________________ धम्म 2700 - अभिधानराजेन्द्रः - भाग 4 धम्म स एव बहुभिर्जनैरात्मीयाऽऽत्मीयाऽऽशयेन यथाऽभ्युपगमप्रशंसया स्तूयते प्रशस्यते। कथम्? अत्र कथानकम्-"राजगृहे नगरे श्रेणिको महाराजः, कदाचिदसौ चतुर्विधबुद्ध्युपेतेन पुत्रेण अभयकुमारेण सार्धमास्थानस्थितस्ताभिस्ताभिः कथाभिरा-साशके, तर कदाचि-देवं भूता कथाऽभूत, तद्यथा-इहलोके धार्मिका बहवः, उताऽधार्मिका इति? तत्र समस्तपर्षदाऽभिहितम्-यथाऽत्राऽधार्मिका बहवो लोकाः धर्म तु शतानामपि मध्ये कश्चिदेवैको विधत्ते, कदाकाऽभयकुमारेणोक्तम् यथा प्रायशो लोकाः सर्व एव धार्मिकाः,यदिन निश्चयो भवता, परीक्षा क्रियते / पर्षदाऽप्यभिहितम्- एवमस्तु / ततोऽभयकुमारेण धवलेतरं प्रासादद्वयं कारितं, घोषितं च डिण्डिमेन नगरे, यथा यः कश्चिदिह धार्मिकः स सर्वोऽपि धवलप्रासादं गृहीतवलिः प्रविशतु, इतरस्त्वितरमिति / ततोऽसौ लोकः सर्वोऽपि धवलप्रासादमेव प्रविष्टः / निर्गच्छश्य कथं त्वं धार्मिक इत्येवं पृष्टः कश्चिदाचष्टे-यथाऽहं कर्षकोऽनेकशकुनिगणो मद्धान्यकणैरात्मानं प्रीणयति,खलकसमागतधान्यकणभिक्षादानेन च मम धर्म इति। अपरस्त्वाह-यथाऽहं ब्राह्यणःषट्कर्माऽभिरतस्तथा बहुशौचस्नानाऽऽदिभिर्वेदविहितानुष्ठानेन पितृदेवाँस्तर्पयामि। अन्यः कथयति-यथा वणिक्कुलोपजीवी भिक्षादानाऽऽदिप्रवृत्तः / अपरस्त्विदमाह-यथाऽहं कुलपुत्रको न्यायाऽऽगतं निर्गतिक कुटुम्यं पालयाम्येव। तावत् श्वपाकोऽपीदमाहन्यथाऽहं कुलक्रमाऽऽगतं धर्ममनुपालयामीति, मदाश्रिताश्च बहवः पिशितभुजः प्राणान् धारयन्तीत्येवं सर्वोऽप्यात्मीयमात्मीयं व्यापारमुद्दिश्य धर्मे नियोजयति / तत्राऽपरमसितप्रासादं श्रावकद्वयेन प्रविष्ट, तब किमधर्माऽऽचरणं भवद्भ्यामकारीत्येवं पृष्ट सकृन्मद्यनिवृत्तिभङ्गव्यलीकमकथयत्। यथा--साधव एवाऽत्र परमार्थतो धार्मिका यथा गृहीतप्रतिज्ञानिर्वाहणसमर्थाः / अस्माभिस्तु"अवाप्य मानुष जन्म, लब्ध्वा जैनं च शासनम्। कृत्वा निवृत्तिं मद्यस्य, सम्यक् साऽपि न पालिता / / 1 / / अनेन व्रतभङ्गेन, मन्यमाना अधार्मिकम्।। अधमाधममात्मानं, कृष्णप्रासादमाश्रिताः / / 2 / / " तथाहि"लजा गुणौघजननी जननीमिवार्यामत्यन्तशुद्धहृदयामनुवर्तमानाः।। तेजस्विनः सुखमसूनपि संत्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् // 3 // वरं प्रवेष्टुं ज्वलित हुताशनं, न वापि भग्रं चिरसंचितव्रतम्। वरं हि मृत्युः सुविशुद्धचेतसो. न वाऽपि शीलस्खलितस्य जीवितम् // 4 // " तदेव सर्वोऽप्यात्मानंधार्मिकं मन्यत इति कृतवा "बहुजननमनोधर्मः" इति स्थितम्। तस्मिश्च संवृतः समाहितः सन् नरः पुमान् सर्वार्थर्बाह्याभ्यन्तरैर्धनधान्यकलत्रममत्वाऽऽदिभिरनिश्रितोऽप्रतिबद्धः सन् धर्म प्रकाशितवानित्युत्तरेण सह संबन्धः / निदर्शनमाह-हृद इव स्वच्छाम्भसा भृतः सदाऽनाविलोऽनेकमत्स्याऽऽदिजलचरसंक्रमेणाऽप्यनाकुलोऽ क लुषो वा क्षान्त्यादिलक्षणं धर्म प्रादुरकार्षीत् प्रकट कृतवान् / यदि वा एवंविशिष्ट एव काश्यपंतीर्थकरसंबन्धिनं धर्म प्रकाशयेत्, छान्दसत्वात् 'वर्तमाने भूतनिर्देश इति' |7|| स बहुजननमने धर्मे व्यवस्थितो यादृग धर्म प्रकाशयति तद्दर्शयितुमाह। यदि वोपदेशान्तरमेवाऽधिकृत्याऽऽहबहवे पाणा पुढो सिया, पत्तेयं समतं उवेहिया। जे मोणपदं उवद्विते, विरतिं तत्थ अकासि पंडिए॥८॥ (बहये इत्यादि) बहवोऽनन्ताः, प्राणा दशविधप्राणभोक्तृत्वात्तदभेदोपचारात् प्राणिनः, पृथगिति पृथिव्यादिभेदेव' सूक्ष्मबादरपर्यासकापर्याप्तकनरकगत्यादिभेदेन वा संसारमाश्रितास्तेषां च पृथगाश्रितानामपि प्रत्येकं समतां दुःखद्वेषित्वं सुखप्रियं च समीक्ष्य दृष्टा, यदिवा-समतां माध्यस्थ्यमुपेक्ष्य यो मौनीन्द्रपदमुपस्थितः संयमाऽऽश्रितः स साधुस्तत्राऽनेकभेदभिन्नप्राणिगणे दुःखद्वेषिसुखाभिलाषिणि सति तदुपघाते कर्तव्ये विरतिमकार्षीत् कुर्याद्वति, पापाद्धीनः पापानुष्ठानात् दवीयान् पण्डित इति / / 8|| सूत्र०१ श्रु०२ अ०२० (28) सूत्रकृताङ्गस्य श्रुतस्कन्धीयनवमाध्ययनोक्तः साधूनामाचरणीयानाचरणीयो धर्मो यथाकयरे धम्मे अक्खाए, माहणेण मतीमता। अंजु धम्म जहातचं, जिणाणं *तं सुणेह मे / / 1 / / (कयरे इत्यादि) जम्बूस्वामी सुधर्मस्वामिनमुद्दिश्येदमाह / तद्यथाकतरः किंभूतो दुर्गतिगमनलक्षणो धर्म आख्यातः प्रतिपादितः (माहणेणं ति) मा जम्बून व्यापादयेत्येवं विनेयेषु वाक् प्रवृत्तिर्यस्याऽसौ माहनो भगवान वीरवर्धमानस्वामी तेन, तमेव विशिनष्टि-मनु-तेऽवगच्छति जगत्त्रयं कालत्रयोपेतं यया सा केवलज्ञानाऽऽख्या मतिः, सा अस्याऽस्तीति मतिमान, तेनोत्पन्नकेवलज्ञानेन भगवतेति प्रष्टे सुधर्मस्याम्याहरागद्वेषजितो जिनास्तेषां संबन्धिनं धर्मम् / (अंजु-मिति) अर्जु मायाप्रपञ्चरहितत्वादवक्रं, तथा- (जहातचमिति) यथावस्थितं मम कथयतः शृणुत यूयं, न तु यथाऽन्यैस्तीर्थिकर्दम्भ-प्रधानो धर्मोऽभिहितस्तथा भगवताऽपीति / पाठान्तरं वा-(* जणगा* तं सुणेह मे) जायन्त इति जना लोकास्तएव जनकास्तेषामामन्त्रणम्-हे जनकाः! त धर्म शृणुत यूयमिति / / 1 / / अन्वयव्यतिरेकाभ्यामुक्तोऽर्थः सूक्तो भवतीत्यतो यथोद्दि ष्टप्रतिपक्षभूतोऽधर्मस्तदाश्रितांस्तावद्दर्शयितुमाहमाहणा खत्तिया वेस्सा, चंडाला अदु वोक्सा। एसिया वेसिया सुद्दा, जे य आरंभणिस्सिया / / 2 / / (माहणेत्यादि) ब्राह्मणाः क्षत्रिया वैश्यास्तथा चाण्डालाः, अथ वोकरसा अवान्तरजातीयाः / तद्यथा ब्राह्मणेन शूद्रयां जातो निषादो, ब्राह्मणेनैव वैश्यायां जातोऽम्बष्ठः, तथा निषादेनाम्बष्ट्या जातो वोक्कसः, तथा एषितुं शीलमित्येषिका मृगलुब्धिका हस्तितापसाश्च मांसहेतोर्मुगान् हस्तिनश्च एष्यन्ति, तथा कन्दमूलफलाऽऽदिकं च / तथा ये चाऽन्ये पाषण्डिका नानाविधैरुपायैर्भक्ष्यमेष्यन्त्यन्यानि वा विषयसाधनानि, ते सर्वेऽप्येषिका इत्युच्यन्ते। तथा वैशिका वणिजो मायाप्रधानाः कलोपजीविनः,तथा शूद्राः कृषीबलाऽऽदयः। आभीर-जातीयाःकियन्तो वा वक्ष्यन्त इति दर्शयति। ये चाऽन्ये वर्णा-पसदा नानारूपसावद्याऽऽरम्भनिश्रितायन्त्रपीडननिलाञ्छन