________________ खित्तचित्त ७४१-अभिधानराजेन्द्रः भाग-३ खित्तचित्त ध्यात्मादित्वाद् इकण / एवं लोकोत्तरे भवो लौकोत्तरिकः / अथ कथं केन प्रकारेण पुनः क्षिप्तः क्षिप्तचित्तोभवेत् ? सूरिराह-श्रृणुएभिर्वक्ष्यमाणैः कारणैर्भवति। तान्येव कारणान्याहरागेण वा भएण व, अह वा अवमाणितो नरिंदेण / एएहि खित्तचित्तो, वणियाइपरूवणा लोए॥ रागेण, यदि वा भयेन।अथवा नरेन्द्रेण प्रजापतिना। उपलक्षणमेतत्सामान्येन वा प्रभुणा अपमानितोऽपमानं ग्राहितः / एतैः खलु कारणैः क्षिप्तचित्तो भवति। तेच लोके उदाहरणत्वेन प्ररूपिता वणिगादयः / अत्र रागे क्षिप्तचित्तो यथा-वणि-भार्या / तथाहि काचिद्वणिग्भार्या / भरि मृतं श्रुत्वा क्षिप्तचित्ता जाता। भयेनापमानेन च क्षिप्तचित्तत्वे उदाहरणान्याह-- भयतो सोमिलवडुओ, सहसोत्थरितो व संजुयादीसु। घणहरणेण व पहुणा, विमाणितो लोइया खित्ते / / भयतो भयेन क्षिप्तचित्तः / यथा-गजसुकुमालमारको जनार्दनभयेन। सोमिलनामा वटुकौ ब्राह्मणः। अथ वा संयुगादिषु संयुगं संग्रामस्तत्र, आदिशब्दात्परबलधाटीसमापतनादिपरिग्रहः तैः / गाथायां सप्तमी तृतीयार्थे / सहसा अतर्कितः समन्ततः परिगृहीतो भयेन क्षिप्तचित्तो भवति। स च प्रतीत एव / भयेनोदाहरणमुक्तम् / संप्रत्यपमानत आहप्रभुणा वा नरेन्द्रेण धनहरणेन समस्तद्रव्यापहरणतो विमानितोऽपमानितः क्षिप्तो भवति / एवमादिकानि लौकिकान्युदाहरणानि क्षिप्ते क्षिप्तचित्तविषयाणि। संप्रति लोकोत्तरिकान्यभिधित्सुराहरागम्मि रायखुड्डो, जड्डादितिरिक्खचरियवायम्मि। रागेण जहा खित्तो, तमहं दुच्छ समासेणं / / रागे सप्तमी तृतीयार्थे, रागेण क्षिप्तचित्तो यथा राजक्षुल्लक:शाकपार्थिवादिदर्शनादिह मध्यमपदलोपी समासः / उभयेन यथा जड्डादीन् हस्तिप्रभृतीन् तिरश्चो दृष्ट्वा / अपमानेन यथाचरकेण सह वादे पराजितः। तत्र रागेण यः राजक्षुल्ल्कः क्षिप्तचित्तोऽभवत्तमहं तथा समासेन वक्ष्ये। यथाप्रतिज्ञातं करोतिजियसंत्तुनरवइस्सा, पटवज्जा सिक्खणा विदेसम्मि। काऊण पोयणम्मी, तव्वादं निव्वुतो भयवं / / एक्को य तस्स भाया, रजसिंरि पयहिऊण पव्वइतो। भाउगअणुरागेणं, खित्तो जातो इमो उ विही॥ जितशत्रुमि नरपतिस्तस्य प्रव्रज्याऽभवत्, धर्म तथाविधानां स्थविराणामन्तिके श्रुत्वा प्रव्रज्यां स प्रतिपन्नवानित्यर्थः / प्रव्रज्यानन्तरं च तस्य शिक्षा ग्रहणशिक्षा, आसेवना शिक्षा च प्रवृत्ता। कालान्तरे च पोतनपुरे विदेशरूपे परतीर्थिभिः सह वाद उपस्थितः। ततस्तैः सह शोभनो वादस्तान् जित्त्वा महतीं जिनशासने प्रभावनां कृत्वा स भगवान् निर्वृत्तो मुक्तिपदवीमधिरूढः। (एको य इत्यादि) एकश्च तस्य जितशत्रोः राज्ञः प्रव्रजितस्यानुरागेण राज्यश्रियं प्रहाय परित्यज्य जितशत्रुप्रव्रज्याप्रति पत्त्यनन्तरं कियता कालेन प्रव्रजितः प्रव्रज्यां प्रतिपन्नः / स च तं ज्येष्ठभ्रातरं विदेशे पोतनपुरे कालगतं श्रुत्वा भ्रात्रनुरागेणापहतचित्तो जातः / तत्र चायं वक्ष्यमाणस्तत्प्रगुणीकरणाय विधिः। तमेवाहतेल्लोकदेवमहिया, तित्थयरा नीरया गया सिद्धिं / थेरा वि गया केई,चरणगुणपहावगा धीरा।। तस्य भ्रात्रादिमरणं श्रुत्वा क्षिप्तचित्तीभूतस्याऽऽश्वासनार्थमियं देशना कर्तव्या / यथा-मरणपर्यवसानो जीवलोकः / तथाहि-ये तीर्थकरा भगवन्तस्यैलोक्यदेवैस्त्रिभुवननिवासिभिर्भवनपत्यादिभिर्देवैर्महितास्तेऽपि नीरजसो विरतसमस्तकर्म, परिमाणवः सन्तो गताः सिद्धिम् / तथास्थविरा अपि केचिन्म हीयांसो गौतमस्वामिप्रभृतयश्चरणप्रभावका धीरा महासत्त्वाः देवदानवैरप्यक्षोभ्याः सिद्धिं गताः। तद्यदि भगवतामपि तीर्थ कृतां महतामपि महर्षी णामीदृशी गतिस्तत्र का कथा शेषजन्तूनां तस्मादेतादृशीं संसारस्थितिमनुचिन्त्य न शोकः कर्तव्य इति। अन्यच्चन हु होइ सोइयवो, जो कालगतो दढो चरित्तम्मि। सो होइ सोइयव्वो, जो संजमदुव्वलो विहरे।। न'ह' निश्चितं सशोचयितव्यो भवति, यश्चारित्रे दृढः सन् कालगतः। स खलु भवति शोचयितव्यो यः संयमे दुर्बलः सन् विहृतवान्। सकस्माच्छोचयितव्यः? इत्यत आहजो जह व तह व लद्धं, मुंजइ अहारउवहिमाईयं / समणगुणमुक्कजोगी, संसारपवड्डगो भणिओ॥ यो नाम यथा वा तथा वा दोषदुष्ट, सदोषतया इत्यर्थः / लब्धमाहारोपध्यादिकं भुङ्क्ते उपभोगविषयीकरोति / श्रमणानां गुणाः मूलोत्तरगुणरूपाः श्रमणगुणास्तैर्मुक्ताः परित्यक्तास्तद्रहिता ये योगा मनोवाकायव्यापारास्ते श्रमणगुणमुक्तयोगास्ते यस्य सन्ति सश्रमणगुणमुक्तयोगी संसारप्रवर्द्धको भणितस्तीर्थकरगणधरैः। ततोयः संयमदुर्बलो विहृतवान् स शोच्य एव / भवदीयस्तु भ्राता यदि कालगतो दृढश्चारित्रे ततः स परलोकेऽपि सुगतिभागिति / न करणीयः शोकः / संप्रति 'जड्डादितिरिक्ख' इत्यंशस्य व्याख्यानार्थमाहजड्डाई तेरिच्छे, सत्थं अगणी य मेहविज्जू य / ओमे पडिभीसणया, चरगं पुर्व परूटवेह। जड्डो हस्ती आदिशब्दात् सिंहादिपरिग्रहः तान्। तिरश्ची दृष्ट्वा किमुक्तं भवतिगजं वा मदोन्मत्तं, सिंह वा गर्जन्तं, व्याघ्रं वा, तीक्ष्णखरनखरविकरालमुखं दृष्ट्वा कोऽपि भयतः क्षिप्तचित्तो भवति। कोऽपि पुनः शस्वाणि खगादीन्यायुधानि दृष्ट्वा / इयमनभावनाकेनापि परिहारोनोगीर्ण खङ्गं वा कुन्तं वा छुरिकादिकं वा दृष्ट्वा कोऽपि हा मारयति मामेष इति सहसा क्षिप्तचित्त उपजायते 1 तथा अनौ प्रदीपनके लने कोऽपि भयतः क्षिप्तो भवति। कोऽपिस्तनितं मेधगर्जितमाकर्ण्य / कोऽपि विद्युतं दृष्ट्वा / एवं क्षिप्तचित्ततां यातस्य (ओमेपडिभीसणया इति) अवमो लघुतरस्तेन प्रतिभीषणं हस्त्यादेः कर्त्तव्यं येन क्षिप्तचित्तताऽपगच्छति / यदि पुनश्चरकेण वादे पराजितः इति क्षिप्तचित्तो भवेत् ततश्चरकं