________________ धम्म 2664 - अभिधानराजेन्द्रः - भाग 4 धम्म स भिक्षुराहारोपधिशयनस्वध्यायाऽऽदीनां मात्रां जानातीति तद्विधिज्ञः सन अन्यतरां दिशमनुदिशं वा प्रतिपन्नः समाश्रितो धर्ममाख्यापयेत्, यद्येन विधेयस्तद्यथाभोग विभजेद्धर्मफलानि च कीर्तयेदाविर्भावयेत्, तबैकार्थप्रवृत्तेन साधुना सम्यगुपस्थितेषु वा कौतुकाऽऽदिप्रवृत्तेषु शुश्रूषमाणेषु श्रोतुं प्रवृत्तेषु स्वपराभिप्रायं वेद-येदावेदयेत्प्रकथये दिति यावत्। श्रोतुमुपस्थितेषु यत्कथयेत्तदर्शयितुमाह-(संतिविरइं इत्यादि) / शान्तिरुपशमः क्रोधजयस्तत्प्रधाना प्राणातिपातिभ्यो विरतिः शान्तिविरतिः / यदि वा-शान्तिरशेषक्लेशापगमरूपा तस्यैतदर्थ विरतिस्तां कथयेत्, तथौपशममिन्द्रियोपशगरूपं रागद्वेषा भावजनितम् / तथानिर्वृतिं निर्वाणमशेषद्वन्द्वोपरमरूपं, तथा (सोयवियं ति) शौचं, तदपि भावशौच, सर्वोपाधिशुद्धता व्रतामालिन्यम्। (अज्जवियं ति) आर्जवममायित्वं, तथा मार्दवं मृदुभावं सर्वत्र प्रश्रयवत्त्वं विनयनम्रतेति यावत्। तथा- (लाधवियं ति) कर्मणां लाघवाऽऽपादनं कर्मगुरोर्वाऽऽत्मनः कर्मापनयनतो लघ्ववस्थासंजननम्। साम्प्रतमुपसंहार द्वारेण सर्वशुभानुष्ठानानां मूलकारणमाह- अतिपतनमतिपातः प्राण्युपमर्दनं, तद्विद्यते यस्यासावतिपातिकस्तत् प्रतिषेधादनतिपातिकस्तं, सर्वेषां प्राणिनां भूतानां यावत्सत्त्वानां धर्ममनुविचिन्त्य वा कीर्तयेत्कथयेत् / इदमुक्तं भवति-सर्वप्राणिनां रक्षाभूतं धर्म कथयेदिति // 57 // साम्प्रतं धर्मकीर्तनं यथानिरूपितमधिभवति तथा दर्शयितुमाह-- से भिक्खू धम्म किट्टमाणे णो अन्नस्स हेउं धम्ममाइक्खेजा, णो पाणस्स हेउं धम्ममाइक्खेजा, णो वत्थस्स हेउं धम्ममाइक्खेजा, णो लोणस्स हेउं धम्ममाइक्खेजा, णो सयणस्स हेउं धम्ममाइक्खेज्जा, णो अण्णेसिं विरूवरूवाणं कामभोगाणं हेउं धम्ममाइक्खेज्जा, अगिलाए धम्ममाइक्खेज्जा, नन्नत्थ कम्मनिज्जरट्ठाए धम्ममाइक्खेज्जा // 5 // स भिक्षुः परकृतपरिनिष्ठिताऽऽहारभोजी यथाक्रियाकुलाऽनुष्ठायी शुश्रूषन सुधर्म कीर्तयन्नान्नस्य हेतोर्ममायमीश्वरो धर्मकथाप्रश्रवणे विशिष्टमाहारजातं दास्यतीति, एतन्निमित्तं न धर्ममाचक्षति, तथा पानवस्त्रलयनशयननिमित्तं न धर्ममाचक्षीत / नान्येषां विरूपरूपा-- णामुचविचानां कार्याणां कामभोगानां वा निमित्तं तथा धर्ममाचक्षीत, ग्लानिमुपगच्छन् न धर्ममाचक्षीत / कर्मनिर्जरायाश्चान्यत्र न धर्म कथयेदपरप्रयोजननिरपेक्ष एवं धर्म कथयेदिति // 58|| धर्मकथाश्रवणफलदर्शनद्वारेणोपसंजिघृक्षुराहइह खलु तस्स भिक्खुस्स अंतिए धम्मं सोचा णिसम्म सम्म उट्ठाणेणं उट्ठाय वीरा अस्सिं धम्मे समुट्ठिया जेते एवं सव्वोवगता ते एवं सव्वोवरता ते एवं सव्वोवसंता ते एवं सव्वताए परिनिवुडे त्ति बेमि // 56 // इहास्मिन् जगति, खलुक्यालङ्कारे / तस्य भिक्षोर्गुणवतोऽन्तिके समीपे पूर्वोक्तविशेषणविशिष्ट धर्म श्रुत्वा निशम्यावगम्य सम्यगुत्थानेनोत्थाय धी (वी) राः कर्मविदारणसहिष्णवो, ये चैवंभूतास्ते एवं / पूर्वोक्तविशेषणविशिष्टानुष्ठानतया सर्वस्मिन्नपि मोक्षकारणसम्यग्दर्शनाऽऽदिके उप सामीप्येन गताः सर्वोपगतास्तथैवं सर्वेभ्य उपरताः सर्वोपरताः, तथा त एवं सर्वोपशान्ता जितकषायतया शीतलीभूताः, तथा एवं सर्वाऽऽत्मतया सर्वसामर्थ्येन सदनुष्ठानेनोद्यमं कृतवन्तो, ये चैवंभूतास्तेऽशेषकर्मक्षयं कृत्वा परि समन्तान्नित्ता अशेषकर्मक्षयं कृतवन्त इति ब्रवीमीति पूर्ववत्॥५६।। सूत्र०२ श्रु०१ अ०। (26) इह भवजलधिनिमग्नसत्त्वाभ्युज्जिहीर्षाऽभ्युद्यतेन स्वहितसंपादननिपुणेन गुरुलाघवचिन्तावता प्रश्नार्थव्याकरणसमर्थन विदुषा सद्धर्मपरीक्षायां यत्नो विधेयः, सा च परीक्षकमन्तरेण न संभवति, तदविनाभावित्वात्परीक्षायाः सद्धर्मपरीक्षकाऽऽदिभावप्रतिपादनार्थ च आUषोडशाधिकारप्रतिबद्धं प्रकरणमारेभे हरिभद्रसूरिः, तस्य चाऽऽदावेव प्रयोजनाभिधेयसम्बन्धप्रतिपादनार्थमिदमार्थ्यासूत्र जगादप्रणिपत्य जिनं वीरं, सद्धर्मपरीक्षकाऽऽदिभावानाम्। लिङ्गाऽऽदिभेदतः खलु, वक्ष्ये किञ्चित्समासेन॥१।। प्रणिपत्य नमस्कृत्य, जिनं जितरागद्वेषमोहं सर्वज्ञ वीर सदेवमनुष्यासुरलोके श्रमणो भगवान् महावीर इत्यागमप्रसिद्धनामानमनेनेष्टदेवतास्तवद्वारेण मङ्गलमाह / सद्धर्मपरिक्षकस्त्रिविधो वक्ष्यमाणस्तदादयो ये भावास्तेषां किञ्चिदित्यस्य स्वल्पमात्राभिधायित्वाल्लेशं वक्ष्ये लिङ्गाऽऽदिभेदतः खल्विति लिङ्ग वृत्ताऽऽदिविशेषप्रतिपादनद्वारेण यद्यप्यपरैरेव पूर्वाचार्यः सद्धर्मपरिक्षाऽऽदयो भावाः स्फुटमेवाभिहितास्तथाऽप्यहं समासेवैवाभिधास्यामीति (1) // सद्धर्मपरीक्षकस्य त्रिविधस्य व्यापारमुपदर्शयति-- बालः पश्यति लिङ्ग, मध्यमबुद्धिर्विचारयति वृत्तम्। आगमतत्त्वं तु बुधः, परीक्षते सर्वयत्नेन / / 2 / / बालो विशिष्टविवेकविकलो लिङ्गवेषमाकारं बाह्य पश्यति, प्रधानेन धर्मार्थिनोऽपि तस्य तत्रैव भूयसा रुचिप्रवृत्तेः / मध्यमबुद्धिर्मध्यमविवेकसंपन्नो, विचारयति मीमांसते, वृत्तं वक्ष्यमाणस्वरूपं प्राधान्येन समाश्रयति, तत्रैवाभिलाषत्वात्। आगमतत्त्वं त्वागमपरमार्थमैदंपर्यरूप, बुधो विशिष्टविवेकसंपन्नः, परीक्षते समीचीनमवलोकयति / सर्वयत्नेन सर्वाऽऽदरेण धर्माधर्मव्यवस्थाया आगमनिबन्धनत्यात्। यत उक्तम्"धर्माधर्मव्यवस्थायाः, शास्त्रमेव नियामकम् / तदुक्ताऽऽसेवनाद्धमस्त्वधर्मस्तद्विपर्ययात् / / 1 / / "|2|| इदानीं पूर्वोक्तानां बालाऽऽदीनामेव लक्षणमाहबालो ह्यसदारम्भो, मध्यमबुद्धिस्तु मध्यमाऽऽचारः। ज्ञेय इह तत्त्वमार्गे, बुधस्तु मार्गानुसारी यः॥३॥ बालो हि पूर्वोक्तः असन्नसुन्दर आरम्भोऽस्ये त्यसदारम्भोऽविद्यमानं वा यदागमे व्यवच्छिन्नं तदारभत इत्यसदारम्भः, न सदा न सर्वदा स्वशक्तिकालाऽऽद्यपेक्ष आरम्भोऽस्येति वा, मध्यमबुद्धिस्तु पूर्वोक्तो मध्यमाऽऽचार आगमैदंपर्यविकलत्वात् प्रावचनिककार्याप्रवृत्तेः ज्ञेय इह प्रक्रमे तत्त्वमार्गे परमार्थमार्गे प्रवचनोन्न