________________ कोह ६५४-अभिधानराजेन्द्रः भाग-३ कोहंभिदेव लेपकारी कर्दमविशेष एव, बालुका प्रतीता, सा तु लग्नाऽपिजलशोषे पादादेरल्पेनैव, प्रयत्नेनापैतीत्यल्पलेपकारिणी, शैलास्तु पाषाणाः श्लक्ष्णरूपाः, ते पादादेः स्पर्शनेनैव किञ्चित् दुःखमुत्पादयन्ति, न तु तथाविधं लेपमुपजनयन्ति॥स्था० 4 ठा०३० उ०। आचा०। जलरेणुपुढविपव्यय-राईसरिसो चउविहो कोहो। इह राजिशब्दः सदृशशब्दश्च प्रत्येकं संबध्यते, ततो जलराजिस दृशस्तावत्संज्वलनः क्रोधः। यथा यष्ट्यादिभिर्जलमध्ये राजी रेखा क्रियमाणा शीघ्रमेव निवर्त्तते, तथा यः कथमप्युदयं प्राप्तोऽपि सत्वरमेव व्यावर्त्तते, स संज्वलनक्रोधोऽभिधीयते, रेणुराजिसदृशः प्रत्याख्यानावरणः क्रोधः / अयं हि संज्वलनक्रोधापेक्षया तीव्रत्माद्रेणुमध्यविहितरेखावचिरेण निवर्त्तत इति भावः / पृथिवीराजिसतदृशस्त्वप्रत्याख्यानावरणः, यथा स्फुटितपृथिवीसंबन्धिनी राजी कचवरादिभिः पूरिता कष्टेनापनीयते, एवमेषोऽपि प्रत्याख्यानावरणापेक्षया कष्टेन विनिवर्त्तत इति भावः / विदलितपर्वतराजीसदृशः पुनरनन्तानुबन्धी क्रोधः कथमपि निवर्तयितुमशक्य इत्यर्थः / उक्तश्चतुर्विधः क्रोधः। कर्म० 1 कर्म०। "कोहे कोवे रोसे दोसे अखमासंजलणे कलहे चंडिक्के भंडणे विवाए" इति दश नामानि क्रोधकषायस्य गौणमोहनीयकर्मणि अन्तभवन्ति / स०५२ सम० / आ० म० / आ० चू० / (क्रोधे उदाहरणम् 'जमदग्गि' शब्दे) कोहं असचं कुवेजा, धारेज्जा पियमप्पियं / क्रोधमसत्यं कुर्यात् गुरुभिर्निर्भत्सितः कदाचित् सक्रोधः स्यात्तदाऽपि क्रोधं विफलं कुर्यात् अप्रियमपि गुरुवचनं प्रियमिव आत्मनो हितमिव स्वमनसिधारयेत्।१४१ अथ क्रोधस्य असत्यकरणे उदाहरणम्। यथाकस्यचित्कुलपुत्रस्य भ्राता वैरिणा व्यापादितः, अन्यदा कुलपुत्रो जनन्या भणितः-पुत्र ! त्वद्भातृघातुकं वैरिणंधातय। ततः स वैरी तेन कुलपुत्रेण शीघ्रं निजबलात् जीवग्राहं गृहीत्वा जननीसमीपे आनीतः भणितश्च / अरे। भ्रातृधातक ! अनेन खङ्गैन त्वामहं क्व हन्मि? तेनापि उद्वमितं प्रचण्ड दृष्टवा भयभीतेन भणितम्-यत्र शरणागता न हन्यन्ते एतद्वचः श्रुत्वा कुलपुत्रेण जननीमुखमवलोकितम्। जनन्या च सत्वमवलम्च्य उत्पन्नकरुणया भणितम्-हे पुत्र ! शरणागगता न हन्यन्ते / यतः"सरणागयाणं विस्संभियाण पणयाण वसणपत्ताणं / रोगी अजुंगमाणं, सप्पुरिसा नेव पहरंति" ||1|| तेन कुलपुत्रेण भणितम्-कथं रोष सफलीकरोमि? जनन्या उक्तम् वत्स ! सर्वत्र न रोषः सफलीक्रियते। जननीवचनात् स तेन मुक्तः। तयोश्चरणेषु पतित्वा क्षामयित्वा चापराधं सगतः एवं क्रोधमसत्यं कुर्यात्। इति कुलपुत्रस्य कथा। उत्त०१ अ०। "कोहो अप्पीइकरो, उव्वेयकरो य सुगइनिइलणो। वेरणुबंधज्जलणो, जलणो वरगुणगणवणस्स॥८४|| कोहंधा निहणंती, पुत्तं भित्तं गुरुं कलत्तं च। जणयं जणिं अप्पिं पि, निग्धिणा किंच न कुणंति ?||8|| कोहग्गी पञ्जलिओ, न केवलं दहइ अप्पणो देहं / सत्ताविई य परपि हु, प्रहवइ परभयविणासाय 86)) ता कोहमहाजलणां, विज्झवियव्वो खमाजलेण सया। न कारणरुषां संख्याऽसंख्याताः कारणाधः। कारणेऽपि न कुप्यन्ति, ये ते जगति पञ्चषाः" / अङ्का०१ प्रस्ता०। / __ क्रोधकषायमुद्भावयितुमाह - जे कोहणे होइ जगट्ठभासी, विओसियं जे उ उदीरएज्जा।। अंधे व से दंडपहं गहाय, अविओसिए घासति पावकम्मी॥५॥ यो ह्यविदितकषायविपाकः प्रकृत्यैथ क्रोधनो भवति, तथा जगदर्थभाषी यश्च भवति। जगत्यर्था जगदा ये यथा व्यवस्थितताः पदार्थास्तानाभाषितुं शीलमस्य जगदर्थभाषी तद्यथा-ब्राह्मणं 'डोम' इति ब्रूयात्तथा वणिज 'किराट' इति, शुद्धम् 'आभीर' इति, श्वपाकं 'चाण्डालं' इत्यादि। तथा काणं काणमिति, तथा खंज कुब्जं वडभमित्यादि, तथा कुष्ठिनं क्षयिणमित्यादि। यो यस्य दोषस्तं तेन खरं परुपं ब्रूयात् यः स जगदर्थभाषी। यदि वा जयार्थभाषी यथैवात्मनो जयो भवति तथैवाविद्यमानमर्ये भाषते तच्छीलश्च, येन केनचित्प्रकारेणाऽसदर्थभाषणेप्यात्मनो जयमिच्छतीत्यर्थः। (विओसियं ति) विविधमवसितं पर्यवसितमुपशान्तं द्वन्द्वं कलहं यः पुनरप्युदीरयेत् / एतदुक्तं भवतिकलहकारिभिमिथ्या दुष्कृतादिना परस्परं क्षामितेऽपि तद् ब्रूयाद्येन पुनरपि तेषां क्रोधादयो भवन्ति / सांप्रतमेतद्विपाकं दर्शयति--यथा ह्यन्धश्चक्षुर्विकलो दण्डपथं गोदण्डमार्ग प्रमुखोज्ज्वलं गृहीत्वाऽऽश्रित्य व्रजन् सम्यग्कोविदतया घृष्यते कण्टकश्वा पदादिभिः पीड्यते, एवमसावपि केवलं लिङ्गधार्यनुपशान्तक्रोधः कर्कशभाष्याधिकरणो-दीपकः, तथा (अविओसिय त्ति) अनुपशान्तद्वन्द्वः पापमनार्य कर्मानुष्ठानं यस्यासी पापकर्मा घृष्यते, चतुर्गतिके संसार यातनास्थानगतः पौनःपुन्येन पीड्यत इति // 5 // सूत्र०१ श्रु०१३ अ०। "णस्थि कोहे व माणे वा, णेवं सन्न नियेसए / अस्थि कोहे व माणे वा, एवं सन्नं निवेसए" // 20 // इति क्रोधसिद्धिः 'अत्यिवाय' शब्दे प्र० भागे 521 पृष्ठे उक्ता) “विगिंच कोहं अविकंपमाणे" कारणेऽकारणे वाऽतिक्रूराध्यवसायः क्रोधः, तं त्यज, तस्य च कार्य कम्पनं तत्प्रतिषेधं दर्शयत्यविकम्पमानः। सूत्र०१ श्रु०४ अ०१ उ०। "लोभी पश्येद्धनप्राप्ति, कामिनी कामुकस्तथा / भ्रमन् पश्येदथोन्मत्तो, न किञ्चिच्च कुधाऽऽकुलः" ||1|| उत्त० अ०। क्रोधपरिणामजनके (मोहनीय) कर्मणि, भ० 12 श०५ उ०। कोहंगक पुं० (कोहङ्गक) पक्षिभेदे, औ०। (अनन्तानुबन्ध्यादि चतुर्दा क्रोधः 'कसाय' शब्दे अस्मिन्नेव भागे 365 पृष्ठे उक्तः) कोहंझाण न० (क्रोधध्यान) कूलबालुकगोशालककपालकनमुचिशिव भूतिप्रभृतीनामिव क्रोधाध्यवसितै ध्याने, आतु०। कोहंड पुं० (कूष्माण्ड) रत्नप्रभाया उपरियोजनशते स्थानधति अप्रज्ञप्तयादिषुसप्तमे व्यन्तरनिकाये, प्रव० 164 द्वार / पुष्पफले, अनु०। सौधर्मकल्पे स्वनामख्याते विमाने, ती०५६ कल्प। कोहंडिदेव पुं० (कूष्माण्डिदेव) सौमभट्टभा-या अम्बिका-याः कूष्माण्डे कल्पे देवत्वेनोत्पन्ने जीवे, ती०। तत्कल्प इत्थम्"सिरिउज्जयंतगिरिसिहर-सेहर पणमिऊण नेमिजिणं / कोहंडिदेवकप्पं, लिहामि वुड्डोवएसाओ" ||1|| अस्थि सुरडाषिसए धणक णयसंपन्नजणसमिद्धं कोडीनारं