SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ जीयववहार १५१७-अभिधानराजेन्द्रः - भाग 4 जीयववहार भणितं च"गुरुपक्खे उक्कोसो, मज्झ जहन्नो त एव लघुए वि। एमेव य लहुसे वी, इय एसो नवविहो होइ1१11 गुरुपक्खे छम्मासो, पणमासो चेव होइ उक्कोसो। मज्झो चउ-तेमासो, दुमास-गुरुमासग जहन्नो / / 2 / / लहुभिन्नमासवीसा, लहुपक्खुक्कोसमज्झिमजहन्ना। एनरसगं दस पणगं.लहुसुक्कोसाइतिविहेसो।।३।। आवत्तितवो एसो, नवभेओ वणिओ समासेण। अहुणा उ सत्तवीसो, दाणतयो तस्सिमो होइ" |4|| तस्याऽऽपत्तितपस इदं सप्तविंशतिभेदं दानतपो भवति / तत्रा गुरुपक्ष एकोऽपि नवधा / तद्यथा-उत्कृष्टोत्कृष्टः 1, उत्कृष्टमध्यमः 2, उत्कृष्टजघन्यः 3, मध्यमोत्कृष्टः४,मध्यममध्यमः५, मध्यमजघन्यः 6, जघन्योत्कृष्टः 7, जघन्यमध्यमः 8, जघन्यजघन्यश्चेति 6 / एवं लघुपक्षोऽपि नवधाहा एवं लघुकपक्षोऽपि चैवमेव नवधाह। सर्वमीलने सप्तविंशतिभेदा भवन्ति। भणितंच"गुरु लघु-लघुसगपक्खो, इविक्को नवविहो मुणेयव्यो। उक्कोसुक्कोसो वा 1, उक्कोसगमज्झिम 2 जहन्नो ३य।।१।। मज्झुकोसो मज्झिम-मज्झो 2 तह होइ मज्झिमजहन्नो 3 / इय णेय जहन्नो वी, गुरुपक्खे हुंति नवभेआ / / 2 / / पुव्वुत्ता नव भेया, नेया सब्वे तहेव लहुपक्खे। नव चेव लहुसपक्खे, सत्तावीसं भवतेए' // 3 // तत्रोदमेव सप्तविंशतिविधं दानतपणे व्यक्तीकुर्वत्रिह गुरुपक्षे षण्मासिकपञ्चमारिसकाऽऽख्योत्कृष्टाऽऽपत्तौ सत्याम् - उत्कृष्टोत्कृष्ट द्वादशं तपः, उत्कृष्टमध्यमदशमम,उत्कृष्टजघन्यमष्टमम्। चतुर्मासिकत्रिमासिकाऽऽख्यमध्यमाऽऽपत्तौमध्यमोत्कृष्ट दशमम, मध्यममध्यममष्टमम्, मध्यमजघन्यं षष्ठम्। द्विमासिकगुरुमासाऽऽख्यजघन्याऽऽपत्तौ -- जघन्योत्कृष्टमष्टमम्, जघन्यमध्यमं षष्ठम्, जघन्यजघन्यं चतुर्थम्। लघुपक्षे लघुमासाऽऽख्योत्कृष्टाऽऽपत्तौ-उत्कृष्टोत्कृष्टं दशमम्, उत्कृष्टमध्यममष्टमम्, उत्कृष्टजघन्य षष्ठम्। भिन्नमासाऽऽख्य-मध्यमाऽऽपत्ती, मध्यमोत्कृष्टमष्टमम्, मध्यममध्यमं षष्ठम्, मध्यमजघन्यं चतुर्थम् / विशाऽऽख्यजघन्याऽऽपत्तौ-जघन्योत्कृष्ट षष्ठम्, जघन्यमध्यमं चतुर्थम्, जघन्यजघन्य-माचामाम्लम्। लघुकपक्षे पञ्चदशाख्योत्कृष्टाऽऽपत्तौउत्कृष्टोत्कृष्टमष्टमम्, उत्कृष्टमध्यमंषष्ठम्, उत्कृष्टजघन्यं चतुर्थम्। दशका ऽऽख्यमध्यमाऽऽपत्तौ मध्यमोत्कृष्टं षष्ठम्, मध्यममध्यमं चतुर्थम्, मध्यमजघन्यमाचामाम्लम्। पञ्चकाऽऽख्यजघन्याऽऽपत्तौजघन्योत्कृष्ट चतुर्थम, जघन्यमध्यममाचामाम्लम्, जघन्यजघन्यमेकाशनमिति। एवं वर्षासु सप्तविंशतिविधं दानतपः। यदाह"वारसग दसम अट्टम, छप्पणमासेसु तिविहदाणेणं। चउ-तेमासे दस अ-ट्टछट्ट उक्कोसगाइतिहा।।१।। एमेवुकोसाई. दुमासगुरुमासिए तिहा दाणं। अट्ठम छट्टचउत्थं, नवविहमेयं तु गुरुपक्खे।।स। दसमं अट्ठम छट्ट. लहुमासुक्कोसगाइ तिह दाणं। अट्टम छट्ट चउत्थं, उक्कोसाइंय तिहा भिन्ने।।३।। छट्टचउत्थायाम, उक्कोसाइंयदाणवीसाए। लहुपक्खम्मि नवविहो, एसो वीओ भवे नवगो॥४।। अट्टम छट्ठचउत्थं, एसुक्कोसाइ दाण पन्नरसे। छट्टचउत्थायाम, दससू तिविहे य दाण भवे / / 5 / / खमणाऽऽयामेगासण, तिविहुक्कोसाइदाण पणगम्मि। लहुसे वी तइएसुं, सत्तावीसे य वासासु // 6 // एवं यथा वर्षासूत्कृष्टाऽऽद्यापत्तिनवकेसतिदानतपसोद्वादशमादौ कृत्वा एकाशनान्ताः सप्तविंशतिभेदाचारणिकया कृताः; तथा शिशिरेऽपि; केवलं दशममादौ कृत्वा पुरिमार्द्धान्ताः / ग्रीष्मे पुनरष्टममादौ कृत्वा निर्विकृत्यन्ताः सप्तविंशतिभेदाः कार्याः, यन्त्रस्थापनातश्च ज्ञेयाः / वर्षाशिशिरग्रीष्माणां सप्तविंशतित्रयमीलने चैकाशीतिदीनतपसो भेदा भवन्ति / अर्द्धस्य समविभागरूपस्य एकदेशस्य एकादिपदाऽऽत्मकस्यापक्रमणं निवर्त्तनं, शेषस्य तुबुद्ध्यादिपदसङ्घाताऽऽत्म कस्यैकदेशस्यानुवर्त्तनं यस्यां रचनाया सा समयपरिभाषयाऽ पक्रान्तिरूच्यते। यथा वर्षासुगुरुतमे उत्कृष्टतो द्वादशमं, मध्यमतोदशमं, जघन्यतोऽष्टमम् / एषां मध्यादेक देशो द्वादशलक्षणोऽपक्रामति, द्वादशमाष्टमे गुरुतरं गच्छतोऽग्रेतनं च षष्ठ मील्यते, ततश्च गुरुतरे उत्कृष्टतो दशमं, मध्यमतोऽष्टम, जघन्यतः षष्टम् / एषां मध्यादेकदेशो दशमलक्षणो निवर्तते, अष्टमषष्ठ गुरुकं गच्छतोऽग्रेतनं चतुर्थं मील्यते, ततश्च गुरुके उत्कृष्टतोऽष्टमं, मध्यमतः षष्ठं, जघन्यतचतुर्थमिति / यथा चेयमेकाशीतिकदानतपोयन्त्रके वर्षाऽऽद्यनवकेऽर्धापक्रान्ति-दशिता, तथैव सर्वेष्वपि नवकेषु विलोकनीया। यदाह"सिसिरे दसमाईणं, चारणभेएण सत्तवीसेण। वायइ पुरिमट्टम्मी, अद्भुक्कती तह चेव / / 1 / / अट्ठममाई गिम्हे, चारणभेएण सत्तवीसेण। तह चेव अधुकंती, वायइ निव्वीयए नवरं ||2|| एतैर्दानैरापत्तयः स्वका नियमात्सर्वा बोद्धव्याः एकविधाऽऽपत्तिषु च द्वादशाऽऽद्य तपः कर्तुमसहिष्णाही सस्तावत्कार्यों यावन्नवानामपि पडक्तीनां स्थितमेकपर्यन्तकोष्ठकगतं चतुर्था ऽऽदि निर्विकृतिकान्तं तपः, ततस्तस्य दीयते। तत्करणे ऽप्यशक्तस्य पुनस्तथैव ह्रासयेत्। स्वस्थानतपो दातुं वर्षासु वर्षाकालोक्तं, शिशिरोक्तं शिशिरे, ग्रीष्मोक्तं ग्रीष्मे / तदपि कर्तुमक्षस्य परस्थानं वर्षास्वपि शिशिरोक्तं, ग्रीष्मोक्तं वा हासयद्भिर्दीयते। एवं स्थाने स्थाने वर्षाशिशिरग्रीष्मरूपे ह्वासयद्भिस्तावन्नेयं यावन्निर्विकृतिकमात्रमेव देयतया स्थितम्। कैश्चित्त्वेवं व्याख्यातम् -- आधाकर्मिकाऽऽद्युक्तौ या षड्जीवनिकायविराधना, तजनितं प्रायश्चित्तं स्वस्थानम्, आधाकर्माऽऽद्यासेवाभणितं च चतुर्थादिकं परस्थानं, तद्दाने कथमेव हासविधिज्ञेय इति? उक्तंच''एएहिं दाणेहिं, आवत्तीओ सया सया नियमा। सव्वा बोद्धव्वाओ, असहस्सिक्किकहासणया / / 1 / / जावइयं इक्षिक, तंपी हासिज्ज असहुणोताव। दाउंसट्टाणतवं,परठाणं दिज्ज एमेव || एवं ठाणे ठाणे, हिट्ठा उत्तं कमेण हासित्ता। नेयव्वं जावइयं, नियमा निव्वीइयं इकं // 3 // एष नवविधो व्यवहारः। एकाशीतिकस्य नवविधव्यवहार-यन्त्रकस्य स्थापना (1518 पृष्ठेऽग्रे) अत्र च उत्कृष्टाऽऽदीनिजघन्यान्तानि तपासि स्थाप्यन्ते, एवं सूखेन ह्रासः कर्तुं शक्यते, सूत्रोतुजघन्याऽऽदीन्युत्कृष्टान्तान्युक्तानि, तद्विचित्रात्वात् सूत्रारचनाया इति। उक्तं कालविषय सप्रपञ्च प्रायश्चित्तम्॥६७। (भावाऽऽदिविषयं प्रायश्चित्तं तु तवोरिह' शब्द वक्ष्यते)
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy