________________ जीव 1522- अभिधानराजेन्द्रः - भाग जीव नन्वेव निश्चयतः सिद्धस्याऽजीवत्वे भवद्भिरिष्यमाणे भवतामेव ग्रन्थे संसारिसिद्धसाधारणजीवपदाथीभि धानं कथम् ? इत्याशङ्कायामाह -- यजीवत्वं क्वचिद् द्रव्य-भावप्राणयन्वयात् स्मृतम्। विचित्रानेगमाऽऽकूतात्, तद् ज्ञेयं न तु निश्चयात् // 50 // (यदिति) यद् जीवत्वं क्वचिद् ग्रन्थे द्रव्यप्राणानां, भावप्राणानां चान्वयादेव करणात्स्मृतं, संसारिसिद्ध-साधारण्यमिति विशेषः। तद् विचित्रो विविधावस्थो यो नैगमस्तत्याऽऽकूतादभिप्रायाद् ज्ञेयम, न तु निश्चयात् एवं भूतनयात्। तथा चैवं भूतनयेनैव सिद्धमजीवं वयं प्रतिजानीमहे, न तु नयान्तराभिमतेन जीवत्वेऽपि विप्रतिपद्यामहे, इति शुद्धाशुद्धेन नैगमनयेन साधारणजीवत्वाभ्युपगमेऽपि न क्षतिः / इयांस्तु विशेषः प्रसिद्धनैगम औदयिकभावोपलक्षितमात्मत्वाऽऽख्यं पारिणामिकभावमेव जीवपदप्रवृत्तिनिमित्तमभ्युपैति। तद्विशेषश्च कश्चिदुपचारोपजीवी द्रव्यभावप्राणान्यतरवत्त्वेनानुगतमौदयिक क्षायिकभावद्वयमितिनेद सिद्धान्तार्णवे नयविकल्पकल्लोलवैचिऽयं तत्संप्लअव्यसनिनां विक्षोभाऽऽवहम् // 50 // ननु 'जीव' प्राणधारणे इत्यत्रा भावप्राणधारणमेव धात्वर्थं , विवक्षितत्वात, निश्चयतः सिद्धस्य जीवत्वं समर्थयिष्याम- इत्याकाडक्षायामाह - धात्वर्थे भावनिक्षेपात्, परोक्तं न च युक्तिमत्। प्रसिद्धार्थोपरोधेन, यनयान्तरमार्गणा॥५१॥ (धात्वर्थ इति) धात्वर्थे जीवत्यर्थे, भावनिक्षेपाद् भावसङ्केतग्रहात्, परोक्तं निश्चयतः सिद्ध एव जीव इति दिगम्बरोक्तं, न च नैव, युक्तिमत् यद् यस्मात् प्रसिद्धोऽनादिधातुपाठाऽऽदिप्रतीयमानो योऽर्थः, तदनुरोधेन, नयान्तरस्य मार्गणा विचारणा भवति। तथा च यादृशधात्वर्थमुपलक्षणीकृतेतरनयार्थप्रतिसन्धानं तादृशधात्वर्थप्रकारकजिज्ञासयैवभूताभिधानस्य सांप्रदायिकत्वान्न तत्रा भावनिक्षेपाऽऽश्रयणं युक्तमित्यर्थः / अन्यथा तत्रापि निक्षेपान्तराश्रयणेऽनवस्थानात् प्रकृतमात्रा-पर्यवसानादन्ततो ज्ञानाऽद्वैते शून्यतायां वा पर्यवसानात्। किञ्च एतादृगुपरितनैवंभूतस्य प्राक्तनैवंभूताभिधानपूर्वमेवाभिधानं युक्तम्, अन्यथाऽऽप्राप्तकालत्वप्रसङ्गात् / तस्माद् व्यवहाराऽऽद्यभिमतव्युत्पत्त्यनुरोधेनौदयिकभावग्राहकत्वमेवास्य सूरिभिरुक्तं युक्तमिति स्मर्तव्यम्।नचेन्द्रियरूपप्राणानां क्षायोपशमिक त्वात् कथमेवंभूतस्यौदयिभावमात्राग्राह कत्वमित्याशङ्कनीयम्, प्राधान्येनायुष्कमोदयलक्षणस्यैव जीवनार्थस्य ग्रहणात्। उपहतेन्द्रियेऽप्यायु-रुदयेनैव जीवननिश्चयादिति दिक् // 51 // शङ्काशेषमुपन्यस्य परिहरतिशैलेशयन्त्यक्षणे धर्मो, यथा सिद्धस्तथाऽसुमान्। वाच्यं नेत्यपि यत्तत्रा, फले चिन्तेह धातुगा / / 52|| (शैलेश्यन्त्यक्षण इति) शैलेश्या अयोगिगुणस्थानस्यान्त्यक्षणे चरमक्षणे, यथा निश्चयतो धर्मः, तदक्तिनकालभावी तुव्यवहारत एव / तदुक्तं धर्मसंग्रहण्यां हरिभद्राऽऽचार्य :- 'सो उभयक्खयहेऊ, | सेलेसीचरमसमयभावी जो / सेसो पुणच्छियओ, तस्सेह पसाहगो भणिओ ॥१॥"त्ति / तथाऽसुमान् जीवोऽपि निश्चयतः सिद्ध एव भविष्यतीत्याप न वाच्यम्, यतस्तत्रा "सो उभयचक्खण' इत्यादिगाथायां धारयति सिद्धिगतावात्मानमिति धर्मः' इति फले फलरूपे धात्वर्थे चिन्ता।सा च-कुर्वद्रूपत्वेन कारणत्वं वदत एवंभूतन-- यस्य मते शैलेश्यन्त्यक्षण एव धर्मपदार्थसिद्धिसाक्षिणी, तदनन्तरं सिद्धिसाधारणरूपसाफल्यव्यवधानात् / इह तु धातुगा धात्वर्थायवच्छिन्नस्वरूपविषयिणी चिन्ता। सा च तेन सहाऽव्यवधानं गवेषयेत, स्वरूपं तु प्रसिद्ध्यनुरोधेन संसारिण्येव पर्यवमाययेत्, न तु सिद्ध इति महान् विशेषः / स्यादेतत् धर्म पदेऽपि धात्वर्थो धारणसामान्यमेव, तच्च यतो विशेषतात्पर्यवशात् सिद्धसाधारणरूपविशेषे पर्यवस्यति, तथा जीवपदार्थोऽपि विशेषे पर्यवस्यतीति सिद्ध एव दत्तपदो भविष्यतीति / मैवम्। 'जीव' प्राणधारणे इत्यत्रा प्राणपेदे समभिव्याहृते साधारणस्य भूरिप्रयोगवशादयिकप्राणधारण एव पर्यव सानात्। अत एव गोपदस्य नानाऽर्थत्वेपिततो भूरिप्रयोगवशात्सास्नाऽऽदिमत एवोपस्थितेः, अश्वाऽऽदेस्तुपदान्तर समभिव्याहाराऽऽदिनेति तान्त्रिकाः। तदेवमेवंभूतनयाभिप्रायेण सिद्धो न जीव इति व्यवस्थापितम् / यदि पुनः प्रस्थकन्यायाद् विशुद्धतरनैगमभेदमाश्रित्य प्रागुक्त स्वग्रन्थगाथा व्याख्यायते परैः, तदा न किञ्चिदस्माकं दुष्यतीति किमल्पीयसि दृढतरक्षोदेन / / "ऐन्द्री ततिः प्रणयिपुण्यमिवाडरागैर्यत्पादपद्मकिरणैः कलयत्युदीतम्। स्नात्राम्भसा दलितयादव दुष्टकष्ट, शङ्कखेश्वरप्रभुमिमं शरणीकरोमि" ॥५२सा नयो० / स च द्विविधः संसारी, सिद्धश्च / जी० 3 प्रति० / विशे० / सूत्र० / संसारिणो दशविधप्राणधारणाजीवाः, सिद्धाश्चज्ञानाऽऽदिभावप्राणधारणात् / स्या० / प्राणाश्च द्विधा द्रव्यप्राणाः, भावप्राणाश्च / तत्रा द्रव्यप्राणा इन्द्रियाऽऽदयो, भावप्राणा ज्ञानाऽऽदीनि। द्रव्यप्राणैरपि प्राणिनः संसारसमापन्ना नारकाऽऽदयः, केवलभावप्राणैः प्राणिनो व्यपगतसमस्तकर्म सन्नाः सिद्धाः। प्रज्ञा०१ पद। जी०। जीवानां द्वैविध्यम् - दुविहा सव्वजीवा पण्णत्ता। तं जहा-सिद्धाचेव, असिद्धाचेव / दुविहा सव्वजीवा पण्णत्ता। तं जहा-सइंदिया चेव, अणिंदिया चेव / (स्था० 2 ठा० 4 उ०) दुविहा सव्वजीवा पण्णत्ता / तं जहा-सकाइया चेव, अकाइया चेव! दुविहा सव्वजीवा पण्णत्ता। तंजहा-सजोगाचेव, अजोगाचेवादुविहासव्वजीवा पण्णत्ता। तं जहा-सवेदगा चेव, अवेदगा चेव / (जी०१ प्रति०) दुविहा सव्वजीवा पण्णत्ता। तं जहा-सकसाया चेव, अकसाया चेव / (स्था०२ ठा०४ उ०) दुविहा सय्वजीवा पण्णत्ता। तं जहासलेसा य अलेसा य / (जी०) दुविहा सव्वजीवा पण्णत्ता। तं जहा-णाणी चेव, अण्णाणी चेव / (जी०) दुविहा सव्वजीवा पण्णत्ता / तं जहा सागारोवउत्ता चेव, अणागारोवउत्ता चेव / (जी०) दुविहा सव्वजीवा पण्णत्ता / तं जहा-आहारगा चेव, अणाहारगा चेव / जी०१ प्रति०। "दुविहा'' इत्यादि कण्ट्यम्। (स्था०) "सइंदिया'' इत्यादि। सेन्द्रि