________________ णिसीहिया 2145 - अभिधानराजेन्द्रः - भाग 4 णिसीहिया सपाणंजाव मक्कडासंताणयं, तहप्पगारं णिसीहियं अफासुयं / अणेसणिजं लाभे संते णां वेतिस्सामि / / साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयम् / तचेदम्-(से इत्यादि) स भावभिक्षुर्यदि वसतेरुपहताया अन्यत्र निशीथिकां स्वाध्यायभूमि गन्तुमभिका क्षेत, तां च यदि साण्डां यावत्ससन्तानकां जानीयात्ततोऽप्रासुकत्वान्न परिगृह्णीयादिति। किं च निशीथिकायामन्योऽन्यक्रियासे मिक्खू वा भिक्खुणी वा अभिकंखइ णिसीहियं गमणाए, से जं पुण णिसीहियं जाणे ज्जा-अप्पपाणं अप्पवीयं०जाव भक्कडासंताणयं तहप्पगारं णिसीहं फासुयं एसणिज्जं लाभे संते वेतिस्सामि, एवं सेज्जागमेणं णेयव्वंजाव उदयपसूयाए त्ति / / (से इत्यादि) स भिक्षुरल्पाण्डाऽऽदिकां गृह्णीयादिति / एवमन्यान्यपि सूत्राणि शय्यावन्नेयानि यावद्यत्रोदकप्रसूतानि कन्दाऽऽदीनि स्युस्तां न गृह्णीयादिति। तत्र गतानां विधिमधिकृत्याऽऽहजे तत्थ दुवग्गा वा तिवग्गा वा चउवग्गा वा पंचवग्गा अभिसंधारेइणिसीहियं गमणाए, ते णो अण्णमण्णस्स कायं आलिंगेज्जा वा, विलिंगेज्जा वा, चुंबेज्जा वा, दंतेहिं वा णहेहि वा अच्छिदेज वा, एवं खलु तस्स मिक्खुस्स वा भिक्खुणीए वा सामग्गियं जं सव्वद्वेहिं सहिए समिए सदा जएज्जा, सेयमिणं मण्णेज्जा सि त्ति बेमि।। (जे इत्यादि) ये तत्र साधयो निषेधिकाभूमौ द्वित्राऽऽद्यागच्छेयुः, ते नान्योऽन्यस्य कायं शरीरमालिङ्गे युः, परस्परं गात्रसंस्पर्श न कुर्युरित्यर्थः / नापि विविधमनेकप्रकारं यथा मोहोदयो भवति तथा विलिङ्गेयुरिति / तथा कन्दर्पप्रधाना वक्त्रसंयोगाऽऽदिकाः क्रिया न कुर्युरित्येतस्य भिक्षोः सामग्ययद्रसौ सर्वार्थरशेषप्रयोजनैरामु-ष्मिकैः सहितः समन्वितस्तथा समितः पञ्चभिः समितिभिः, सदा यावदायुस्तावत् संयमानुष्ठाने यतैतत्तदेव य श्रेय इत्येवं मन्येतेति ब्रवीमीतिपूर्ववत् / निशीथिकाऽध्ययनं द्वितीयन्। आचा०२ श्रु०२ चू०२ अ०। *नषेधिकी स्त्री०। 'षिध' गत्यामित्यस्य निपूर्वस्य घञि निषेधः / प्राणातिपाताऽऽदिनिवृत्तिः प्रयोजनमस्या नैषेधिकी। प्राणातिपातनिवृत्तायां तन्वाम्, ध०१ अधि०। आव०। उत्त०। निषेधो गमनाऽऽदिव्यापारपरिहारः, स प्रयोजनमस्याः, तमर्हतीति वा नैषेधिकी। 02 उाजीता निषीदनस्थाने, जी०३ प्रति०४ उारा०निषेधः प्रमादेभ्य आत्मनो व्यावर्तनं, तत्र भवा नैषधिकी। ग०२ अधि०॥ निषेधेन निर्वृत्ता नषेधिकी। व्यापारान्तरनिषेधरूपायां सामाचार्याम, आश्रये प्रविशतो (स्था० 10 ठा०) वसतिप्रवेशे निषिद्धोऽहं गमनक्रिययेति भणने, बृ० १उ०। ध०। रा०ा आ०म० निषेधेनासंवृतगात्रचेष्टानिवारणेन निवृत्ता तत्प्रयोजना च या शय्याऽऽदिप्रवेशक्रिया सा नैषेधिकी / पञ्चा० 12 विव०। सामाचारीभेदे, पञ्चा साम्प्रतं नषेधिकीमाह एवोग्गहप्पवेसे, णिसीहिया तह णिसिद्धजोगस्स। एयस्सेसो उचिओ, इयरस्स ण चेव नत्थि त्ति // 22 // एवमुक्तेनाऽऽवश्यकीयन्यायेन ज्ञानाऽऽदिकार्यलक्षणेन, अवग्रह-प्रवेशे शय्याऽऽदिप्रवेशने, नैषेधिकी सामाचारीविशेषो भवति। तथेत्ययवग्रहप्रवेशापेक्षया विशेषणान्तरसमुच्चयार्थः / तचेदम्- निषिद्धयोगस्येत / अथवा तथाऽऽगमन्यायेन, निषिद्धयोगस्य निरुद्धासद व्यापारस्य। करमादियमस्येत्याह-एतस्य निषिद्धयोगस्य, एष नैषेधिकीशब्दस्यात्वर्थयोगो, नैषेधिकीशब्दोचार इत्यन्ये, उचितः संगठः / विपर्ययमाह-- इतरस्यानिषिद्धयोगस्य पुनः, नैव उचित एष इति प्रकृतम् / चशब्दः पुनरर्थ: / स च सम्बन्धित एव / कस्मान्नोचित इत्याह-नास्तीति न विद्यते अन्वर्थ इति कृत्या / इति गाथाऽर्थः / / 22 / / अथ करमादवग्रहप्रवेशे नैषेधिकी विधेयेत्यत आहगुरुदेवोग्गहभूमीऍ जत्तओ चेव होति परिभोगो। इट्ठफलसाहगो सइ, अणिट्ठफलसाहगो इहरा / / 23 / / गुरुदेवावग्रहभूम्या आचार्यदेवाधिदेवाऽऽश्रयभुवः, यत्नत एव आशातनापरिहारप्रयत्नेनैव, चैवशब्दोऽवधारणे / भवति वर्तते परिभोगः / स च किंभूतः? इत्याह- इष्टफलसाधकः ईप्सितार्थनिष्पादकः, कर्मक्षयहेतुरित्यर्थः / सकृत्सर्वदा। उक्तव्यतिरेक-माहअनिष्टफलसाधकः, कर्मबन्धहेतुरित्यर्थः / इतरथाऽन्यथा, अप्रयत्नत इत्यर्थः / गुरुदेवा व ग्रहभूमेः परिभोग इति प्रकृतम्। तत्र गुर्ववग्रहस्वरूपमावश्यकेऽभिहितम् / यथा-"आयप्पमाणमेत्तो, चउद्दिसिं होइ उग्गहो गुरुणो।" इति / देवावग्रहस्तु न वापि ग्रन्थे दृष्टः, केवलं भण्यमानः श्रुतः / यथा-"सत्थोगहोय तिविहो, उक्कोसजहन्नमज्झिमो चेव। उक्कोसो *सट्ठिहत्थो, जहण्ण नव सेस विचालो॥१॥” इति गाथाऽर्थः // 23 // देवाऽऽद्यवग्रहभूमेरेव प्रयत्नपरिभोग्यतां समर्थयन्नाहएत्तो ओसरणाऽऽदिसु, दंसणमेत्ते गयाऽऽदिओसरणं। सुबइ चेइयसिहरा-इएसु सुस्सावगाणं पि॥२४॥ (एत्तो त्ति) यतो गुर्वाद्यवग्रहभूमेः प्रयत्नपरिभोग इष्टफलसाधको भवतीतोऽस्मात्कारणात, अवसरणाऽऽदिषु जिनसमवसरणप्रभृतिषु विषयभूतेषु, तेषामित्यर्थः / षष्ठ्यर्थत्वात्सप्तम्याः। आदिशब्दात्समवसरणसम्बन्धिमहेन्द्रध्वजचामरतोरणाऽऽदिपरिग्रहः। दर्शनमात्रे दृष्टिमात्र एव सति, गजाऽऽद्यपसरणं गजाश्वशिबिकाप्रभृतिभ्यो देवावग्रहगमनप्रवहणेभ्योऽवतरणं प्रयत्नविशेषलक्षणम्, श्रूयते आकर्ण्यते प्रवचने तेषु तेष्वाख्यानकेषु, तथा चैत्यशिखराऽऽदिकेषु जिनभवनशिखरकलसध्वजप्रभृतिषु, एषामित्यर्थः / दर्शनमात्र इति वर्तते / सुश्रावकाणामपि श्रमणोपासकविशेषाणामपि, सभवसरणजिनभवनाऽऽदिषु प्रवेष्टुकामानामिति गम्यते। सुसाधूनां पुनर्गुर्वाद्यवग्रहप्रेवशे प्रयत्नो विधेय इत्यर्थसंसूचनार्थोऽपिशब्दः / सुश्रावकग्रहण चेतरेषामुक्तविधेरन्यथात्वसंभवोपदर्शनार्थम्। इति गाथाऽर्थः // 24 // अथ यस्य नैषेधिकी भावती भवति, तमभिधित्सुराहजो होइ निसिद्धप्पा, णिसीहिया तस्स भावतो होइ।