________________ पुरेकम्म 1058- अभिधानराजेन्द्रः - भाग-५ पुरेकम्म एवं खु पुरेकम्म, ठवण मित्तं तु चोएइ / / 1020 / / यदि संप्राप्तवसत्यामपि द्वितीयभङ्गे साधोः पुरः कर्म न भवति तत एवं खलु वधारणे इत्थमेव मदीयमनसि प्रतिष्ठितम् यद्येतत्पुर:कर्म तत् स्थापनामात्रम्, तुशब्दस्यैवकारारार्थत्वात प्ररूपणामात्रमेवंदमिति नोदयति। अत्रोच्यते-यत्तावदुक्तमेवंपुरःकर्मकृतः कर्मबन्धस्तटस्थ एव तिष्टिति, तत्र तिष्ठतुनाम न कदाचिदस्माकं क्षतिरूपजायते, तथा चात्र तदुक्तमेव दृष्टान्तमभ्यूह्यास्माभिः स्वाभिमतर्थ साधयितुमिदमुच्यतेइंदेण बंभवज्झा, कया तओ भीओ ताएँ नासंतो। कुरूखेत्ते य पविट्ठो, सा वि बहि पडिच्छए तं तु / / 1021 / / निग्गच्छे पुणो वि गिण्हे, कुरूरुखत्तं एत्थ संजमो अम्हं। जइ ततो नीइ जीवो, घेप्पड़ तो कम्मबंधेणं / / 1022 / / इन्द्रेण ब्रहाहत्या कृता, ततो भीतः सन् तस्या नस्यन् कुरुक्षेत्र प्रविष्टः, साऽपि ब्रह्महत्या तमिन्द्रं बहिः प्रतीक्षते, यद्यसौ कुरुक्षेत्रात् निर्गच्छेत् पुनरपि गृह्येत / कुरूक्षेत्रमा संयमोऽस्माकं, यदि ततः कुरुक्षेत्रात् द्वितीयतृतीयभङ्गायोरशुभमाध्य वसायपरिणतो जीवो निर्गच्छति, ततो गृह्यतेऽसौ कर्मबन्धेन ब्रह्महत्याकल्पेन, अनिर्गतस्तु प्रथमचतुर्थभङ्ग योर्न गृह्यते। योक्तम्-स्थापनामात्रयं पुरःकर्म तदपि न संगच्छते। कुत इति चेदुच्यतेजे जे दोसाययणा, ते ते सुत्ते जिणेहिं पडिकुट्ठा। ते खलु अणायरंतो, सुद्धो इहरा तु भइयव्वो // 1023 / / यानि यानि दोषाणां प्राणातिपाताऽऽदीनामायतनानि पुरःकर्मप्रभृतीनि तानि तानि सूत्रं जिनैर्भगबद्भिः प्रतिकुष्टानि, अतस्तानि खलु दोषाऽऽ- . यतनानि अनाचरन् साधुः शुद्धो मन्तव्यः, इतरथा तु समाचरन् भक्तव्यः। परः प्राऽऽहका भयणा जइ कारणे, जयणाए अकप्प किंचि पडिसेवे। तो सुद्धों इहरा पुण, न सुज्झए दप्पओ सेवं / / 1024|| का पुनर्भजना विकल्पना ? सूरिराह--कारणं यतनया पुरःकर्माऽऽदि किञ्चिदकल्प्यं यदि प्रतिसेवतंततः शुद्धः, इतरथा पुनरयतनया दर्पता वा सेवमानो न शुद्धयति। अथ पुरःकर्मवर्जने कारणमुपदशयतिसमणुन्नापरिसंकी, अवि य पसंगं गिहीण वारिती। गिणहंति असढभावा, सविसुद्ध एसियं समणा / / 1025 / / समनुज्ञातपुरःकर्मकृतं गृह्णतामप्कायविराधनानुमति स्तत्परिशङ्कितास्तदोषभीताः पुरःकर्म परिहरन्ति / अपि च यदि पुरःकर्मकृतां भिक्षा गृहीष्यामस्ततो गृहिणां भूयः पुरः कर्मकरणै प्रसङ्गो भवति, अतस्तं वारयन्ति, तदग्रहणेतार्थात्प्रतिषेधयन्तोऽशठभावाः सन्तः श्रमणाः सविशुद्धभेषणीयं गृह्णन्ति। अथ हस्तद्वारं विवृणोतिकिं उवधातो हत्थे, मत्ते दव्वे उयाहु उदगम्मि। तिन्नि य ठाणा सुद्धा, उदगम्मीऽणेसणा भणिया / / 1026|| शिष्यः प्रश्नयति--पुरःकर्मणि कृते कि हस्ते उपघातोऽनेषणीयता, उत मानके, आहोस्यित् द्रव्ये, उताहो उदके? सूरिराह-हस्तमात्राकद्रव्याणि त्रीण्यपि स्थानानिशुद्धानि, नैतान्यनेषणीयानि, किं तु उदके अनेषणीयता भणिता। अनौवोपपत्तिमाह - जम्हा उ हत्थमत्ते-हि कप्पती तेहिं चेव तं दव्वं / अत्तट्ठिय परिभुत्तं, परिणत तम्हा दगमणेसिं॥१०२६|| यस्मात्ताभ्यामेव हस्तमात्राकाभ्यां तदेव द्रव्यमात्मार्थितं सत परिभुत्कशेष वा परिणते अप्काये कल्पते, तस्मादुदकमेवानेषणीयं, न हस्तमात्राकद्रव्याणीति। एवमशनाऽऽदिविषयो विधिरुत्कः। सम्प्रति वस्त्रविषयं तमेवाऽऽहकिं उवघातो धोए, रत्ते चोक्खे सुइम्मि वि कयम्मि। अत्तट्ठिय संकामिय, गहणं गीयत्थसंविग्गे // 1028|| धौत मलिनं सत्प्रक्षालितं, रक्तं धातुप्रभृतिद्रव्यै रक्तीकृतं, चोक्ष रजक पादितीवोज्जवलं कारितं, शुचिकमशुच्यादिनोपलिप्त सत् पवित्रीकृतम् / एतानि साध्वर्थ वस्त्रै कृतानि भवेयुः / ततश्च पवित्रीकृतम्। एतानि साध्वर्थ वस्त्रे कृतानि भवेयुः / ततश्च शिष्यः पृच्छति-किं धौते उपघातः, उत रक्ते , उताहो चोक्षे, आहोस्वित् शुचीकृते? अत्राऽपि तदेव निर्वचनम्-नैतेषां चतुण्णमिकतर रिमन्नप्युपघातः किं तूदक एव, यतएतदपि साधूना प्रतिषिद्ध सद्यद्यत्मार्थित संक्रामितं वा अन्यस्मै दत्त, ततो गीतार्थसंविग्नस्य ग्रहण भवति नान्यस्य। किमर्थमतदग्रहणमितिचेत् ? उच्यतेगीयत्थग्गहणेणं, अत्तट्ठियमाइ गिण्हई गीतो। संविग्गग्गहणेणं, तं गिण्हंतो वि संविग्गो।।१०२६॥ गीतार्थग्रहणेनैव ज्ञाप्यते आत्मर्थितं संक्रामितं वा गीतार्थो गृह्वाति नागीतार्थः, संविनग्रहणेन तत्तदात्मार्थिताऽऽदिकं गृहणन्नपि संविग्गोऽसौ नासंमिग्न इति सूच्यते। उत्स्पर्शनद्वारं व्याचष्टएमेव य परिभुत्ते, नवे य तंतुग्गए अधोयम्मि। उप्फुसिऊणं देंते, अत्तट्ठिएँ सेविए गहणं / / 1030 / / यद्वरवं गृहिणा परिधानाऽऽदिना परिमलितं तत्परिभक्तं तद्विपरीत नवं तन्तुभ्य उद्तमात्रं, ततः परिभुक्तं नवं वा तन्तुगतम् अधौत सद् यद् उत्स्पृश्योदकेनाभ्युक्षणं दत्वा ददाति तत्राप्येवमेव द्रष्टव्यं, न कल्पते इत्यर्थः। आत्मार्थितम्, आत्मना वा सेवितं परिभुक्त; ततो ग्रहण कर्त्तव्यम् / बृ० 1 उ०२ प्रक०। जे भिक्खू पुरेकडेण वा हत्थेण वा मत्तेण वा दविएण वा भायणेण वा असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेइ, पडिग्गाहंतं वा साइज्जइ||१८|| इमो सुत्तत्थोहत्थेणं मत्ते व, पच्छापुरकम्मरण गेण्हती जो उ। आहारउवहिमादी, सो पावति आणामादीणि ||6|| पुरस्तात्कर्म पुरःकर्म, पुरेकम्मकरण हत्थेण मत्तेण यचउभङ्गो। पढमभंगे दो चउलहुया, वितियततिएसु एक्कक्के चतुलहुं, चरिमो सुद्धो। उदउल्ल तिसु वि भङ्गेसु मासलहुया, ससणिद्धसु तिसु भने सुपंचरातिदिया।'' नि० चू०१२ उ०मध०। कल्प०1जीतानुसारेण पुरःकर्मणि आचामाम्लं प्रायश्चित्तम / जीत०।