SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ कम्म 266 अभिधानराजेन्द्रः भाग 3 कम्म दशधात्वं मिथ्यात्वमित्यनेन प्रदर्शितप्रकारेण सर्वमपि स्वावार्य गुणं धातयन्तीत्येवंशीलाः सर्वधातिन्यो विंशतिसंख्या भवन्तीत्यक्षरार्थो भावार्थः पुनरयम् इह केवलज्ञानावरणस्य स्वावार्यकवलज्ञानलक्षणोगुणः सच यद्यपि सर्वाऽत्मनाऽऽवियते तथापि सर्वजीवानां केवलज्ञानस्यानन्तभागोऽनावृत एवावतिष्ठते तदावरणे तस्य सामर्थ्याभावात् यदाहुः श्रीदेवर्द्धिवाचकवराः। "सव्वजीवाणं पिय णं अक्खरस्स अणंतभागो निव्वुग्धाडिओ चिट्ठइत्ति' कथं तर्हि सर्वघातित्वमिति चेदाभिधीयते। यथा अतिबहुलजलदपटलेन नातितरामुन्नतेन बहुतराया आवृतत्यात्स ऽपि सूर्याचन्द्रमसोः प्रभा तेनावृतेति वचनरचना प्रवर्तते। अथचाद्यापि काचित्प्रभा प्रसरति। "सुळु वि मेहसमुदए, होइ पहा चंदसूराण मिति' वचनादनुभवसिद्धत्वाच तथाऽत्रापि प्रबलकेवलज्ञानावरणावृतस्यापि केवलज्ञान-स्यानन्तभागोऽनावृत एवास्ते। यदि पुनस्तदप्यावृणुयात्तदा जीवोऽजीवत्वमेव प्राप्नुयात्। यदुक्तम्, नन्द्यध्ययने "जइ पुण सो वि आवरिज तोणं जीवो अजीवत्तण पावित्र'" सोऽपि चावशिष्टोऽनन्तभागो जलधरानावृतदिनकरप्रसर इव कटकुटगदिभिर्मतिश्रुतावधिमनः पर्यायज्ञानावरणैराप्रियते तदा काचिन्निगोदावस्थायामपि ज्ञानमात्राऽवतिष्ठते। अन्यथाऽजीवत्वप्रसङ्गान्मतिज्ञानादिविषय-भूतांश्चार्थान्यन्न जानीतेस केवलज्ञानावरणोदयो न भवति किं तर्हि मतिज्ञानावरणाधुदय एवेति / केवलदर्शनावरणस्य समस्तवस्तुस्तोम-सामान्यावबोधः अवार्यस्तं सर्वं हन्तीति सर्वघात्यभिधीयते तदनन्तभागं त्विदमपि सामर्थ्याभावान्नावृणोति सोऽपि चानावृतोऽनन्तभागश्चक्षुरचक्षुरवधिदर्शनावरणैरावियते शेषो जलधरदृष्टान्तादवार्यस्तथैव यचक्षुर्दर्शनाविषयानर्था न पश्यति स केवलदर्शनावरणोदयो न भवति किं तर्हि चक्षुर्दर्शनावरणाद्युदय एवेति। यद्येवंतर्हि केवलज्ञानावरणकेवलदर्शनावरणक्षये सत्यपि मतिज्ञानादिचक्षुर्दर्शनादिविषयाणामर्थानामवबोधो न प्राप्नोति भिन्नज्ञानविषयत्वादिति चेत् तदयुक्तम् / उच्यते केवलालोकलाभे शेषावबोधलाभान्तर्भावात् ग्रामलाभे क्षेत्रलाभो ग्रामलाभान्तर्भाववदिति। निद्रापञ्चकमपि सर्ववस्त्ववबोधमावृणोतीति सर्वघाति / यत्पुनः स्वापावस्थायामपि किञ्चित् किञ्चिद्वेत्ति तत्र धाराधरनिदर्शनं वाच्यम्। तथाऽनन्तानुबन्धिनोऽप्रत्या-ख्यानावरणाः प्रत्याख्यानावरणाश्च प्रत्येकं चत्वारो यथाक्रम सम्यक्त्वंदेशविरतिचारित्रं सर्वविरतिचारित्रं सर्वमेव घ्नन्तीति सर्वधातिनो द्वादशापि कषायाः। यः पुनस्तेषां प्रबलोदयेऽप्ययोग्याहारादिविरमणमुपलभ्यते तत्र वारिवाह-दृष्टान्तो वाच्यः / तथा मिथ्यात्वं तु जिनप्रणीततत्वश्रद्धानस्वरूपं सम्यक्त्वं सर्वमपि हन्तीति सर्वघाति / यत्तु तस्य प्रबलोदयेऽपि मनुष्यपश्वादिवस्तुश्रद्धानंतदपि जलधरोदाहरणादवसेयमिति भावितः सर्वघातिन्यः। संप्रति देशघातिन्यो भाव्यन्ते (चउनाणातिदसणावरणत्ति) आवरणशब्दस्य प्रत्येकं संबन्धान्मतिज्ञानावरणश्रुतज्ञानावरणावधिज्ञानावरणमनःपर्यायज्ञानावरणलक्षणं दर्शनावरणत्रिकं चक्षुर्दर्शनावरणाऽचक्षुर्दर्शनावरणावधिदर्शनावरणरूपमिति / संज्वलनाश्चत्वारः क्रोधमानमायालोभाः / नोकषाया हास्यरत्यरतिशोकभयजुगुप्सास्त्रीवेदपुंवेदनपुंसकवेदस्वरूपा नवपञ्चविधमन्तरायं दानलाभभोगोपभोगवीर्यान्तरायलक्षणमित्यमुना दर्शितप्रकारेण देशघातिन्यः पञ्चविंशतिसंख्याः भवन्तीत्यक्षरार्थः / भावार्थस्त्वयं मतिज्ञानावरणादिचतुष्कं केवलज्ञानावरणावृतं ज्ञानदेशं हन्तीति देशघातीदमुच्यते। मत्यादिज्ञानचतुष्टयविषयभूतानर्थान् यन्नावबुध्यते स हिमत्यावरणाधुदय एव तदविषयभूतांस्त्वनन्तगुणान् यन्न जानीतेस केवलज्ञानावरणस्यैवोदय इति / चक्षुरचक्षुरवधिदर्शनावरणान्यपि केवलदर्शनावरणा-नावृतकेवलदर्शनकदेशमावृण्वन्तीति देशघातीनि। तथा हि चक्षुरचक्षुरवधिदर्शनविषयभूतानेवार्थान् एव तदुदयान्न पश्यति तदविषयभूतांस्त्वनन्तगुणान् केवलदर्शनावरणोदयादेव न समीक्षते। तथा संज्वलना नव नोकषायाश्च लब्धस्य चारित्रस्य देशमेव घन्तीति देशघातिनस्तेषां मूलोत्तरगुणानामतीचारजनकत्वात् / यदवादि श्रीमदाराध्यपादैः। 'सव्वे विय अइयारा, संजलणाणं तु उदयओ हुंति। मूलविजं पुण होइ, वारसण्हं कसायाण" मिति दानान्तरायादीनि पञ्चान्तरायाण्यपि देशघातीन्येव तथा हि दानलाभभोगोपभोगानांतावद् ग्रहणधारणयोग्यान्येव द्रव्याणि विषयस्तानि च समस्तपुद्गलास्तिकायस्यानन्तभागरूपे देश एव वर्तन्ते / अतो यदुदयात्तानि पुद्गलास्तिकायदेशवर्तीनि द्रव्याणि यद्दातुं लब्धं भोक्तुमुपभोक्तुं च न शक्रोति तानि दानलाभभोगोपभोगान्तरायाणि तावद्देशघातीन्येव / यत्तु सर्वलोकवर्तीनि द्रव्याणि न ददाति न लभते न भुङ्क्ते नाप्युपभुङ्क्ते न तदानान्तरायाधुदयात् / किं तु तेषामेव ग्रहणधारणाविषयत्वेनाशक्यानुष्ठानत्वादिति मन्तव्यम्। बीर्यान्तरायमपि देशघात्येव सर्वं वीर्य नघातयतीति कृत्वा तथा हि सूक्ष्मनिगोदस्य वीर्यान्तरायकर्मणोऽभ्युदये वर्तमानस्याप्याहारपरिणमनकर्मदलिकग्रहणगत्यन्तरगमनादिविषय एतावान् वीर्यान्तरायकर्मक्षयोपशमो विद्यते तत्क्षयोपशमविशेषतश्च निगोदजीवमादौ कृत्वा यावत्क्षीणमोहस्तावदीर्यमल्पं बहु बहुतरं च तारतम्याद्भवतीति / केवलिनश्च तत्कर्मक्षयसंभूतं सर्व वीर्य भवतीति देशघातीदम् / यदि पुनः सर्वधाति स्यात्तदा यथैव मिथ्यात्वस्य कषायद्वादशकस्य च उदये तदा वीर्य सम्यक्त्वगुणं देशसर्वसंयमगुणं च जधन्यमपिन लभ्यते तथैव तदुदयेऽपि तदा वीर्य जघन्यमपि वीर्यगुणं न लभेत न चैवमस्ति तस्मादिदमपि देशघातीति स्थितमित्युक्ताः सर्वदेशघातिन्यः / संप्रति तत्प्रतिपक्षभूता अघातिनीयाचिख्यासुराह (अघाईइत्यादि) अघातिन्य एताः पञ्चसाप्ततिसंख्याः प्रकृतयोऽभिधीयन्ते तद्यथा (पत्तेयत्ति) प्रत्येकं प्रकृतयः पराघातोच्छ्वासातपोद्योतागुरुलघुतीर्थकरनिर्माणोपघातरूपा अष्टौ (तणुहति) तन्वा शब्देनोपलक्षितमष्टकं "तणुबंगागिइसंघयणजाइगइखगइपुग्वित्ति" लक्षणं तन्वष्टकं तत्र तनव औदारिकवैक्रियाहारकतैजसकार्मणलक्षणाः पञ्च / उपाङ्गानि त्रीणि / आकृतयः संस्थानानि षट् / संहननानि षट् / जातयः पञ्च / गतयश्चतसः / खगती द्वे। पूानुपूर्व्यश्चतस्रः / एव तन्वष्टके प्रकृतयः पञ्चत्रिंशत् / आयूषि चत्वारि / त्रसविंशतिस्त्रसदशकस्थावरदशकमीलनात् (गोयदुगत्ति) गोत्रशब्देनोपलक्षितं द्विकं (गोयवेयणीयमिति) गाथांशेन प्रतिपादितं गोत्रमुच्चैर्गोत्रं नीचैर्गोत्रमिति। सातासातभेदावेदनीयं द्विधा / तदेवं गोत्रविकशब्देन प्रकृतिचतुष्टयमभिधीयते (वन्नत्ति) वर्णगन्धरसस्पर्शाख्याश्चतस्रः प्रकृतयो गृह्यन्ते इत्येताः प्रकृतयोऽघातिन्यो न कंचन ज्ञानादिगुणं घातयन्तीति कृत्वा केवलं सर्वदेशघातिनीभिः सह वेद्यमाना एता अघातिन्योऽपि सर्वघातिरसविपाकं दर्शयन्ति। देशघातिनीभिः सह पुनर्वेद्यमाना देशघातिरसंयथा स्वयम
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy