाद्यात्मकानि, तेषा स्वभावत एव जीवानां ग्रहणायोग्यत्वात्, क्षेत्रचिन्तायामसइख्यातप्रदेशावगाढानि, एकप्रदेशाऽऽद्यवगाढाना तथा स्वभावतया ग्रहणायोग्यत्वात्, कालतश्चिन्तायामकसमयस्थितिकान्यपि यावदसङ्ख्येयसमयस्थितिकान्यपि गृह्णाति, पुद्गलानामसङ्ख्येयमपि कालं यावदवस्थानसम्भवात् / तथा चोक्तं व्याख्याप्रज्ञप्तौ सैजनिरेजपुद्गलावस्थानचिन्तायाम्- 'अणंतपएसिए णं भंते ! खंधे केवइकालं सेए ? गोयमा ! जहन्नेणं एक समयं, उक्कोसेणं आवलियाए असंखेज्जइभागं; निरेए जहन्नेणं एक समयं, उक्कोसेणं असंखेज्नं कालं ' इति / तेषां च गृहीतानां ग्रहणानन्तरसमये अवश्यं निसर्ग हाते स्वभावस्यानन्तरसमये ग्रहणं प्रतिपत्तव्यम् / अन्ये तु व्याचक्षते-एकसमयस्थितिकान्यपीति आदिभाषापरिणामापेक्षया द्रष्टव्यं, विचित्रो हि पुद्गलानां परिणामः, ततः एकप्रयत्नगृहीतमुक्ता अपि ते केचिदेक समयं भाषात्वेनावतिष्ठन्ते, केचिद् द्वौ समयौ, यावत् केचिदसङ्ख्येयानपि समयानिति।तथा 'गहणदव्वाई' / इति गृह्यन्ते इति ग्रहणानि, ग्रहणानि च तानि द्रव्याणि च ग्रहणद्रव्याणि। किमुक्तं भवति?- यानि ग्रहणयोग्यानि द्रव्याणि तानि कानिचित् वर्णपरिणामेन एकेन वर्णेनोपेतानि, कानिचित् द्वाभ्यां, कानिचित् त्रिभिः, कानिचित् चतुर्भिः, कानिचित्पञ्चभिः, यदा पुनरेकप्रयत्नगृहीतानामपि सर्वेषां द्रव्याणामपि समुदायो विवक्ष्यते तदा नियमात् पञ्चवर्णानि गृह्णाति, एवं गन्धरसेष्वपि भावनीयं, स्पर्शतः चिन्तायामेकस्पर्शप्रतिषेधः एकस्यापि परमाणोरवश्यं स्पर्शद्वयभावात् / तथा चोक्तम्- 'कारणमेव तदन्त्यं, सूक्ष्मो नित्यश्च भवति परमाणुः / एकरसगन्धवर्णो, द्विस्पर्शः कार्यलिङ्गश्च / / 1 / / द्विस्पर्शानिमृदुशीतानि मृदुष्णाचीत्यादि, '0 जाव चउफारसा' इति। यावच्छब्दकरणात् त्रिस्पर्शपरिग्रहः। ततः त्रिस्पर्शान्येवंकानिचित् द्रव्याणि किल मृदुशीतस्पानि, कानिचित् मृदुस्निग्धस्पर्शानि, तत्र मृदुस्पर्शा मृदुस्पर्श एवान्तर्भूत इत्येकस्पर्शः शीतस्निग्धरूपौतुद्वावन्यो स्पर्शाविति समुदायमधिकृत्य त्रिस्पर्शानि एवं स्पर्शान्तरयोगेऽपि त्रिस्पर्शानि भावनीयानि। कानिचिचतुःस्पर्शानि, तत्र चतुःस्पर्शेषु मृदुलघुरूपौ द्वौ स्पर्शावस्थितौ, सूक्ष्मस्कन्धेषु तयोरसम्भवात्, अन्यौ तु द्वौ स्पशी स्निग्धोष्णौ स्निग्धशीतौ रूक्षोष्णौ रूक्षशीती, सर्वसमुदायमपेक्ष्य नियमात्तानि चतुःस्पर्शानि गृह्णाति। तत्र यौ द्वौ मृदुलघुरुपौ स्पर्शाववस्थितौ ताववस्थितत्वादेव व्यभिचाराभावान गण्येते, ये त्वन्ये स्निग्धाऽऽदयश्च त्वारस्ते किल वैकल्पिका इति तानधिकृत्य सूत्रमाह। तद्यथा- 'सीयफासाइं गेण्हइ' इत्यादि सुगम, यावत ‘जाइं भंते ! अणंतगुणलुवखाई गेण्हइ / ' इह किल चरमं सूत्रमनन्तरमिदमुक्तम्'अणंतगुणलुक्खाई पि गिण्हइ ततः सूत्रसम्बन्धवशादिदमुक्तम्-'जाई भंते ! 0 जाव अणंतगुणलुक्खाइं गेण्हइ' इति / यावता- 'जाई भंते ! एगगुणकालवण्णाई' इत्याद्यपि द्रष्टव्यम्, 'ताइं भंते! किं पुट्ठाई' इत्यादि, तानि भदन्त ! किं स्पृष्टानि-आत्मप्रदेशसंस्पृष्टानि गृह्णाति, उतास्पृटानि? भगवानाह- गौतम ! स्पृष्टानि-आत्मप्रदेशःसह संस्पर्शमागतानि गृह्णाति, नास्पृष्टानि इहाऽऽत्मप्रदेशैःसंस्पर्शनमात्मप्रदेशावगाह-क्षेत्राद् बहिरपि सम्भवति ततः प्रश्रयति- 'जाई भंते ! इत्यादि। अवगाढा निआत्मप्रदेशः सह एकक्षेत्रावस्थितानि गृह्णाति, नानवगाढानि / जाई भंते !' इत्यादि, अनन्तरावगाढानि अव्यवधानेनावस्थितानि गृह्णाति, न परम्परावगाढानि। किं मुक्तं भवति?-येष्वात्मप्रदेशेषु यानि भाषाद्रव्याण्यवगाढानि तैरात्मप्रदेशैस्तान्येव गृह्णाति, न त्वेकद्वित्र्यात्मप्रदेशव्यवहितानि। 'जाई भंते ! अणंत-रोगाढाई' इत्यादि। अणून्यपिस्तोकप्रदेशान्यपि गृह्णाति, बादराण्यपिप्रभूतप्रदेशोपचितान्यपि, इहाणुत्वबादरत्वे तेषामेव भाषायोग्यानां स्कन्धानां प्रदेशस्तोक बाहुल्यापेक्षया ख्याख्याते, मूलटीकाकारेण तथा व्याख्यानात्। 'जाई भंते ! अणूई पि गेण्हई' इत्यादि, ऊर्द्धमपि, अधोऽपि, तिर्यगपीति, इह जीवस्य यावति क्षेत्रे ग्रहणयोग्यानि भाषाद्रव्याण्यवस्थितानि तावत्येव क्षेत्रे ऊद्ध्वधिस्तिर्यक्त्वं द्रष्टव्यम्। 'जाई भंते! उड्ढपि गेण्हइ।' इत्यादि, यानि भाषाद्रव्याण्यन्तर्मुहूर्त यावत् ग्रहणोचितानि तानि ग्रहणोचितकालस्य उत्कर्षतोऽन्तर्मुहूर्तप्रमाणस्याऽऽदावपिप्रथमसमये गृह्णाति, मध्येऽपिद्वितीयाऽऽदिष्वपि समयेषु गृह्णाति, पर्यवसानेऽपिपर्यवसानसमयेऽपि गृह्णाति। जाइं भंते ! आई पि गेण्हइ' इत्यादि, स्वविषयान् स्वगोचरान स्पृष्टावगाढानन्तरावगाढाऽऽख्यान् गृह्णाति, न त्वविषयान् स्पृष्टाऽs - दिव्यतिरिक्तान्। 'जाई भंते ! सविसए गेण्हइ' इत्यादि। आनुपूर्वी नाम ग्रहणापेक्षया यथा-सन्नत्वं तद्विपरीता अनानुपूर्वी, तत्रानुपूर्व्या गृह्णाति, न त्वनानुपूा। 'जाइ भंते ! आणुपुट्विं गेण्हइ' इत्यादि तिदिसिं' ति। त्रिदिशि गृह्णाति, तिसृभ्यो दिग्भ्य आगतानि गृह्णाति। एवं चतुर्दिशिपञ्चदिशि