________________ कसाय 396 - अभिधानराजेन्द्रः - भाग 3 कसाय प्रत्येकं चतुःप्रकाराः सामान्यतो दण्डकक्रमेण च वेदितव्याः। सम्प्रति फलभेदेन कालत्रयवर्त्तिनां भेदमभिधातुकाम आहजीवाणं भंते ! कतिहिं ठाणेहिं अट्ठ कम्मपगडीओ चिणिंसु ? गोयमा ! चउहिं ठाणेहिं अट्ठ कम्मपगडीओ चिणिंसु तंजहा कोहेणं जाव लोभेणं एवं नेरइयाणं जाव वेमाणियाणं / जीवेणं भंते ! कतिहिं ठाणेहिं अट्ठ कम्मपयडीओ चिणंति? गोयमा ! चउहिं ठाणेहिं तंजहा कोहणं जाव लोभेणं एवं नेइया जाव वेमाणिया जीवेणं भंते ? कतिहिं ठाणेहिं अट्ठ कम्मगडीओ चिणिस्संति ? गोयमा ! चउहिं ठाणेहिं अट्ठकम्मपगयडीओ चिणिस्संति तंजहा कोहणं जाव लोभेणं / एवं नेरइया जाव वेमाणिया। जीवाणं भंते ? कतिहिं ठाणेहिं अट्ठ कम्मपगडीओ उवचिणिंसु ? गोयमा ! चउहिं ठाणेहिं अट्ठ कम्मपगडीओ उवचिणिसुं तंजहा कोहेणं जाव लोभेणं / एवं नेरइया जाव वेमाणिया ।जीवाणं पुच्छा? गोयमा ! चउहिं ठाणेहिं वचिणंति कोहेणं जाव लोभेणं एवं नेरइया जाव वेमाणिया एवं उवचिणिस्संति / जीवाणं भंते ! कतिहिं ठाणे हिं अट्ठकम्मपगडीओ बंधिसु ? गोयमा ! चउहिं ठाणेहिं अट्ठकम्मपगडीओ बधिसुं तंजहा कोहणं जाव लोभेणं एवं नेरइया जाव वेमाणिया बेधिंसु बंधति बंधिस्संति उदीरेंसं उदीरंति उदीरिस्संति वेदिसु वेदंति वेदिस्संति निजसु निजरंति निजरिस्संति। एवं एते जीवादीया वेमाणिया पज्जवसाणा अट्ठारस दंडगा जाव वेमाणिया निजरेंसु निजरंति निजरिस्संति “आतपतिट्ठिति खेत्तं, पडुच अणंताणुबंधिआभोगे / चिणउबचिणबंधउदीरण वेद तह णिज्जरा चेव / / जीवा भदन्त ! कतिभिः स्थानैरष्टौ कर्मप्रकृतीश्चितवन्तः चयनं नाम कषायपरिणतस्य कर्मपुद्रलोपादानमात्र भगवानाहः / गौतम ! चतुर्भिः स्थानस्तद्यथा क्रोधेन मानेन मायया लोभेन। एवं नैरयिकादिदण्डकोऽपि वक्तव्य एष दण्डकोऽतीतकालविषयः एवं वर्तमानकालभविष्यकालविषयावपि वाच्यौ, एवमुदयबन्धोदीरणवेदननिर्जराविषया अपि प्रत्येक यस्त्रयो दण्डका वाच्या इति सर्वसंख्ययाष्टदश दण्डकास्तत्रोपचयो नाम स्वस्वाबाधाकालस्योपरिज्ञानावरणीयादीकर्मपुद्गलानां वेदनार्थ निषेकः / सचैवं प्रथमस्थितौ सर्वमभूतं द्वितीयस्यां स्थितौ विशेषहीनं, ततोऽपि तृतीयस्यां विशेषहीनम् एवं विशेहीनं विशेषाहीनं तावद्वाच्यं यावत्तत्कालबध्यमानायाः स्थितेश्चरमास्थितिरेतच सविस्तारं कर्मप्रकृतिटीकाया पञ्चसंग्रहटीकायां चाभिहितमिति ततोऽवधार्यम् / बन्धनं नाम ज्ञानावरणीयादिकर्मपुद्गलानां यथोक्तप्रकारेण स्वस्वाबाधाकालोत्तरकाले निषक्तानां यद्भयकषायपरिणतिविशेषान्निकाचनमुदीरणामुदीरणाकरणवसतः कर्मपुद्गलानामनुद यप्राप्तानामुदयावलिकानां प्रवेशनं तदपि हि किञ्चित्तथाविधकषायपरिणतिवशाङ्ग वतीति "चउहि ठाणेहिं उदीरहिंसु उदीरंति उदीरिस्संती" त्युक्तम्। अन्यथा कषायव्यतिरकेणापि क्षीणमोहोदये ज्ञानावरणादीनामुदीरिका वर्तन्ते इति वेदना स्वस्वाबाधाकालक्षयादुदयप्राप्तस्य उदीरणाकरणेन वा / उदयमुपनीतस्य कर्मण उपभोगः निर्जराः कर्मपुद्गलानामभूयानुभूय कर्मत्वापादानमात्मप्रदेशः संश्रिष्टानां ज्ञानावरणीयादिकर्मपुद्गलानामनुभूयानुभूय शातनमिति भावः। उक्तञ्च "पुव्यकयकम्मसामण निजरा इति" इयञ्च देशनिर्जरा द्रष्टव्या कषायजनितत्वान्न सर्वनिर्जरा / सा हि निष्कषायस्य सर्वनिरुद्धयोगस्य मोक्षप्रासादमधिरोहतो भवति न शेषस्यात एव चतुर्विशतिदण्डकसूत्रमप्यविरुद्धं देशनिर्जरायाः सर्वकालं सर्वेषामपि भावात्। सम्प्रति यत्पदमधिकृत्य प्राक् सूत्राण्युक्तानि तानि विनेयजनानुग्रहाय सङ्ग्रहणिगाथया निर्दिशति / “आयपइट्टिए" इत्यादिप्रथमं सामान्यसूत्रे सुप्रतीतमिति न संगृहीतं द्वितीयमात्मप्रतिष्ठितपदोपलक्षितं सूत्रं ततोऽनन्तानुबन्धिपदोपलक्षितं तदनन्तरमाोगपदोपलक्षितं ततश्चयोपचयबन्धोदीरणवेदनानिर्जराविषयाणि क्रमेण सूत्राणि / अत्र चिणेति उपचयसूत्रोपलक्षणम्। प्रज्ञा०१४ पदका स्था०| जी०। “मूलं संसारस्स य, हों ति कसाया अणं तपत्तस्स / विणओ ठाणपउत्तो, दुक्खविमुक्खस्स मोक्खस्स" दश०४ अ०।“कसायवुड्डि करेजा गच्छवज्झों" प्रायः / महा०७ अ० "कोहं माणं मायं, लोह च महज्जयाणि चत्तारि। जो रुभइ सुद्धत्था, एसो नोइंदिअपणिही / / जस्स वि य दुप्पणिहिया, होति कसाया तवं चरंतस / सो वालतवस्सो विव,गयण्हाण परिस्सम कुणइ / सामन्नमणुचरंतस्स, कसाया जस्स उक्कडा होति। मन्नामि उच्छफुल्लं, वणिप्फुल्लं तस्स सामण्णं / / दशा०८ अ०(पणिहिशब्दे व्याख्यास्यन्ते)“अकसायं तु चरिक्तं, कसायसयितो न संजओ होइ"(इति अहिगरणशब्दे उपपादितम्)। काहे माणं च मायं च, लोभं च पाववड्डणं। वमे चत्तारि दोसाइं, इच्छंतो हियमप्पणो // 37 // क्रोधं मानं च मायां च लोभं च पापवर्द्धनं सर्व एते पापहे तव इति पाण्वर्द्धनव्यपदेशः / यतश्चैवमतो वमेचतुरो दोषानेतानेव क्रोधादीन् हितमिच्छन्नात्मनः एतद्वमने हि सर्व सदिति सूत्रार्थः। अवमने त्विह लोके एवापायमाहकोहो पीइं पणासेइ, माणो विणयनासणो। मायामित्ताणि नासेइ,लोभो सव्वविणासणो॥३८|| क्रोधः प्रीति प्रणाशयति क्रोधान्धवचनतस्मदुच्छेददर्शनात् मानो विनतयनाशनः अवलेपेन मूर्खतया तदकरणोपलब्धेर्मायामित्राणि नाशयति कौटिल्यवतस्तत्त्यागदर्शनात् / लोभः सर्वविनाशानः तत्वतस्त्रयाणामपितद्भावभावित्वादिति सूत्रार्थः / यत एवमतः। उवसमेण हणे कोहं, माणं मद्दवया जिणे। मायं चञ्जवभावेणं, लोभं संतोसओ जिणे / / 3 / / उपशमेन क्षान्तिरूपेण हन्यात्क्रोधमुदयनिरोधोदयप्राप्ताफली करणेन एवं मानं माईवेनानुत्थिततया जयेत् उदयनिरोधादिनैव मायां च ऋजुभावेनाशठतया उदयनिरोधादिनैव एवं लोभं सन्तोषेण निःस्पृहत्वेन जयेत्तदुदयनिरोधोदयप्राप्ताफलीकरणेनेति सूत्रार्थः। क्रोधादीनामेव परलोकापायमाह