________________ 2606 - अमिधानराजेन्द्रः - भाग 4 देव पापफलभुजो भविष्यन्ति, तथा मनुष्या एवातिसुखिताः प्रकृष्टपुण्यफलभुजो भविष्यन्ति, किमदृष्टनारकदेवपरिकल्पनयेति? तदयुक्तम्। प्रवृष्टपापफलभुजां सर्वप्रकारेणापि दुःखेन भवितव्यम्,न चातिदुः खितानामपि नरतिरश्चा सर्वप्रकारं दुःखं दृश्यते, सुखदपवनाऽऽलोकाऽऽदिसुखस्य सर्वेषामपि दर्शनात्। प्रकृष्टपुण्यफलभुजामपि सर्वप्रकारेणाभि सुखेन भवितव्यम्, न चेहातिसुखितानामपि नराणां सर्वप्रकार सुखमवलोक्यते, पूतिदेहोद्भवस्य रोगजराऽऽदिप्रभवस्य च दुःखस्य तेषामपि सद्भावात्, तस्मात्प्रकृष्टपापनिबन्धनसर्वप्रकारदुःखवेदिनो नारकाः, प्रकृष्टपुण्यहेतुकसर्वप्रकारसुखभोगिनो देवाश्चाभ्युपगन्तव्या एवेति / / 1874|| ननु यदि देवाः सन्ति, तर्हि स्वच्छन्दचारिणोऽपि किमित्य-- त्रते कदाचिदपि नाऽऽगच्छन्तीत्याहसंकंतदिव्वपिम्मा, विसयपसत्ताऽसमत्तकत्तव्या। अणहीनमणुयकजा, नरभवमसुभं न एंति सुरा।।१८७५।। नाऽऽगच्छन्तीह सदैव सुरगणाः, संक्रान्तदिव्यप्रेमत्वाद्विषयप्रसतत्वात, प्रकृष्टरूपाऽऽदिगुणकामिनीप्रसक्तरम्यदेशान्तरगतपुरुषवत्: तथऽसमाप्तकर्तव्यत्वाद्, बहुकर्तव्यताप्रसाधननियुक्तविनीतपुरुषवत्। तथा अनधीन मनुजानां कार्य येषां तेऽनधीनमनुजकार्याः, तद्भावस्तत्त्व, तस्मान्नेहाऽऽगच्छन्ति सुराः, अनभिमतग्रेहाऽऽदी निःसङ्गयतिवदिति। तथा अशुभत्वाद् नरभवस्य तद्गन्धासहिष्णुतया नेहाऽऽगच्छन्ति देवाः, स्वपरित्यक्तकलेवरवदिति॥१८७५।। तत्किसर्वथा तेऽत्र नाऽऽगच्छन्ति? नैवम्, अत एवाऽऽहनवरि जिणजम्मदिक्खा-केवलनिव्वाणमहनिओगेणं / भत्तीए सोम्म ! संसय-विच्छेयत्थं व एज-सुरा॥१८७६|| पुवाणुरागओ वा, समयनिबंधा तवोगुणाओ वा। नरगणपीडाऽणुग्गह-कंदप्पाईहिँ वा केइ॥१८७७।। नवरं जिनजन्मदीक्षाकेवलनिर्वाणमहोत्सवनियोगेन तत्कर्तव्यतानियमेनेह देवा आगच्छेयुः। तत्र सौम्य! केचिदिन्द्राऽऽदया निजभक्त्या समागच्छन्ति, केचित्तु तदनुवृत्त्या, अन्ये संशयव्यवच्छेदार्थम्, अपरे तु पूर्वभविकपुत्रमित्राऽऽद्यनुरागात्, समयनिबन्धः प्रतिबोधाऽऽदिनिमित्तः संकेतनिश्चयः, तस्माचकेचिदेवा इहाऽऽगच्छन्ति, अन्ये तुमहासत्त्वसाध्वादितयोगुणसमाकृष्टाः, केचित्तु पूर्ववैरिकनरगणपीडार्थम्, अपरे तु पूर्वसुहृत्पुत्राऽऽद्यनुग्रहार्थम्, केचिदेवाः कन्दर्पाऽऽदिभिरिहाऽऽगच्छन्ति / आदिशब्दात्साध्वादिपरीक्षाहेतोरिति द्रष्टव्यमिति / तदेवं निरूपित देवानामत्राऽऽगमनकारणम्, अनागमनकारणं च / / 1876 / / 1877|| अथ देवसिद्धावन्यदपि कारणमाहजाइस्सरकहणाओ, कासइ पचक्खदरिसणाओ य। विज्जामंतोवायण-सिद्धीओ गहविगाराओ॥१८७८॥ उक्किट्ठपुण्णसंचय-फलमावाओऽभिहाणसिद्धीओ। सव्वाऽऽगमसिद्धाओ, य संति देव त्ति सद्धेयं / / 1876 / / सन्ति देवा इत्येतत् श्रद्धेयमिति प्रतिज्ञा, जातिस्मरणप्रत्ययितपुरुषेण कथनात्, नानादेशाविचारिप्रत्ययितपुरुषावलोकितकथितविचित्रवृहदेवकुलाऽऽदिवस्तुवत्। तथा कस्याऽपि तपः प्रभृतिगुणयुक्तस्य प्रत्यक्ष दर्शनप्रवृत्तेश्र, केनचित्प्रत्यक्षप्रमाणेनोपलम्मादित्यर्थः। दूरविप्रकृष्टनगराऽऽदिवत् / तथा विद्यामन्त्रोपयाचनेभ्यः कार्यसिद्धेः, प्रसादफलानुमितराजाऽऽदिवत् / तथा (गहविगाराउ ति) अत्र प्रयोगःग्रहाधिष्ठितपुरुषदेहो जीवव्यतिरिक्तादृश्यवस्त्यधिष्ठातृकः पुरुषासंभाव्यविकारवतक्रियादर्शनात्, संचरिष्णुयन्त्रव्यतिरिक्तमध्यप्रविष्टदृश्यमानपुरुषाधिष्ठितयन्त्रवत् / तथा तपोदानाऽऽदिक्रियासमुपार्जितोत्कृष्टपुण्यसंभारफसद्धावात्, उत्कृष्टपापप्राग्भारफलसद्भावनिश्चितनारकवत्। एतच प्रागेव भावितम्। तथा देवा इति यदभिधानं ततोऽपि च देवानां सिद्धिः। एतच्चानन्तरमाथायां व्यक्तीकरिष्यते! तथा सर्वेचते आगमाश्च सर्वाऽsगमास्तेष्वविप्रतिपत्त्या सिद्धत्वाच्च सन्ति देवा इति // 1870 / 1876 / / यदुक्तम्-"अभिहाणसिद्धीउ (१८७६)त्ति" तद्भावयन्नाहदेव त्ति सत्थयमिदं सुद्धत्तणओ घडाभिहाणं व। अह व मई मणुओ चिय, देवो गुणरिद्धिसंपन्नो // 1880 / / तं न जओ तच्चत्थे, सिद्धे उवयारओ मया सिद्धी। तच्चत्थसीहसिद्धे,माणवसीहोवयारो व्व / / 1881 // 'देवाः' इत्येतत्पदं सार्थकं, व्युत्पत्तिमच्छुद्धपदत्वात्, घटाऽऽदिवत्। तत्र दीव्यन्तीति देवा इति व्युत्पत्तिमत्त्वम्, समासतद्धितरहितत्वेन च शुद्धत्वम्। भावना चार प्रागुक्कैव / अथ परस्यमतिर्भवेन्ननु मनुष्य एवेह दृश्यमानो देवो भविष्यति, किमदृष्टदेवकल्पनया? किं सर्वोऽपि मनुष्यो देव इति। नेत्याह-गुणसंपन्नो गणधराऽऽदिः, रिद्धिसंपन्नश्चक्रवादिः / अत्रोच्यते- तदेतन्न यस्मात्तथ्ये मुख्ये वस्तुनि कृचित्सिद्धे सत्यन्यत्रोपचारतस्तत्सिद्धिर्मता, यथा मुख्य यथार्थे सिंहेऽन्यत्र सिद्धे ततो माणवके सिंहोपचारः सिध्यति, एवमिहापि यदि मुख्या देवाः क्वचित्सिद्धा भवेयुस्तदा राजाऽऽदेवोपचारो युज्यते, नान्यथेति।।१५८०॥१८८१॥ देवाभावे चाग्निहोत्रक्रियाणां वैफल्यमिति दर्शयन्नाहदेवाभावे विफलं, जमग्गिहोत्ताइयाण किरियाणं / सग्गीयं जन्नाण य, दाणाइफलं च तदजुत्तं / / 1852 / / वा इत्यथवा, इदं दूषणम्-देवाभावेऽभ्युपगम्यमाने, यदग्निहोत्रादिक्रियाणाम्, “अग्निहोत्रं जुहुयात् स्वर्गकामः' इत्यादिना स्वर्गीयं फलमुक्तं, तथा यज्ञानां च यत्फलमभिहितं, दानाऽऽदिफलं च यत्समस्तलोकेप्रसिद्धम, तत्सर्वमयुक्तं प्राप्नोति / स्वर्गो ह्येतेषां फलमुक्तं, स्वर्गिणां चाभावे कुतः स्वर्ग इति। स एष यज्ञायुधी'' इत्यादीनि च वेदवाक्यानि देवास्तित्वप्रतिपादनपराणि वर्तन्ते / अतः किं तान् न प्रतिपद्यसे? यद्यपि "को जानाति मायोपमान गीर्वाणानिन्द्रयमवरुणकुबेराऽऽदीन" इत्यादि वाक्यं, तदपि नंदेवानां नास्तित्वाभिधायकं, किन्तु सुराणामपि मायोपमत्वाभिधानेन शेषर्द्धिसमुदायानां सुतरामनित्यत्वप्रतिपादकं बोद्धव्यम् / अन्यथा हि देवास्तित्वप्रतिपादकवाक्यानि, श्रुतिमन्त्रपदैरिन्द्राऽऽदीनामाह्वानं चानर्थकं स्यात्।।१८८२।। एतदेवाऽऽहजमसोमसूरसुरगुरु-सारज्जाईणि जयइ जन्नेहिं। मंतावाहणमेव य, इंदाईणं विहा सव्वं // 1553 / / यमेत्यादिपूर्वार्द्धस्यायमर्थः-- उक्थषोमशिप्रभृतिक्रतुभिर्यथाश्रुति ''यम-सोम-सूर्य-सुरगुरु-स्वाराज्यानि जयति" इत्यादीनि देवा