________________ जिणकप्प 1475 - अभिधानराजेन्द्रः - भाग 4 जिणकप्प आचामाम्लप्रतिमाद्वारद्वयमाह - आयंविलं न गेण्हइ, जंच अणायंविलं विलेवाडं। न य पडिमा पडिवज्जइ, मासाई जा य सेसा उ॥ आयामाम्लमसौ न गृण्हाति। पुरीषाभेदा विदोषसंभवात्। अनायामाम्लमपि, यल्लेपकृतं तन्न गृह्यति। न च प्रतिमा मासिक्यादिका, असौ प्रतिपद्यते। याश्च शेषा भद्रमहाभद्रादिकाः प्रतिमा स्ता अपि न प्रतिपद्यते। स्वकल्पस्थितिप्रतिपालनमेव, तस्य विशेषाभिग्रह इति भावः। बृ०१ उ०। (20) धुतादिसप्तविंशतिद्वारान्तर्गतं, सप्तविंशं मासकल्पद्वारम्। अथ मासकल्प इति द्वारमभिधित्सुराहकप्पे सुत्तत्थविसा-रयस्स संह गुणवीरियजुत्तस्स। जिणकप्पियस्स कप्पइ, अभिगहिया एसणा निचं // कल्पे जिनकल्पविषयो यौ सूत्रार्थी, तत्र विशारदस्य निपुणस्य, सहननं शारीरबलं, वीर्य धृतिस्ताभ्यां युक्तस्य, जिनकल्पिकस्य कल्पते। अभिग्रहीता साऽभिग्रहा एषणा। (21) जिन कल्पी षट्वीथ्यां भ्रमवीति विस्तरः। सा च मासकल्पस्थितिमनुपालयतो भवतीति। अतस्तस्यैव विधिमाहछवीहीओ गाम, काउं एक्किक्कियं तु सो अडइ। वजेतुं होइ सुहं, अनिययवित्तिस्स कम्माइं / / पत्रासौ मासकल्पं करोति, तं ग्रामं षट्वीCHहपङ्किरूपाः कृत्वा, ततः प्रतिदिनमकैका वीथीमटति। यावत्यष्टमे दिवसे षष्ठीं। कुत इत्याह - अनियतवृतेरपरापरवीथीषु पर्यटतः, कर्मादि आधाकर्मपूतिकर्मादिक सुखं वर्जयितुं शक्यत इति भावः। कथं पुनराधाकर्मादिसंभवो भवतीत्याशङ्कत्य, तत्संभवादिदर्शयिषुराहअभिगहे दट्ट करणं, भत्तोगाहिमं तिण्णि पूईयं / तुदगो एगमणेगे, कप्पो त्तिय सत्तमे सत्त / / तस्य भगवतः प्रथमवीथीमटतः कयाचिदगार्या श्रद्धातिरेकात्, घृतमधुसंयुक्त भैक्षमुपनीत। तेन च न कल्पते मे, लेपकृता भिक्षेति न गृहीत। तत एवमादीनभिग्रहान् दृष्टवा, कर्मणः करणं भवति। तच्च भक्तमवगाहिम वा भवेत्, त्रीणि च दिवसानि तत्पूतिकं। नोदकः प्रश्नयीतिश् एक ग्राम किमनेकान् षट्वीथीरूपान् करोति। सुरिराह - कल्प एषोऽमीषां, यत् षट् कल्पवीथीः कृत्वा, सप्तमे दिवसे पर्यटन्ति सप्त च जना, एकरयां वसतौ च, संभवन्तीति समासार्थः। (22) देयाऽऽहाराऽयोग्यतायां श्राविका-विचारः। अथ विस्तारार्थमाहदवण य अणगारं, सडा संवेगमागया काइ। नत्थि महं तारिसयं, अन्नं जमलज्जिाया दाहं / / तमनगारंतपः शोषितं मलपटलजटिलं च परूषं दृष्टवा, हा काचितका, परसंवेगमागता सती चिन्तयति। किं मे जीवितेन,यदीदृशस्य महात्मनो भिक्षा न दीयते। नास्ति मम तादृशं शोभनं, यदहमलजिता सती दास्यामि तत:सध्वपयत्तेण अहं, कल्ले काऊण भोअणं विउलं / दाहामि तुट्ठमणसा, होहिइ मे पुण्णलाभो त्ति / / सर्वप्रत्यनेन अहं, कल्पे द्वितीये अहनि, भोजन विपुलं कृत्वा दास्यामि तुष्टमनसा प्रहष्टन चेतसा। ततो भविष्यति मे महान् पुण्यलाभः। इत्थं विचिन्त्य, द्वितीये दिवसे, विपुलमशनादिभक्तमवगाहिमं चोपस्कृत्य, तं भगवन्तं, प्रतीक्षमाणा तिष्ठति। ततः किमभूदित्याहफेडितवीहीएहिं, अणंतवरनाणदंसणधरेहिं। अद्दीणअपरिहंता, विइयं च पडिहिंडिया तत्थ / / स्फे टिता परिहता वीथी यैस्तेर्जिनकल्पिकैः कथंभूतैरनन्त वरज्ञानदर्शनधरैः, इहानन्तज्ञानमयत्वादनन्तास्तीर्थकरास्तैरू पदिष्टे, वरे उत्तमे जिनकल्पिकानां ये ज्ञानदर्शने, उपलक्षणत्वा चारित्रं च, तानि धारयन्तीत्यनन्तवरज्ञानदर्शनधरास्तैः। आह चूर्णिकृत्-"अणतं नाणं जेसिं ते अणंता तित्थकरा तेहिं जिणकप्पियाणं वरं नाणं दंसणं चरितं च जं भणियं तद्धरेहिं ति" ततस्ते अदीनमनसः अविषणाः, अपरितान्ताः कायेना निर्विण्णाः, द्वितीयां वीथीं क्रमागतां पर्यटितास्तत्र क्षेत्रो, एक वचनप्रक्र मेऽपि बहुवचनाभिघानमन्येषामपि, जिनकल्पिकाना मेवंविधवृत्तान्तसंभवख्यापानार्थम्। (23) कल्पशब्दार्थः। वीथ्यां भ्रमतस्तद्भक्तं, पूतिकं भवति। अत्रा चेयं व्यवस्थापढमदिवसोवक्कयं, तिण्णि दिवसाई पूइयं होइ। पूतिसु तिसुन कप्पइ, कप्पइ तईउ जया कप्पो।। प्रथमे दिवसे तद्भक्तमुपस्कृतमाधाकर्म, त्रीणि दिवसानि यावत् तद् गृह पूति भवति। तेषु च त्रिषु पूतिदिनेषु, तस्मिन् गृहे अन्यदपि किञ्चिन्न कल्पते। यदा तु तृतीयः कल्पो गतो भवति, तदा कल्पते। कल्पशब्देनेह दिवस उच्यते। उक्तं च पञ्चवस्तुटीकायाम्, कल्पतेतृतीये कल्पे दिवसे गते अपरस्मिन् अहनीति। (24) त्रिषु दिवसेषु पूतिक न कल्पते, किन्तु षष्ठे सप्तमे च दिवसे कल्पत इति सप्तमदिवसे पर्यटतः श्राविका पृच्छा चा इदमेव स्पष्टयन्नाहविइयदिवसम्मि कम्म, तिन्नि उ दिवसाइं पूइयं होइ। तिसु कप्पेसु न कप्पइ, कप्पइ तं छट्ठदिवसम्मि। यस्मिन् दिवसे स जिनकल्पिकः प्रथमवीथ्यामटन् तया दृष्टः तदपेक्ष्य द्वितीये दिवसे तद्भक्तमाधाकर्म, तदनन्तरं त्रीणि दिवसानि पृतिकं भवति। तेषु त्रिषु, कल्पेषु दिवसेषु, न कल्पते, किंतुकल्पते तत् षष्ठे दिवसे। अथावगाहिमविषयं विधिमाह - कल्ले से दाहामि, ओगाहिमंगणं णागता अज्ज / तइए दिवसे तं हो-इ पूइयं कप्पए छ8।। (अवगाहिम) दिनद्वयमपि क्षमत इति कृत्वा, सा श्राद्धा विनयवती। यदर्थमयवमवगाहिमपाको मया कृतः, स मुनिरद्य मद्गृहाङ्गणं नागतः। अतः कल्पे (से) तस्याहं दास्यामि। इदमवागहिममिति विचिन्त्य, तहानार्थं यदि स्थापपति, तदा तृतीय दिवसे कमै व भवति। यत्पुनस्तारिमन्नेव दिवसेऽव्यवछिन्न भावा सा, आत्मार्थितं करोति, तदवगा हिममपि भक्तवन् मौलदिवसापेक्षया द्वितीयादिवसे कर्म, तृतीयादिषु तद् गृहं पूतिक्रं, षष्ठे तु दिवसे कल्पते।