________________ भरह 1458 - अभिधानराजेन्द्रः - भाग 5 भरह ति प्रतीच्छति-गृह्णाति- प्रतीच्छ्य च तानापातकिरातानेवमवादीत्गच्छत भो ! देवानुप्रियाः यूयं, स्वस्थानमिति शेषः, मम बाहुच्छायया परिगृहीताः स्वीकृताः मया शिरसि दत्तहस्ताः निर्भया निरुद्विग्नाःउद्वेगरहिताः सुखं सुखेन परिवसत, अत्र 'छायायां हो कान्तौ वा' इत्यनेन (श्रीसिद्धहे० अ०८ पा०१ सू०२४६) सूत्रेण वैकल्पिकविचित्वान्न हकारत्वं, नास्ति (भे)-भवतां कुतोऽपि भयमिति कृत्वा सत्कारयति, सन्मानयति, सत्कृत्य सन्मान्य च प्रतिविसर्जयति- स्वस्थानगमनायातिदिशति / अथ किरातसाधनोत्तरकालं नरेन्दुः किं चक्रे इत्याह- 'तए णं से भरहे राया सुसेण' इत्यादि, ततः- किरातसाधनानन्तरं भरतः सुषेणं सेनापति शब्दयति, शब्दयित्वा च एवमवादीत- गच्छ भो देवानुप्रिय ! द्वितीयम् अपिः समुचये, पूर्वसाधितनिष्कुटापेक्षया सिन्ध्या महानद्याः पश्चिमं पश्चिमभागवर्त्ति निष्कुट-प्राग्व्यावर्णितस्वरूपं सिन्धुः नदी सागरः- पश्चिमाब्धिः उत्तरतः क्षुल्लहिमवगिरिदक्षिणतो वैताट्यगिरिश्व तैमर्यादा यस्य तत्तथा, एतैः कृतविभागमित्यर्थः, शेषं प्राग्वत्, लाघवार्थमतिदेशसूत्रमाह- 'जहा दाहि-णिल्ल' इत्यादि, यथा दाक्षिणात्यस्य सिन्धुनिष्कुटस्य ओअवणं' साधन तथा सर्व भणितव्यं, तावद्वक्तव्य यावत्सेनानीर्भरतविसृष्टः पञ्चविधान् कामभोगान् प्रत्यनुभवन् विहरति। अथ तदनन्तरं किं जातमित्याहतए णं दिवं चक्करयणे अण्णया कयाइ आउहघरसालाओ पडिणिक्खमइ, पडिणिक्खमिता अंतलिक्खपडिवण्णे० जाव उत्तरपुरच्छिमं दिसिं चुल्लहिम-वंतपव्व-यामिमुहे पयाते यावि होत्था / तए णं से भरहे राया तं दिव्यं चक्करयणं० जाव चुल्लहिमवंतवासदरपव्वयस्स अदूरसामंते दुवालसजोयणायामं० जाव चुल्लहिमवंतगिरिकुमारस्स देवस्स अट्ठमभत्तं पगिण्हइ, तहेव जहा मागहतित्थस्सजाव समुद्दरव भूयं पिव करेमाणे करेमाणे उत्तरदिसाभिमुहे जेणेव चुलहिमवंतवासहरपव्वए तेणेव उवागच्छइ, उवागच्छित्ता चुलहिमवंत वासहरपव्वयं तिक्खुत्तो रहसिरेणं फुसइ, फुसित्ता तुरए णिगिण्हइ, णिगिण्हित्ता तहेव० जाव आयतकण्णायतं च काऊण उसुमुदारं इमाणि वयणाणि तत्थ भाणीम से णरवई० जाव सव्वे मे ते विसयवासि त्ति कट्ट बद्धं वेहासं उसु णिसिरइ, परिगरणिगरिअमज्झे० जाव तएणं से सरे भरहेणं रण्णा उर्ल्ड वेहासं णिसट्टे समाणे खिप्पामेव गावत्तरि जोअणाई गंता चुलहिमवंतगिरिकुमारस्स देवस्स मेराए णिवइए, तए णं से चुलहिमवंतगिरिकुमारे देवे मेराए सरं णिवइअंपासइ, पासित्ता आसुरुते रुद्रु० जाव वीइदाणं सव्वोसहि च मालं गोसी-सचंदणं कडगाणिजाव दहोदगं च गेण्हइ, गेण्हित्ता ताए उकिट्ठाए०जाव उत्तरेणं चुलहिमवंतगिरिमेराए अहण्णं देवाणुप्पिआणं विसयवासी-०जाव अहण्णं देवाणुप्पिआणं उत्तरिल्ले अंतवाले०जाव पडिविसजेइ। (सूत्रम्-६२) 'तए णं दिटवे चक्करयणे' इत्यादि, ततः- ओत्तराहसिन्धुनिष्कु- | टसाधनानन्तरं तद्दिव्य चक्ररत्नम् अन्यदा कदाचित् आयुधगृहशालातः प्रतिनिष्क्रानति, प्रतिनिष्क्रम्य च अन्तरिक्षपतिपन्नं, यावत्पदात् 'जक्खसहस्ससपरिवुडे दिव्वतुडिअसद्दसण्णिणाएणं पूरेन्ते चेव अंबरतलं' इति, उत्तरपूर्वस्यां दिशि ईशाने कोणे क्षुद्रहिमवत्पर्वताभिमुखं प्रयातं चाप्यभवत्, ततः-शिबिरनिवेशात् क्षुद्रहिम-वगिरिमध्यं पियासोः उत्तरपूर्वायां चलनमेव ऋजुमार्गः, ततो नरेन्दुर्यत्कृतवांस्तदाह- 'तए णं से भरहेराया तं दिव्वं चक्करयण' इत्यादि,ततः स भरतस्तदिव्यं चक्ररत्नम् अभिक्षुद्रहिमवद्रिरि प्रयातं दृष्ट्वा कौटम्बिकपुरुषाज्ञापनं हस्तिरत्नप्रतिकल्पनं सेनासन्नाहनं स्नानविधानं हस्तिरत्नाऽऽरोहणं मार्गाऽऽगतपुरनगरदेशाधिपवशीकरणं तत्प्राभृतस्वीकरणं चक्ररत्नानुगमन योजनान्तरितवसतिवसनं च करोतीत्यादिपिण्डार्थः प्रथमयावत्पदग्राह्यः, अत्र यावत्पदसंग्राह्यसूत्रलिखने बहुविस्तरः स्यादितितदुपेक्षा, ततः क्षुल्लहिमवगिरिसमीपे द्वादशयोजनायामम् अत्र यावच्छब्दान्नवयोजनविस्तीर्णाऽऽदिविशेषणविशिष्ट स्कन्धावारं निवेशयति, वर्द्धकिरत्नं शब्दयति पौषधशालां विधापयति, पौषधं च करोतित्यादि ज्ञेयं, क्षुद्रहिमवगिरिकुमारस्य देवस्य साधनायेति शेषः, कियत्पर्यन्त इत्याह-यावत्समुद्ररवभूतमिव कुर्वाणः कुर्वाण इति, अत्र'तहेव त्ति' पदवाच्यमष्टमभक्तप्रतिजागरणं तत्समापन कोटुम्बिकाऽऽज्ञापन सेनासन्नाहनम् अश्वरथप्रतिकल्पनं स्नानविधानम् अश्वरथाऽऽरोहण चक्ररत्नमार्गानुगमनं च करोतीत्यादि ज्ञेयं, सैन्यसमुत्थकलकलरवेण समुद्ररवभूतमिव पृथिवीमण्डलं कुर्वन् 2 उत्तरदिगभिमुखो यत्रैव च क्षुद्रहिमवद्वर्षधरपर्वतः तत्रैवोपागच्छति, उपागत्य चक्षुलहिमवद्वर्षवरपर्वत त्रिकृत्वः- त्रीन्वारान् रथशिरसा- रथाग्रभागेन काकमुखेनेत्यर्थः स्पृशति, अतिवेगप्रवृत्तस्य वेगिवस्तुनः पुरस्थप्रतिबन्धकमित्यादिसंघटने विस्ताडनेन वेगपातदर्शनादत्र त्रिरित्युक्तं, स्पृष्ट्वा च तुरगान् निगृह्णातिवेगप्रवृत्तान् वाजिनो रक्षति, तदनु वृत्तं यत्तदाह- 'णिगिण्हिता' इत्यादि, तुरगांश्चतुरोऽपि निगृह्य च तथैव मागधतीर्थाविकारवद्व-क्तव्यं कियद्दूरं यावदित्याहयावदावतकर्णाऽऽयतं च कृत्वा इषुमुदारमिति अत्र तहेव त्ति' वचनात् रथस्थापन धनुर्ग्रहणं शरग्रहणं च वक्तव्यं, ततस्तं शरं तथाविधं कृत्वा तत्र इमानि वचनान्यभाणीत् स नरपतिरत्र यावत्पदेन- "इंदि सुणंतु भवंतो" इत्यादिगाथाद्वयं वाच्यम् सर्वे मे ते विसयवासीतिपर्यन्तम् इति कृत्वा- इत्युचार्य ऊर्ध्वम् उपरि, एतच शुभपर्यायं स्यात् यथोर्ध्वलोकः शुभलोक इत्यादि अत उक्तम्- विहायसि आकाशे क्षुद्रहिमवगिरिकुमारस्य तत्राऽऽवासम्भवात् इषु निसृजति, 'परिगरणिगरि-अमज्झो जाव त्ति' अत्रावसरे वाणमोक्षप्रकरणाधीतं 'परिगरणि-गरिअमज्झो' इत्यादिपदोपलक्षितं यावच्छब्देन परिपूर्ण गाथाद्वयं वाच्यामिति। ततः किं जातमित्याह- 'तए णं' से इत्यादि, तत स शरो भरतेन राज्ञा ऊर्ध्व विहायसि निसृष्ट सन् क्षिप्रमेव द्विसप्तति योजनानि यावद् गत्वा क्षुद्रहिमवगिरिकुमारस्य देवस्यमर्यादायामुवितस्थाने निपतति, तएणं इत्यादि, ततः सक्षुद्रहिमवगिरिकुमारो देवो निजमर्यादायां शरं निपतितं पश्यति, द्रष्टा च