________________ धम्मकहा 2713 - अभिधानराजेन्द्रः - भाग 4 धम्मकहा एतदपि निराकर्तुमाहएगतेणं चिय तं, न सुंदरं जेण ताण पडिसेहो। सिद्धतद्देसणाए, कप्पट्ठियए व गाहाए।। एकान्तेनैव सर्वथा, तद्धर्मकथनं, नैव सुन्दरं भव्यं, येन तासांसाध्वीना, प्रतिषेधो निराकरणं, सिद्धान्तदेशनाया भागमकथनस्य, यथा प्रतिषेधः कल्पस्थितयैव गाथयेत्यर्थः। कल्पगाथाभवाऽऽहकुसमयसुईण महणो, विबोहओ भवियपुंडरीयाणं। धम्मो जिणपन्नत्तो, पकप्पजइणा कहेयव्वो। कुसमयश्रुतीनां कुसिद्धान्तमतीनां, मथनो विनाशको, विबोधको विकाशको, भट्यपुण्डरीकाणां मुक्तियोग्यप्राणिशतपत्राणां, धर्मा दानाऽऽनिको, जिनप्रज्ञप्तो मुनीन्द्रगदितः, प्रकल्पयतिना निशीथज्ञसाधुना, कथयितव्यो वक्तव्यो, न पुनः साध्व्येति हृदयमिति गाथार्थः / ननु यदि तासा स दीयतेऽतो निन्द्यते तद्धर्मकथनमित्याह.संपइ पुणो न दिज्जइ, पकप्पगंथस्स ताण सुत्तत्थो। जइया वि य दिजंतो, तइया वि य एस पडिसेहो।। साम्प्रतमधुना, पुनर्नव दीयते वितीर्यते, प्रकल्पग्रन्थस्य निशीथस्य, तासामार्थिकाणां, सूत्रार्थः-सूत्रेण पद्धत्या सहितोऽर्थोऽभिधेयं सूत्रार्थः, उभयमिति हृदयम्।यदाऽपि वा दीयते वितीयते स्म, तदापि च तस्मिन्नपि काले, एष व्याख्यानकरणलक्षणः, प्रतिषेधो निवारणमिति गाथार्थः / / अमुमेवार्थ दृष्टान्तपूर्वकं दर्शयन्नाहहरिभद्दधम्मजणणी-ऍ किं च जाइणिपवत्तिणीए वि। एगो वि य गाहत्थो, नो सिट्ठो तु मुणियतत्ताए।। सूचनात्सूत्रस्य हरिभद्रसूरिधर्मजनन्याऽपि धर्मदात्रीत्वेन प्रतिपन्नमात्रा, किं चाभ्युचये, याकिनीप्रवर्तिन्या एतन्नाममहत्तरया, न केवलमभ्याभिरित्यपिशब्दार्थः / एकोऽपि च गाथार्थोऽभिधेयम्, आस्तां प्रभूत इत्यपेरधः, नो नैव शिष्टः कथितो मुणिततत्त्वया ज्ञातपरमार्थया। तथा च किल-"चक्किदुगं हरिपणग।'' इत्यादि-गाथायाः स्वार्थ पृष्टा हरिभद्रभद्रेण तया च कथित इति सुप्रतीतोऽयमर्थ इति गाथार्थः / एवं ज्ञातजीवोपदेशमाह-- बहु मन्नसु मा चरियं, अमुणिततत्ताण तासिं ता। जीव ! जइ वा निवारिया, ता वारसु महुरवक्केण / / बहु मन्यस्व भव्यमिदमिति मंस्थाः , मेति निषेधे, चरितं धर्मक-- थनलक्षणम्, अमुणिततत्त्वानामविदितपरमार्थाना, तासामार्यि-काणां, तस्माज्जीवाऽऽत्मन् ! यदि वा विकल्पार्थः, तिष्ठन्ति / निवारिता निषिद्धास्ततो वारय निषेधय, मधुरवाक्येन कोमलवचसेति गाथार्थः / जीवा० 27 अधिo अमुणिय मुणीण चरणाा, केई मज्झण्हकालसमयम्मि। इत्थीण केवलीणं, कहिंति धम्म भवाभिरया / / / मुनीनाममुणितचरणा अविदितयतीशचारित्राः, केऽप्येके, मध्याह्नकालसमये प्रहरद्वयोज़ , स्त्रीणां श्राविकाणां, केवलाना श्रावकाsमिश्रिताना, कथयन्तिधर्म श्रुतधर्माऽऽदिकं, किं विशिष्टाः? भवाभिरताः संसाराऽऽसक्ता इति गाथार्थः। एतदपि न संगतमित्याह-- सिद्धतामयपडिपु-न्नकन्नपुडयाण संमयं जम्हा। न इय धम्मकहणम्मी, एए दोसा पसज्जंति / / सिद्धान्तामृतप्रतिपूर्णकर्णपुटकानामागमसुधासंभृतश्रवणच्छदपत्राणां संमतभभिप्रेत, नेति निषेधे, इदमित्थं धर्मकथनं, यस्मादित्येवं कथने प्रतिपादने, एते वक्ष्यमाणा दोषा दूषणानि प्रसज्ज्यन्ते प्रादुर्भयन्तीति गाथार्थः। तानेवाऽऽहइत्थिकहा उ अगुत्ती, मज्झण्हे वस्सयाऽऽगमे संका। पलिमंथो दसवेका-लियम्मि अन्नं इमं भणियं / / स्त्रीषु केवलनारीषु कथा धर्मकथनम्, इदं चोत्तराध्ययने द्वितीयव्याख्याने कथितम् / तुः समुचयते / अगुप्तिः प्रत्यहं तदिन्द्रियदर्शनतो ग्रहाचर्यारक्षा, अकालचारित्वप्रस्तावाऽऽगमनत्वेन हि तासां मध्याह्ने केवलानां यत्युपाश्रये आगमे आगमनमवस्थानतया शहाकिमप्यकार्यमेताभिः करिष्यन्तीत्येवं मन्दमतिरूपा. पलिमन्थः स्वकायव्याघात: साधूना, तथा दशवकालिके समयप्रसिद्ध अन्यदपरमिदं वक्ष्यमाणं भणितं तूक्तमिति गाथार्थः। तदेव श्लोकपञ्चकेनाह-- विभूसा इत्थिसंसग्गो, पणीयं रसभोयणं / नरस्सऽत्तगवेसिस्स, विसं तालउडं जहा।। जहा कुक्कडपोयस्स, निचं कुललओ भयं / एवं तु बंभयारिस्स, इत्थीविग्गहओ भयं / / हत्थपायपडिच्छिन्नं, कन्ननासविगप्पियं / अवि वाससयं नारिं, बंभयारी विवज्जए।। अंगपचंगसंठाणं, चारुल्लवियपेहियं / इत्थीणं तं न निज्झाए, कामरागविवङ्गणं / / चित्तमित्तिं न निज्झाए, नारिं वा सुअलंकियं / भक्खरं पिव दट्ठण, दिह्रि पडिसमाहारे / / सर्वा अपि प्रकटार्धाः। यत एवमत आहएतो चिय केई पु-व्वसूरिणो मोक्खसोक्खतल्लिच्छा। आसीसं पि हु दिता, ते अहोमुहाएँ दिट्टीए॥ एतस्मादेव कारणात् केऽपि पुण्यभाजः, पूर्वसूरयश्चिरन्तनाऽऽचार्याः, मोक्षसौख्यलिप्सवो निर्वाणसुखाभिलाषनिष्ठा, आशिषमपिधर्मलाभमपि, न केवलधर्मकथामित्यपिशब्दार्थः, हु: पूर्ववत् / अदुर्दत्तवन्तः, श्राविकाणामिति शेषः / अधोमुखया न्यग् स्ववक्रया दृष्ट्या लोचनेनेति गाथार्थः। अत्रापि जीवानुशिक्षामाहसिद्धिवधूवरसुहसं-गलालसो जीव ! जइ तुमं ता मा। कहसु तुम जिणधम्म, इत्थीसु अकालचारीसु॥ सिद्धिवधूवरसुखसङ्ग लालसो मुक्ति कान्ताप्रधानाभिष्वङ्गलम्पटो, जीव ! प्राणिन ! यदि त्वं भवान्, तस्मान्मा निषेधे, कथय