________________ भासा 1531 - अभिधानराजेन्द्रः - भाग 5 भासा या य / पञ्जत्तिया णं भंते ! भासा कतिविहा पण्णत्ता? गोयमा! दुविहा पण्णत्ता। तं जहा- सच्चा, मोसा य / सच्चा णं भंते ! भासा पज्जत्तिया कतिविहा पण्णत्ता? गोयमा! दसविहा पण्णत्ता। तं जहा- जणवयसच्चा 1 सम्मयसच्चा 2 ठवणसच्चा 3 नामसचा 4 रूवसच्चा 5 पडुच्चसच्चा 6 ववहारसच्चा 7 भावसचा जोगसच्चाह ओवम्मसच्चा 10 / "जणवय 1 संमत २ठवणा 3, नामे 4 रूवे 5 पडुच्चसच्चे ६य / ववहार 7 भाव 8 जोगे , दसमे ओवम्मसच्चे य 10||1||" मोसा णं भंते ! भासा पञ्जत्तिया कतिविहा पण्णत्ता? गोयमा! दसविहा पण्णत्ता। तं जहा-कोहणिस्सिया 1 माणनिस्सिया 2 मायानिस्सिया 3 लोहनिस्सिया 4 पेञ्जणिस्सिया 5 दोसनिस्सिया 6 हासणिस्सिया 7 भयणिस्सिया ८अक्खाइयाणिस्सिया 6 उवघाइयणिस्सिया 10- "कोहे माणे माया, लोभे पिज्जे तहेव दोसे य। हास भए अक्खाइय, उवघाइयणिस्सिया दसमा // 1 // " अपज्जत्तिया णं मंते ! कइविहा भासा पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता / तं जहा-सच्चामोसा असच्चामोसा य / सच्चामोसा णं भंते ! भासा अपज्जत्तिया कतिविहा पण्णत्ता? गोयमा ! | दसविहा पण्णत्ता। तं जहा-उप्पण्णमिस्सिया 1 विगतमिस्सिया 2 उप्पण्णविगतमिस्सिया 3 जीवमिस्सिया 4 अजीवमिस्सिया 5 जीवाजीवमिस्सिया 6 अणंतमिस्सिया 7 परित्तमिस्सिया 8 अद्धामिस्सिया अद्धद्धामिस्सिया 10 असच्चामोसाणं भंते! भासा अपजत्तिया कइविहा पण्णत्ता? गोयमा ! दुवालसविहा पण्णत्ता / तं जहा "आमंतणि 1 आणमणी 2" जायणि 3 तह पुच्छणी य 4 पण्णवणी 5 / पच्चक्खाणी 6 भासा, इच्छाणुलोमा ७य।।१।। अणभिग्गहिया भासाफ, भासाय अभिग्गहम्मि बोद्धव्वा / संसयकरणी भासा 10 वोगड 11 अध्योगडा चेव 12 // 2" (सूत्रम् - 165) 'भासा णं भंते ! किमाइया' इत्यादि। भासा अवबोधबीजभूता, णमिति वाक्यालङ्कारे, किमादिका-उपादानकारणव्यतिरेकेण किमादिः- मौल कारण यस्याः सा किमादिका। तथा किंप्रभवाकस्मात् प्रभव-उत्पादो यस्याः सा किम्प्रभवा, सत्यपि मौले कारणे पुनः कस्मात् कारणान्तरादुत्पद्यते इति भावः / तथा किंसंस्थितेति-केनाऽऽकारेण संस्थिता किसंस्थिता, कस्येवं संस्थानमस्या इति भावः / तथा किम्पर्यवसिता इति-कस्मिन् स्थाने पर्यवसिता-निष्ठांगता किम्पर्यवसिता? भगवानाहगौतम ! जीवाऽऽदिका' जीव आदिः- मौलं कारणं यस्याः सा जीवाऽऽ दिका जीवगततथाविधप्रयत्नमन्तरेणावबोधबीजभूतभाषाया असम्भवात्, आह च भगवान भद्रबाहुस्वामी- “तिविहम्मि सरीरम्मी, जीवप - एसा हवंति जीवस्स : जेहि उ गेण्हइ गहणं, तो भासइ भासओ भासं // 1 // ' 'किंपभवा' इत्यस्य निर्वचनमाह- 'शरीरप्रभया' औदारिकवैक्रियाऽऽहारकान्यतमशरीरसामर्थ्यादेव भाषाद्रव्यविनिर्गतः, तथा किं संस्थिता इत्यस्य निर्वचन- 'वजसंस्थिता' वज्रस्येव संस्थानं यस्याः सा वजसंस्थिता, भाषाद्रव्याणि हि तथा-विधप्रयत्ननिस्टानि सन्ति सकलमपि लोकमभिव्याप्नुवन्ति लोकश्च वजाऽऽकारसंस्थित इति साऽपि वजसंस्थिता, किं पर्यवसिता, इत्यत्र निर्वचनं लोकान्तपर्यवसिता,परतो भाषा, द्रव्याणां गत्युपष्टम्भकधर्मास्तिकायाभावतो गमनासम्भवात, प्रज्ञप्ता मया शेषैश्च तीर्थकृद्भिः / / पुनरपि प्रश्नमाह'भासा कतो य पभवा' इत्यादि, भाषा कुतोयोगात् प्रभवति-उत्पद्यते काययोगाद्वाग्योगाद्वा? तथा कतिभिः समयैर्भाषा भाषते? किमुक्तं भवति? कतिभिः समयैर्निसृज्यमानद्रव्यसंहत्यात्मिका भाषा भवति, तथा भाषा कतिप्रकाराकतिप्रभेदा? कति वा भाषाः साधूनां वक्तुमनुमता-अनुज्ञाताः? अत्र निर्वचन- 'सरीरप्पभवा' इत्यादि, अत्र शरीरग्रहणेन शरीरयोगः परिग्रह्यते, शरीरमात्र प्रभवत्वस्य प्रागेव निर्णीतत्वात्, शरीरप्रभवा इति कोऽर्थः? - काययोगप्रभवा / तथाहिकाययोगेन भाषायोग्यान पुद्गलान गृहीत्वा भाषात्वेन परिणमय्य वाग्योगेन निसृजति. ततः काययोगवलाद्भाषा उत्पद्यते इति काययोगप्रभवेत्युक्तम्। आह च भगवान भद्रबाहुस्वामी- "गिण्हइ य काइएणं , निसरइ तह वाइएणजोगेण।" इति। 'कइहि वसमएहिं भासई भासं' इत्यस्य निर्वचन द्वाभ्यां समयाभ्यां भाषते भाषां, तथाहि- एकेन समयेन भाषायोग्यान् पुगलान गृह्णाति, द्वितीये समये भाषात्वेन परिणमय्य विसृजतीति। 'भासा कइप्पगारा' इत्यस्य निर्वचनं भाषा सत्याऽऽदिभेदाचतुःप्रकारा, ते च सत्याऽऽदयो भेदाः प्रागेव भाविता इति, कइ वा भासा अणुमया य' इत्यस्य निर्वचनं सत्याऽऽदी द्वे भाषे साधूनां वक्तुमनुमते, तद्यथा- सत्या, असत्यामृषा च, अर्थात् ये मृषासत्यामृषे तें नानुज्ञाते, तयोरयथावस्थितार्थप्रतिपादनपरतया मुक्तिप्रतिपन्थित्वात्। पुनः प्रश्नयति- 'कइविहा ण' इत्यादि, 'पजत्तिया अपज्जत्तिया' इति, पर्याप्ता नाम या प्रतिनियतरूपतया अवधारयितुं शक्यते सा पर्याप्ता, सा च सत्या मृषा वा दृष्टव्या, उभयोरपि प्रतिनियतरूपतयाऽवधारयितुं शक्यत्यात्, या तु मिश्रतया उभयप्रतिषेधाऽऽत्मकतया वा न प्रतिनियतरूपतयाऽवधारयितुं शक्यतेसा अपर्याप्ता, सा च सत्यामृषा असत्यामृषा वा दृष्टव्या, उभयोरपि प्रतिनियतेन रूपेणावधारयितुमशक्यत्वात्। 'पज्जत्तिया गंभंते!' इत्यादि, भावितं, नवरं सत्या मृषा चेत्युक्तमतः सत्याभेदावगमाय प्रश्नमाह- 'सच्चाणभंते ! भासा पञ्जत्तिया कइविहा-पण्णत्ता।' इति पाठसिद्धम् / भगवानाह'गोयमा !' इत्यादि 'जणवयसचा' इति तंतंजनपदमधिकृत्येष्टार्थप्रतिपत्तिज