________________ देसविरइगुणट्ठाण 2633 - अभिधानराजेन्द्रः - भाग 4 देसावगासिय रतः, सर्वसावद्ययोगविरतिस्त्वस्य नास्ति, प्रत्याख्यानाऽऽवरणकषायोदयात् सर्वविरतिरूपं हि प्रत्याख्यानमावृण्वन्तीतिप्रत्याख्यानाऽऽवरणा उच्यन्ते, इति देशविरतः, तस्य गुणस्थानं देशविरतगणस्थानम्। प्रव० 22 द्वार। कर्म०। पं० सं० दर्श०। देसविरइसामाइय-न०(देशविरतिसामायिक) देशविरतिरुक्तस्वरूपैव सामायिकमिति। सामायिकभेदे, अस्य पर्यायाः- "विरयाविरई संवुडमसंवुड बालपडिए चेव देसिक्कदेसविरई अणुधम्मो य।' विशे० आ०म० (एषां पदाना व्याख्या तत्तच्छब्दे) (वक्तव्यता सर्वैव 'सामायिय' शब्दे द्रष्टव्या) देसविराहय-पुं०(देशविराधक) देशं स्तोकमशं ज्ञानाऽऽदित्रयरूपस्य मोक्षमार्गस्य तृतीयभागरूपं चारित्रं विराधयति / प्राप्तस्य चारित्रस्यापालनादप्राप्तेर्वा देशमात्रस्य विराधके, भ०८ श०६ उ०) देसविरुद्ध-न०(देशविरुद्ध) तत्तद्देशीयशिष्टरनाचीर्णे, ध०। तत्र यद्यत्र देशे शिष्टजनैरनाचीर्णं तत्तत्र देशविरुद्धम् / यथा-सौवीरेषु कृषिकर्मेत्यादि / अथवा जातिकुलाऽऽद्यपेक्षयाऽनुचित देशविरुद्धं, यथा ब्रह्मणस्य सुरापानमित्यादि। ध०२ अधिका देसविहिकहा-स्त्री०(देशविधिकथा) देशकथाभेदे, स्था०४ ठा०२ उ०। (व्याख्या 'देशकहा' शब्देऽनुपदमेव गता) देससंका-स्त्री०(देशशङ्का) देशविषये जीवाऽऽद्यन्यतमपदार्थकदेशगोचरे शङ्काभेद, प्रव०६ द्वार। यथाऽस्तिजीवः केवलं सर्वगतोऽसर्वगतो वासप्रदेशोऽप्रदेशो वेति शङ्का देशविषया, जीवाऽऽद्यन्यतमपदार्थकदेशगोचरेत्यर्थः / प्रव०६द्वार। नि००। देससाहणणबंध-पुं०(देशसंहननबन्ध) देशेन देशस्य संहननलक्षणो बन्धः संबन्धः शकटाङ्गाऽऽदीनामिव / देशसंहननबन्धभेदे, भ०८ श०६ उ०। देसादायारलंघण-न०(देशाऽऽद्याचारलङ्घन) जनपदग्रामकुल प्रभृतिसमाचारातिक्रमे, पञ्चा०२ विव०॥ देसाराहय-पुं०(देशाऽऽराधक) सम्बोधरहितत्वात्क्रियापरत्वाद् देशं स्तोकडश मोक्षमार्गस्याऽऽराधयति। देशमात्राऽऽराधके, भ०८ श०६ उ० देसावगासिय-न०(देशावकाशिक) देशे दिग्वतगृहीतस्य दिक्परिमाणस्य विभागोऽवकाशोऽवस्थानमवतारो विषयो यस्य तद्देशावकाशं, तदेव देशावकाशिकम् / दिग्द्रतगृहीतस्य दिक्परिमाणस्य प्रतिदिनं संक्षेपकरणलक्षणे, सर्वव्रतसंक्षेपकरणलक्षणे वा। स्था०४ ठा०३ उ०। तयाणंतरं च णं देसावगासियस्स समणोवासएणं पंच अइयारा जाणियव्वा, न समायरियव्वा / तं जहा- आणवणपओगे 1, पेसवणपओगे 2, सद्दाणुवाए 3, रूवाणुवाए 4, बहिया पोग्गलपक्खेवे 5 / उपा०१ अ० आव० आ०चू०। सूत्र०। पञ्चा०। श्रावकस्य द्वितीयशिक्षाव्रते, श्रा०ा ध०र०॥धा ___ अधुना देशावकाशिकव्रतातिचारानाहप्रेषणानयने शब्द-रूपयोरनुपातने। पुद्रलप्ररेणं चेति, मता देशावकाशिके 156|| प्रेषणं चाऽऽनयनं चेति प्रेषणानयने, शब्दश्च रूपं चैतयोरनुपातनेऽवतारणे, शब्दानुपातो रूपानुपातश्चेत्यर्थः / पुद्गलप्रेरणं चेति पञ्चा-- तिचारा देशावकाशिके देशावकाशिकनाम्निव्रते ज्ञेयाः / अयं भावःदिग्द्रतविशेष एव देशावकाशिकव्रतम् / इयांस्तु विशेषोदिग्व्रतं यावज्जीवं संवत्सरचतुर्मासीपरिमाण वा,देशावकाशिकं तु दिवसप्रहरमुहूर्ताऽऽदिपरिमाणं, तस्य च पञ्चातिचाराः। तद्यथा-प्रेषणं भृत्यादेविवक्षितक्षेत्राद् बहिः प्रयोजनाय व्यापारणम्, स्वयं गमने हि व्रतभङ्गः स्यादिति अन्यस्य प्रेषणम्, देशावकाशिकव्रतमा भूगमनागमनाऽऽदिव्यापारजनितप्राण्युपमर्द इत्यभिप्रायेण गृह्यते, स तु स्वयं कृतोऽन्येन वा कारित इति न कश्चित्फले विशेषः, प्रत्युत स्वयंगमने ईपिथविशुद्धेर्गुणः, परस्य पुनरनिपुणत्वादीसिमित्यभावे दोष इति प्रथमोऽतिचारः / 1 / आनयनं विवक्षितक्षेत्रा बहिः स्थितस्य सचेतनाऽऽदिद्रव्यस्य विवक्षित क्षेत्रे प्रापणं सामर्थ्यात्प्रेष्येण स्वयं गमने हि व्रतभङ्गः स्यात्, परेण त्वानयने न भन इति बुझ्या यदाऽऽनाययति सचेतनाऽऽदि द्रव्यं तदाऽतिचार इति द्वितीयः शशब्दस्य क्षुत्कासिताऽऽदेरनुपातनं श्रोत्रेऽवतारणं शब्दानुपातनं, यथा विहितस्वगृहवृतिप्राकाराऽऽदिव्यवच्छिन्नभूप्रदेशाभिग्रहः प्रयोजने उत्पन्ने विवक्षितक्षेत्राद बहिर्वतभङ्गभयात्स्वयं गन्तुं बहिः स्थितं चाऽऽहातुमशक्नुवन् वृतिप्राकाराऽऽदिप्रत्यासन्नवर्ती भूय कासिताऽऽदिशब्दम् आह्वानीयानां श्रोत्रेऽनुपातयति, तेच तच्छ्रवणात्तत्समीपमागच्छन्तीति शब्दानुपातननामातिचारस्तृतीयः / 3 / एवं रूपानुपातनं, यथा रूपं शरीरसंबन्धि उत्पन्नप्रयोजनः शब्दमनुचारयन्नाहानीयानां दृष्टावनुपातयति, तद्दर्शनाच्च तत्समीपमागच्छन्तीति रूपानुपातनाऽऽख्योऽतिचारश्चतुर्थः / 4 / तथा पुद्गलाः परमाणवस्तत्सङ्घातसमुद्भवा बादरपरिणाम प्राप्ता लोष्टाऽऽदयोऽपि तेषां प्रेरणं क्षेपणं विशिष्टदेशाभिग्रहे हि सति कार्यार्थी परगृहगमननिषेधाद्यदा लोष्टकान परेषां बोधनाय क्षिपति, तदा लोष्टातिपातसमनन्तरमेव ते तत्समीपमनुधावन्ति, ततश्च तान् व्यापारयतः स्वयमगच्छतोऽप्यतिचारो भवतीति पञ्चमः / 5 / इह चाऽऽद्यद्वयमव्युत्पन्नबुद्धित्वेन सहसाकाराऽऽदिना वा, अन्त्यत्रयं तु मायापरतयाऽतिचारतां यातीति विवेकः / इहाऽऽहुर्वृद्धाः दिग्वतसंक्षेपकरणमणुव्रताऽऽदिसंक्षेपकरणस्याप्युपलक्षणं द्रष्टव्यं, तेषामपि संक्षेपस्यावश्यंकर्तव्यत्वात्। अत्राऽऽहननु अतिचाराश्च दिव्रतसंक्षेपकरणसयैव श्रूयन्ते, नव्रतान्तरसंक्षेपकरणस्य, तत्वार्थव्रतान्तरसंक्षेपकरणंदेशावकाशिकव्रतमिति? अत्रोच्यतेप्राणातिपाताऽऽदिव्रतान्तरसंक्षेपकरणेषु वधबन्धाऽऽदय एवातिचाराः, दिग्वतसंक्षेपकरणे तु संक्षिप्तत्वात्क्षेत्रस्य प्रेष्यप्रयोगाऽऽदयोऽतिचारा भिन्नातिचारसंभवाच दिग्वतसंक्षेपकरणस्यैव देशावकाशिकत्वं साक्षादुक्तम् / / 16 / / इत्युक्ता देशावकाशिक्वतातिचाराः / ध०२ अधि०। संपूर्णदिवसे देशावकाशिकं क्रियते, तत्रोचारणपारणविधिलिखनीयः, तथा तत्र सामायिकं गृहीतं पारितं च शृद्ध्यति, न वा, तथा देशावकाशिकेन सह सामायिकमुचरति, नयेतिप्रश्ने, उत्तरम् देशावकाशिकोच्चारणविधिः- "दे