________________ छोह 1363 - अभिधानराजेन्द्रः - भाग 3 छोह *क्षोभ पुं० शुभ-धन / “क्षः खः क्वचित्तु छझौ" 8 / 2 / 3 / इति सूत्रे क्वचिदितिनिर्देशादत्र छः यथा- 'छीणं' / “खघथधमाम्" / / 1 / 187 / इति अनादिभूतस्य भस्य हः / यथा-'सहाओ' इति / सचलने, “सनपुरक्षोभपदाभिरासीत्।" "रथक्षोभपरिश्रान्तः"। विकारे, "क्षोभमाशु हृदयं न यदूनाम्"। क्षुभ-ण्वुल।क्षोभ कारके, त्रि०। क्षुभ-णिच्-ल्युट् / क्षोभजनके, त्रि० / कामवाण विशेषे, पुं० / विष्णौ, पुं० / भावे-ण्वुल। क्षोभे, वाच०। संभ्रमे, स्तेनकेभ्यः क्षोभे, राजाऽऽदिक्षोभेवा, तत्रास्थानेऽपि उच्चारयतो न कायोत्सर्गभङ्गः / आव०५ अ०। "जातो छोहो, न नजइ केन हरियत्ति?" आ०म०१ अ०१ खण्ड। निःसहाये, क्षोभणीये च। प्रश्न०३ आश्र0 द्वारः अभ्याख्याने, बृ०१ उ०। जंगारा०) "मत्तभ्रान्तविपक्षदन्तिदमने पञ्चाऽऽननग्रामणीराजेन्द्राभिधकोशसंप्रणयनात् संदीप्तजैनाऽऽगमः। संघस्योपकृतिप्रयोगकरणे नित्यं कृती तादृशो, कोऽन्यः सूरिपदाङ्कितो विजयराजेन्द्रात् परोऽन्योऽस्ति कः ? ||1||" इति श्रीमत्सौधर्मबृहत्तपोगच्छीय-कलिकालसर्वज्ञकल्पप्रभु श्रीमद्भट्टारक-जैनश्वेताम्बराऽऽचार्य श्री श्री 1008 श्रीमद् विजयराजेन्द्रसूरीश्वरविरचिते 'अभिधानराजेन्द्रे' छकाराऽऽदिशब्द सङ्कलनं समाप्तम् / तत्समाप्तौ च समाप्तोऽयं तृतीयो भागः। SHAS