________________ तित्थ 2244 - अभिधानराजेन्द्रः - भाग 4 तित्थ नयनं विदधाति / एतत्तु संघतीर्थमनादिकालालीनत्वेनानन्तानां दाहतृष्णामलानामैकान्तिकमात्यन्तिकं चापनयनं करोति, अत: प्रधानत्वाद्भावतीर्थमुच्यते, नद्यादितीर्थं त्वप्रधानत्वाद् द्रव्यतीर्थमिति भावः // 1034 / / अथवा प्राकृते 'तित्थं'' इत्युक्ते त्रिस्थमित्येतदपिलभ्यते, इत्येतदाहदाहोवसमाऽऽइसुवा, जतिसु थियमहव दंसणाऽऽईसु। तो तित्थं संघो चिय, उभयं व विसेसणविसेस्सं / / 1035 / / अथवा यद्यस्माद्यथोक्तदाहोपशमतृष्णाच्छेदमलक्षालनरूपेषु, यदि वा सम्यग्दर्शनज्ञानचारिखलक्षणेषु त्रिष्वर्थेषु स्थितंततस्त्रिरथं संघ एव, उभयं या संघत्रिस्थितिलक्षणविशेषणविशेष्यरूपं द्वयं त्रिस्थम्। इदमुक्तं भवतिकिं त्रिस्थं? संघः, कश्च संघः? त्रिस्थं, नान्यः, इत्येवं विशेषणविशेष्ययोरुभयं संलुलित त्रिस्थमुच्यत इति / / 1035 / / अथवा प्राकृते 'तित्थं' इत्युक्ते त्र्यर्थमित्यपि लभ्यते,इत्येतदर्श यन्नाहकोहग्गिदाहसमणादओ व ते चेव जस्स तिण्णऽत्था। होइ तियत्थं तित्थं, तमत्थसद्दो फलत्योऽयं / / 1036 / / क्रोधाग्निदाहोपशमलोभतृष्णाव्यवच्छेदकर्म मलक्षालनलक्षणारत एवानन्तरोक्तस्त्रयोऽर्थाः फलरूपा यस्य तथ्यर्थ ,तच संघ एव, तदव्यतिरिक्त ज्ञानाऽऽदित्रयं वा त्र्यर्थं प्राकृते तित्थमुच्यते। अर्थशब्दश्चाय कलार्थो मन्तव्यः / इदमुक्तं भवति-भगवान् संघः, तदव्यतिरिक्तज्ञानाऽऽदित्रयं वा महातरुरिव भव्यनिपेव्यमाणं क्रोधाग्निदाहशमनाऽऽदिकारवीनान् फलत्यतस्त्यर्थमुच्यत इति / / 1036 / / अथवा वस्तुपर्यायोऽत्रार्थशब्द इत्याहअहवा सम्मईसण-नाणचरित्ताइ तिण्णि जस्सऽत्था। तं तित्थं पुव्वोइयमिह अत्थो वत्थुपज्जाओ / / 1037 / / अथवा सम्यग्दर्शनाऽऽदयस्त्रयोऽर्था यस्य तल्यर्थम, अर्थशब्दश्चात्र वस्तुपर्यायः, त्रिवस्तुकमित्यर्थः / तच्च संघ एव, तदव्यतिरिक्तत्वात्, त एव वा सम्यग्दर्शनाऽऽदयस्त्रयोऽर्थाः समाहृताः व्यर्थ , संख्यापूर्वत्वात्. स्वार्थत्वाच्च द्विगोरिति / / 1037 / / तदेवं संघो भावतस्तीर्थ त्रिस्थं, व्यर्थ वेति प्रतिपाद्य साम्प्रतमिदमेव जैन तीर्थमभिप्रेतार्थसाधकं, नान्यदिति प्रमाणतः प्रतिपादयन्नाहइह सम्मंसद्धाणो-बलद्धिकिरियासभावओ जइणं। तित्थमभिप्पेयफलं, सम्मपरिच्छेयकिरिय व्य / / 1038|| इह जैनमेव तीर्थमभिप्रेतार्थसाधकमिति प्रतिज्ञा, सम्यग्श्रद्धानोपलब्धिक्रियास्वभावत्वात्, सम्यग्दर्शनज्ञानचारित्राऽऽत्मकत्वादित्यर्थः / इह यत् सम्यश्रद्धानोपलब्धिक्रियाऽऽत्मक तदिष्टार्थसाधक दृष्ट, यथा सम्यगपरिच्छेदवती रोगापनयनक्रिया, यच्चेष्टार्थसाधक न भवति, तत् सम्यग् श्रद्धानोपलब्धिक्रियाऽऽत्मकमपि न भवति, यथोन्मत्तप्रयुक्तक्रिया, तथा च शेषतीर्थानि / इदमुक्तं भवति-यथा करयचिन्निपुणवैद्यस्य सम्यग् रोगाऽऽदिस्वरूप विज्ञाय विशुद्धश्रद्धानवत आतुरस्य सम्यगौषधप्रयोगाऽऽदिक्रियां कुर्वतोऽभिप्रेतार्थसिद्धिर्जायते, एवं जैनतीर्थादपीति / / 1038|| अन्यतीर्थान्यप्येवंविधानि भविष्यन्ति? नेत्याह-- नाभिप्पेयफलाई, तयंगवियलत्तओ कुतित्थाई। वियलनयत्तणओ चिय, वियलाई वियलकिरिय व्य।।१०३६।। सुगताऽऽदिप्रणीतानि कुतीर्थानि नाभिप्रेतफलानि / कुत? इत्याह-- (तयंगेत्यादि) तस्याभिप्रेतार्थस्याङ्गानि तदङ्गानि सम्यग्ज्ञानाऽऽदीनि कारणानि, तद्विकलत्वात्तद्रहितत्वात्, नयविकलत्याच विकलानि तानि / सर्वेरेव ह्येकैकांशग्राहिभिर्नयैर्मिलितैः संपूर्णमनन्तधर्माऽऽत्मक वस्तु निश्चीयते; शेषतीर्थानि त्वेकव्यादिनयमात्रमतावलम्बित्वेन समानयर्थिकलान्येवेति तानि नयविकलानि, ततो न सम्पूर्णाभिप्रेतफलस्य साधकानीत्यर्थ: विकलक्रियावदिति; यथा भिषक्प्रतीचारकाऽऽतुरीषधाऽऽद्यन्यतरागविकला क्रिया न संपूर्णाऽभिप्रेतफलसाधनी, तथा कुतीर्थान्यपीति। तदेवं यथोक्तप्रकारेण द्रव्यभावतीर्थप्ररूपणा कृता // 1036 / / अथ प्रकारान्तरेण तत्प्ररूपणां कर्तुमाहअहव सुहोतारुत्तारणाइ दव्वे चउव्विहं तित्थं। एवं चिय भावम्मि वि, तत्थाऽऽइमयं सरक्खाणं / / 1040 / / तव्वणियाणं बीयं, विसयसुहकुसत्थभावणाधणियं / तइयं च बोडियाणं, चरिमं जइणं सिवफलं तु / / 1041 // इह द्रव्यतीर्थ चत्वारो भङ्गाः / तद्यथा-सुखावतारं सुखोत्तारम, सुखावतारं दुरुत्तारम्, दुःखावतारं सुखोत्तारम्, दुःखावतारं दुरुत्तारम् / 4 / एवं भावतीर्थेऽपीयं चतुर्भङ्गी द्रष्टव्या / इह च यत्र सुखेनैवावतरन्ति प्रविशन्ति प्राणिनस्तत्सुखावतारम्, सुखेनैव यत उत्तरन्ति-सुखेनैव यद् मुशन्तीत्यर्थः, तत्सुखोत्तारम्, इत्याद्य-भङ्ग वर्तितीभावार्थः / एवमन्यत्रापि। एतच सरजस्कानां शैलानां सम्बन्धि वेदितव्यम्। तथाहिरागद्वेषकषायेन्द्रियपरीष होपसर्गमनोवाक्कायजयाऽऽदिलक्षणस्य तथाविधदुष्करकष्टानुष्ठानस्य तैः क्रियमाणस्यादर्शनात, यथा कथञ्चिस्वरूपतयाऽपि च तैव्रतपरिपालनस्याभिधानात्सुखेनैव प्राणिनस्तदीक्षा प्रतिपद्यन्ते, इति तत्तीर्थस्य सुखावतारता / तच्छाखेषु च न तथाविधाऽऽवासकस्वभावा काचिन्निपुणा युक्तिरस्ति, यद्वासितान्तरात्मा पुमास्तद्दीक्षा न परित्यजेत्। किं च- "शैवो द्वादश वर्षाणि, व्रतं कृत्वा ततः परम् / यद्यशक्तस्त्यजेद्वापि, याग कृत्वा व्रतेश्वरे / / 1 / / ' इत्यादिना दीक्षात्यागस्य तैर्निर्दोषतयाऽप्यभिधानात्सुखेनैव तद्दीक्षा जन्तवः परित्यजन्ति, इति उत्तीर्थस्य सुखोत्तारतेति 1 / द्वितीयभङ्गवर्ति तीर्थ (तव्यणियाणं ति) सुगताना संबन्धि मन्तव्यम्। तथाहि'मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चाऽपराहे। द्राक्षाखण्डे शर्करा चार्द्धरात्रे. मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः॥१॥" ''मणुन्नं भोयण भोचा, मणुण्णं सयणाऽऽसणं। मणुण्णंसि अगारंसि, मणुन्नं झायए मुणी।।१॥" इत्यादेस्तैरभिधानतो विषयसुखसिद्धेस्तत्तीर्थस्य सुखावतारताः तथा-कुशास्त्रोक्तनिपुणयुक्तिभिस्तीव्रवासनोत्पादाद, वतत्यागे च तैर्महतः संसारदण्डाऽऽदेः प्रतिपादनात्, तत्समीपगृहीतव्रतस्य दुष्परित्याज्यत्वात्तत्तीर्थस्य दुरुत्तारता / इमा च युक्ति भाष्यकार: स्वयमेव किशिदाह- "विसयसुह'' इत्यादि रतार्थम् /