________________ थविरकप्प 2360 - अभिधानराजेन्द्रः - भाग 4 थविरकप्प अममत्त अपरिकम्मा, वसही वि पमज्जणं मोत्तुं / / 763|| द्विविधामप्याभ्युपगमिकीमौपक्रमिकी च वेदनां निष्कारणतः सहन्ते, भाज्या वा असहिष्णुत्वाऽऽदिकारणवसतो न सहन्तेऽपीति भावः। तथा वसतिरपि तेषामममत्वा ममेयमित्यभिष्वङ्गरहिता। "अपरिकम्मा" उपलेपनाऽऽदिपरिकर्मवर्जिता। किं सर्वथैव? नेत्याह-प्रमार्जनामेका मुक त्वा, कारणे तु सममत्वा सपरिकर्माऽपि भवति, परिणतचारित्राणां शैक्षाऽऽदीनां ममेयमित्यभिष्वङ्ग विधानात् सममत्वा सपरिकर्मा त्वपरिकर्माया वसतरलाभे द्रष्टव्या। अथ विशेषमाहतिगमाईया गच्छा, सहस्स-वत्तीसई उसभसेणे। थंडिल्लं पिय पढम, वयंति सेसे वि आगाढे 764|| त्रिकाऽऽदयस्त्रिचतुःप्रभृतिपुरुषपरिमाणा गच्छा भवेयुः / किमुक्त भवति?-एकस्मिन् गच्छे जघन्यतस्त्रयो जना भवन्ति, गच्छस्य साधुसमुदायरूपत्वात्, तस्य च त्रयाणामधस्तादभावादिति। तत ऊर्ध्व ये चतुः पचप्रभृतिपुरुषसंख्याका गच्छास्ते मध्यमपरिमाणतः प्रतिपत्तव्यास्तावद्यावदुत्कृष्ट परिमाणं न प्राप्नोति / किं पुनस्तदिति चेत् ? अत आह-(सहस्सवत्तीसई उसभसेणे ति) द्वात्रिंशत्सहनाण्येकस्मिन् गच्छे उत्कृष्ट साधूनां परिमाणं, यथा श्रीऋषभस्वामिप्रथमगणधरस्य भगवत ऋषभसेनस्येति। तथा स्थण्डिलमपि प्रथमम्अनापातमसलोकमेतद् गच्छवासिनी व्रजन्ति / आगाढे तु भावासन्नताऽऽदौ कारणे शेषाण्यपि अनापातसंलोकप्रभृतीनि स्थण्डिलानि गच्छन्ति। कियचिरमिति द्वारं विशेषयन्नाहके चिर कालं वसिहिह, ण ठंति निकारणम्मि इह पुट्ठा। अन्नं वा मग्गंती, ठविंति साहारणमलंभे 765|| कियचिरं कालं यूयमस्यां वसतौ वत्स्यथेति पृष्टाः सन्तो निष्कारणे न तिष्ठन्ति, किंतु क्षेत्रानतरं गच्छन्ति। अथ बहिरशिवाऽऽदीनां कारणानि, ततस्तत्रैव क्षेत्रे अन्यां वसतिं मार्गयन्ति / अथ मृग्यमाणाऽप्यन्या न लभ्यते, ततः साधारणं वचनं स्थापयन्ति, यथा नियाघाते तावद् वयं मास यावद् तिष्ठामहे, व्याघाते तु हीनाधिकमलाघवार्थम् / शेषद्वाराणि तुल्यवक्तव्यत्वादतिदिशन्नाहएमेव सेसएसु वि, केवइया वसिहिह त्ति जाणेयं / निक्कारणे पडिसेहो, कारणे जयणं तु कुव्वंति // 766|| एवमेव कियचिरद्वारवत्, शेषेष्वपि उच्चारप्रस्रवणाऽऽदिषु कियद्-द्वारेषु, कियन्तो वत्स्यथेति द्वारं यावन्नेयम् / किमित्याह- एतेष्वपि निष्कारणे प्रतिषेधो, न वसन्तीति भावः / कारणे तु यतनां कुर्वन्तिः किमुक्त भवति? यदि तिष्ठतामुचारप्रस्रवणयोः परिष्ठापनमकाले फलिहकाभ्यन्तरतो नानुजानन्तीत्यतस्तत्र न तिष्ठन्ति / अथाशिवाऽऽदिभिः कारणस्तिष्ठन्ति तत उच्चारं प्रश्रवणं वा मात्रकेषु व्युत्सृज्य बहिः परिष्ठापयन्ति। एवमवकाशाऽऽदिष्वपि द्रष्टव्यं,नवरमवकाशे यत्र प्रदेशे उपवेशनभाजनधावनाऽऽदिनानुज्ञातं, तत्र नोपदिशन्ति। कमठकाऽऽदिषु च भाजनानि धावन्ति, तृणफलकान्यपि यानि नानुज्ञातानि, तानि न परिभुञ्जते। | संरक्षता नामयत्र तिष्ठतामगारिणो भणन्ति-गवादिभिर्भज्यमानां वसतिमन्यद्वा समीपवर्ति, गृहं संरक्षत, तत्राऽप्यशिवाऽऽदिभिः कारणैः तिष्ठन्तो भणन्ति-यदि वयं तदानीं द्रक्ष्यामस्ततो रक्षिष्याम इति / संस्था-पनता नाम-वसतेः संस्कारकरण, तस्यामपि नियुक्ता भणन्तिवयमकुशलाः संस्थापनाकमणि कर्तव्ये, सप्राभृतिकायामपि वसती कारणतः स्थिता देशतः सर्वतो वा क्रियमाणायां प्राभृतिकायां स्वकीयमुपकरण प्रयत्नेन संरक्षन्ति, यावत्प्राभृतिका क्रियते तावदेकस्मिन् पायें तिष्ठन्ति, सदीपायां सानिकायां वसतौ का-रणे स्थिता आवश्यकं बहिः कुर्वन्ति। अवधानं नाम यदि गृहस्थाः क्षेत्राऽऽदि गच्छन्तो भणन्ति-अस्माकमपि गृहेषूपयोगो दातव्यो, मा शुनस्तेनकाऽऽदयः प्रविश्योपद्रवं कार्षुरिति, तत्रापि कारणे स्थिताः स्वयमेवावधानं ददति, अनुपस्थापितशैक्षैर्वा दापयति। यत्र च कति जना वत्स्यथेति पुष्टे सति कारणतस्तिष्ठद्भिः परिमा-णनियमः कृतःयथैतावद्भिः स्थातव्यं नाधिकैः, ततो यद्यन्ये प्राघूर्णकाः समागच्छन्ति तदा तेषामेव स्थापनाय भूयोऽप्यनुज्ञापनीयः सागारिकः, यद्यनुजानाति, ततः सुन्दरमेव, अथ नानुजानाति, ततोऽन्यस्यां वसतौ स्थापनीयास्ते प्राघूर्णका इति। भिक्षाचर्याऽऽदीनामवशिष्यमाणद्वाराणां विशेषमाहनिययाऽनियया भिक्खायरिया पाणऽण्णलेवऽलेवाडं / अंबिलमणं बिलं वा, पडिमा सव्वा वि अविरुद्धा॥७६७।। भिक्षाचर्या नियता कदाचिदाभिग्रहिकी, अनियता कदाचिदनाभिग्रहिकी. पानमन्नं वा लेपकृतं च भवेदलेपकृतं वा, द्राक्षाचिञ्चापानकाऽऽदि तक्रतीमनाऽऽदिकं च लेपकृतं सौवीराऽऽदिकं, वल्लचणकाऽऽदिकं चालेपकृतमाचाम्लमनाचाम्लं वा द्वयमपि कुर्वन्ति, प्रतिमाश्च मासिक्यादिका भद्राऽऽदिका वा सर्वाश्चाप्यमी-षामविरुद्धा इति। उक्तं सामाचारीद्वारम्। अथ स्थितिद्वारमभिधित्सुरगाथाद्वयमाहखेत्ते काले चरित्ते, तित्थे परियाएँ आगमे वेए। कप्पे लिंगे लेसा, झाणे गणणा अभिगहा य // 798|| पव्वावण मुंडावण, मणसाऽऽवन्ने उनत्थि पच्छित्तं। कारणे पडिकम्मम्मि य, भत्तं पंथो य भयणाए / 76EI क्षेत्रे काले चरित्रे तीर्थे पर्याये आगमे वेदे कल्पे लिङ्गे लेश्यायां ध्याने गणनायाम्, एतेषु स्थितिर्वक्तव्या। अभिग्रहाश्वामीषामभिघातव्याः। एवं प्रव्राजना, मुण्डापना, मनसाऽऽपन्नेऽप्यपराधे नास्ति प्रायश्चित्तं, कारणे प्रतिकर्मणि च स्थितिः भक्तपन्थानश्च भजनया इतिगाथाद्वयसमुदायार्थः। अवयवार्थं तु प्रतिद्वारं विभणिषुराहपन्नरस कम्मभूमिसु, खेत्तऽद्धोसप्पिणी य तिसु होजा। तिसु दोसु य उस्सप्पे, चउरो पलिभाग साहरणा / / 500 // क्षेत्रद्वारे जन्मतः, सद्भावतश्च स्थविरकल्पिकाः पञ्चदशस्वपि कर्मभूमिषु भरतैरावतिवदेहपञ्चकलक्षणासुभवन्ति, संहरणतः पञ्चदशानां कर्मभूमीना त्रिंशतामकर्मभूमीनामन्यतरस्यां भूमौ भवेयुः, अद्धा कालः, तमड़ीकृत्यावसर्पिण्या जन्मतः, सद्भावतश्च त्रिषु तृतीयपञ्चमारकेषु भवेयुः। (तिस दोसु